श्रीलिङ्गमहापुराणे पूर्वभागे एकादशोऽध्यायः
सद्योजातमाहात्म्यं
॥ ऋषय ऊचुः ॥
कथं वै दृष्टवान् ब्रह्मा सद्योजातं महेश्वरम् ।
वामदेवं महात्मानं पुराणपुरुषोत्तमम् ॥ १ ॥
अघोरं च तथेशानं यथावद्वक्तुमर्हसि ।
॥ सूत उवाच ॥
एकोनत्रिंशकः कल्पो विज्ञेयः श्वेतलोहितः ॥ २ ॥
तस्मिंस्तत्परमं ध्यानं ध्यायतो ब्रह्मणस्तदा ।
उत्पन्नस्तु शिखायुक्तः कुमारः श्वेतलोहितः ॥ ३ ॥
तं दृष्ट्वा पुरुषं श्रीमान् ब्रह्मा वै विश्वतोमुखः ।
हृदि कृत्वा महात्मानं ब्रह्मरूपिणमीश्वरम् ॥ ४ ॥
सद्योजातं ततो ब्रह्मा ध्यानयोगपरोऽभवत् ।
ध्यानयोगात्परं ज्ञात्वा ववन्दे देवमीश्वरम् ॥ ५ ॥
सद्योजातं ततो ब्रह्म ब्रह्म वै समचिन्तयत् ।
ततोऽस्य पार्श्वतः श्वेताः प्रादुर्भूता महायशाः ॥ ६ ॥
सुनन्दो नन्दनश्चैव विश्वनन्दोपनन्दनौ ।
शिष्यास्ते वै महात्मानो यैस्तद्ब्रह्म सदावृतम् ॥ ७ ॥
तस्याग्रे श्वेतवर्णाभः श्वेतो नाम महामुनिः ।
विजज्ञेऽथ महातेजास्तस्माज्जज्ञे हरस्त्वसौ ॥ ८ ॥
तत्र ते मुनयः सर्वे सद्योजातं महेश्वरम् ।
प्रपन्नाः परया भक्त्या गृणन्तो ब्रह्म शाश्वतम् ॥ ९ ॥
तस्माद्विश्वेश्वरं देवं ये प्रपद्यन्ति वै द्विजाः ।
प्राणायामपरा भूत्वा ब्रह्मतत्परमानसाः ॥ १० ॥
ते सर्वे पापनिर्मुक्ता विमला ब्रह्मवर्चसः ।
विष्णुलोकमतिक्रम्य रुद्रलोकं व्रजन्ति ते ॥ ११ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सद्योजातमाहात्म्यं
नामैकादशोऽध्यायः ॥ ११ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें