श्रीलिङ्गमहापुराणे पूर्वभागे सप्तदशोऽध्यायः
लिङ्गोद्भव
॥ सूत उवाच ॥
एवं सङ्क्षेपतः प्रोक्तः सह्यादीनां समुद्भवः ।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥ १ ॥
स याति ब्रह्मसायुज्यं प्रसादात् परमेष्ठिनः ।
॥ ऋषय ऊचुः ॥
कथं लिङ्गमभूल्लिङ्गे समभ्यर्च्यः स शङ्करः ॥ २ ॥
किं लिङ्गं कस्तथा लिङ्गी सूत वक्तुमिहार्हसि ।
॥ रोमहर्षण उवाच ॥
एवं देवाश्च ऋषयः प्रणिपत्य पितामहम् ॥ ३ ॥
अपृच्छन् भगवंल्लिङ्गं कथमासीदिति स्वयम् ।
लिङ्गे महेश्वरो रुद्रः समभ्यर्च्यः कथं त्विति ॥ ४ ॥
किं लिङ्गं कस्तथा लिङ्गी सोऽप्याह च पितामहः ।
॥ पितामह उवाच ॥
प्रधानं लिङ्गमाख्यातं लिङ्गी च परमेश्वरः ॥ ५ ॥
रक्षार्थमम्बुधौ मह्यं विष्णोस्त्वासीत् सुरोत्तमाः ।
वैमानिके गते सर्गे जनलोकं सहर्षिभिः ॥ ६ ॥
स्थितिकाले तदा पूर्णे ततः प्रत्याहृते तथा ।
चतुर्युगसहस्रान्ते सत्यलोकं गते सुराः ॥ ७ ॥
विनाधिपत्यं समतां गतेऽन्ते ब्रह्मणो मम ।
शुष्के च स्थावरे सर्वे त्वनावृष्ट्या च सर्वशः ॥ ८ ॥
पशवो मानुषा वृक्षाः पिशाचाः पिशिताशनाः ।
गन्धर्वाद्याः क्रमेणैव निर्दग्धा भानुभानुभिः ॥ ९ ॥
एकार्णवे महाघोरे तमोभूते समन्ततः ।
सुष्वापाम्भसि योगात्मा निर्मलो निरुपप्लवः ॥ १० ॥
सहस्रशीर्षा विश्वात्मा सहस्राक्षः सहस्रपात् ।
सहस्रबाहुः सर्वज्ञः सर्वदेवभवोद्भवः ॥ ११ ॥
हिरण्यगर्भो रजसा तमसा शङ्करः स्वयम् ।
सत्त्वेन सर्वगो विष्णुः सर्वात्मत्वे महेश्वरः ॥ १२ ॥
कालात्मा कालनाभस्तु शुक्लः कृष्णस्तु निर्गुणः ।
नारायणो महाबाहुः सर्वात्मा सदसन्मयः ॥ १३ ॥
तथाभूतमहं दृष्ट्वा शयानं पङ्कजेक्षणम् ।
मायया मोहितस्तस्य तमवोचममर्षितः ॥ १४ ॥
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ।
तदा हस्तप्रहारेण तीव्रेण स दृढेन तु ॥ १५ ॥
प्रबुद्धोऽहीयशयनात् समासीनः क्षणं वशी ।
ददर्श निद्राविक्लिन्न नीरजामललोचनः ॥ १६ ॥
मामग्रे संस्थितं भासा ध्यासितो भगवान् हरिः ।
आह चोत्थाय भगवान् हसन्मां मधुरं सकृत् ॥ १७ ॥
स्वागतंस्वागतं वत्स पितामह महाद्युते ।
तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभाः ॥ १८ ॥
रजसा बद्धवैरश्च तमवोचं जनार्दनम् ।
भाषसे वत्स वत्सेति सर्गसंहारकारणम् ॥ १९ ॥
मामिहान्तः स्मितं कृत्वा गुरुः शिष्यमिवानघ ।
कर्तारं जगतां साक्षात् प्रकृतेश्च प्रवर्तकम् ॥ २० ॥
सनातनमजं विष्णुं विरिञ्चिं विश्वसम्भवम् ।
विश्वात्मानं विधातारं धातारं पङ्कजेक्षणम् ॥ २१ ॥
किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम् ।
सोऽपि मामाह जगतां कर्ताहमिति लोकय ॥ २२ ॥
भर्ता हर्ता भवानङ्गादवतीर्णो ममाव्ययात् ।
विस्मृतोऽसि जगन्नाथं नारायणमनामयम् ॥ २३ ॥
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ।
विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम् ॥ २४ ॥
तवापराधो नास्त्यत्र मम मायाकृतं त्विदम् ।
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्ययम् ॥ २५ ॥
कर्ता नेता च हर्ता च न मयास्ति समो विभुः ।
अहमेव परं ब्रह्म परं तत्त्वं पितामह ॥ २६ ॥
अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ।
यद्यद्दृष्टं श्रुतं सर्वं जगत्यस्मिंश्चराचरम् ॥ २७ ॥
तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ।
मया सृष्टं पुरा व्यक्तं चतुर्विंशतिकं स्वयम् ॥ २८ ॥
नित्यान्ता ह्यणवो बद्धाः सृष्टाः क्रोधोद्भवादयः ।
प्रसादाद्धि भवानण्डान्यनेकानीह लीलया ॥ २९ ॥
सृष्टा बुद्धिर्मया तस्यामहङ्कारस्त्रिधा ततः ।
तन्मात्रा पञ्चकं तस्मान् मनः षष्ठेन्द्रियाणि च ॥ ३० ॥
आकाशादीनि भूतानि भौतिकानि च लीलया ।
इत्युक्तवति तस्मिंश्च मयि चापि वचस्तथा ॥ ३१ ॥
आवयोश्चाभवद्युद्धं सुघोरं रोमहर्षणम् ।
प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ॥ ३२ ॥
एतस्मिन्नन्तरे लिङ्गमभवच्चावयोः पुरः ।
विवादशमनार्थं हि प्रबोधार्थं च भास्वरम् ॥ ३३ ॥
ज्वालामालासहस्राढ्यं कालानलशतोपमम् ।
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ ३४ ॥
अनौपम्यमनिर्देश्यमव्यक्तं विश्वसम्भवम् ।
तस्य ज्वालासहस्रेण मोहितो भगवान् हरिः ॥ ३५ ॥
मोहितं प्राह मामत्र परीक्षावोऽग्निसम्भवम् ।
अधोगमिष्याम्यनल स्तम्भस्यानुपमस्य च ॥ ३६ ॥
भवानूर्ध्वं प्रयत्नेन गन्तुमर्हसि सत्वरम् ।
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ॥ ३७ ॥
वाराहमहमप्याशु हंसत्वं प्राप्तवान् सुराः ।
तदाप्रभृति मामाहुर्हंसं हंसो विराडिति ॥ ३८ ॥
हंस हंसेति यो ब्रूयान्मां हंसः स भविष्यति ।
सुश्वेतो ह्यनलाक्षश्च विश्वतः पक्षसंयुतः ॥ ३९ ॥
मनोऽनिलजवो भूत्वा गतोऽहं चोर्ध्वतः सुराः ।
नारायणोऽपि विश्वात्मा नीलाञ्जनचयोपमम् ॥ ४० ॥
दशयोजनविस्तीर्णं शतयोजनमायतम् ।
मेरुपर्वतवर्ष्माणं गौरतीक्ष्णाग्रदंष्ट्रिणम् ॥ ४१ ॥
कालादित्यसमाभासं दीर्घघोणं महास्वनम् ।
ह्रस्वपादं विचित्राङ्गं जैत्रं दृढमनौपमम् ॥ ४२ ॥
वाराहमसितं रूपमास्थाय गतवानधः ।
एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ ४३ ॥
नापश्यदल्पमप्यस्य मूलं लिङ्गस्य सूकरः ।
तावत्कालं गतो ह्यूर्ध्वमहमप्यरिसूदनः ॥ ४४ ॥
सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ।
श्रान्तो ह्यदृष्ट्वा तस्यान्तमहङ्कारादधोगतः ॥ ४५ ॥
तथैव भगवान् विष्णुः श्रान्तः सन्त्रस्तलोचनः ।
सर्वदेवभवस्तूर्णमुत्थितः सः महावपुः ॥ ४६ ॥
समागतो मया सार्धं प्रणिपत्य महामनाः ।
मायया मोहितः शम्भोस्तस्थौ संविग्नमानसः ॥ ४७ ॥
पृष्ठतः पार्श्वतश्चैव चाग्रतः परमेश्वरम् ।
प्रणिपत्य मया सार्धं सस्मार किमिदं त्विति ॥ ४८ ॥
तदा समभवत्तत्र नादो वै शब्दलक्षणः ।
ओमोमिति सुरश्रेष्ठाः सुव्यक्तः प्लुतलक्षणः ॥ ४९ ॥
किमिदं त्विति सञ्चिन्त्य मया तिष्ठन् महास्वनम् ।
लिङ्गस्य दक्षिणे भागे तदापश्यत् सनातनम् ॥ ५० ॥
आद्यवर्णमकारं तु उकारं चोत्तरे ततः ।
मकारं मध्यतश्चैव नादान्तं तस्य चौमिति ॥ ५१ ॥
सूर्यमण्डलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे ।
उत्तरे पावकप्रख्यमुकारं पुरुषर्षभः ॥ ५२ ॥
शीतांशुमण्डलप्रख्यं मकारं मध्यमं तथा ।
तस्योपरि तदापश्यच्छुद्धस्फटिकवत् प्रभुम् ॥ ५३ ॥
तुरीयातीतममृतं निष्कलं निरुपप्लवम् ।
निर्द्वन्द्वं केवलं शून्यं बाह्याभ्यन्तरवर्जितम् ॥ ५४ ॥
सबाह्याभ्यन्तरं चैव सबाह्याभ्यन्तरस्थितम् ।
आदिमध्यान्तरहितमानन्दस्यापि कारणम् ॥ ५५ ॥
मात्रास्तिस्रस्त्वर्धमात्रं नादाख्यं ब्रह्मसंज्ञितम् ।
ऋग्यजुःसामवेदा वै मात्रारूपेण माधवः ॥ ५६ ॥
वेदशब्देभ्य एवेशं विश्वात्मानमचिन्तयत् ।
तदाभवदृषिर्वेद ऋषेः सारतमं शुभम् ॥ ५७ ॥
तेनैव ऋषिणा विष्णुर्ज्ञातवान् परमेश्वरम् ।
॥ देव उवाच ॥
चिन्तया रहितो रुद्रो वाचो यन्मनसा सह ॥ ५८ ॥
अप्राप्य तं निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः ।
एकाक्षरेण तद्वाच्यमृतं परमकारणम् ॥ ५९ ॥
सत्यमानन्दममृतं परं ब्रह्म परात्परम् ।
एकाक्षरादकाराख्यो भगवान् कनकाण्डजः ॥ ६० ॥
एकाक्षरादुकाराख्यो हरिः परमकारणम् ।
एकाक्षरान् मकाराख्यो भगवान् नीललोहितः ॥ ६१ ॥
सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ।
मकाराख्यस्तयोर्नित्यमनुग्रहकरोऽभवत् ॥ ६२ ॥
मकाराख्यो विभुर्बीजी ह्यकारो बीजमुच्यते ।
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ॥ ६३ ॥
बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ।
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ॥ ६४ ॥
अस्य लिङ्गादभूद्बीजमकारो बीजिनः प्रभोः ।
उकारयोनौ निक्षिप्तमवर्धत समन्ततः ॥ ६५ ॥
सौवर्णमभवच्चाण्डमावेष्ट्याद्यं तदक्षरम् ।
अनेकाब्दं तथा चाप्सु दिव्यमण्डं व्यवस्थितम् ॥ ६६ ॥
ततो वर्षसहस्रान्ते द्विधा कृतमजोद्भवम् ।
अण्डमप्सु स्थितं साक्षादाद्याख्येनेश्वरेण तु ॥ ६७ ॥
तस्याण्डस्य शुभं हैमं कपालं चोर्ध्वसंस्थितम् ।
जज्ञे यद् द्यौस्तदपरं पृथिवी पञ्चलक्षणा ॥ ६८ ॥
तस्मादण्डोद्भवो जज्ञे त्वकाराख्यश्चतुर्मुखः ।
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ॥ ६९ ॥
एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ।
यजुषां वचनं श्रुत्वा ऋचः सामानि सादरम् ॥ ७० ॥
एवमेव हरे ब्रह्मन्नित्याहुः श्रुतयस्तदा ।
ततो विज्ञाय देवेशं यथावच्छ्रुतिसम्भवैः ॥ ७१ ॥
मन्त्रैर्महेश्वरं देवं तुष्टाव सुमहोदयम् ।
आवयोः स्तुतिसन्तुष्टो लिङ्गे तस्मिन्निरञ्जनः ॥ ७२ ॥
दिव्यं शब्दमयं रूपमास्थाय प्रहसन् स्थितः ।
अकारस्तस्य मूर्धा तु ललाटं दीर्घमुच्यते ॥ ७३ ॥
इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ।
उकारो दक्षिणं श्रोत्रमूकारो वाममुच्यते ॥ ७४ ॥
ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ।
वामं कपोलम् ॠकारो लृ ॡ नासापुटे उभे ॥ ७५ ॥
एकारमोष्ठमूर्द्ध्वश्च ऐकारस्त्वधरो विभोः ।
ओकारश्च तथौकारो दन्तपङ्क्तिद्वयं क्रमात् ॥ ७६ ॥
अमस्तु तालुनी तस्य देवदेवस्य धीमतः ।
कादिपञ्चाक्षराण्यस्य पञ्च हस्तानि दक्षिणे ॥ ७७ ॥
चादिपञ्चाक्षराण्येवं पञ्च हस्तानि वामतः ।
टादिपञ्चाक्षरं पादस्तादिपञ्चाक्षरं तथा ॥ ७८ ॥
पकारमुदरं तस्य फकारः पार्श्वमुच्यते ।
बकारो वामपार्श्वं वै भकारं स्कन्धमस्य तत् ॥ ७९ ॥
मकारं हृदयं शम्भोर्महादेवस्य योगिनः ।
यकारादिसकारान्तं विभोर्वै सप्त धातवः ॥ ८० ॥
हकार आत्मरूपं वै क्षकारः क्रोध उच्यते ।
तं दृष्ट्वा उमया सार्धं भगवन्तं महेश्वरम् ॥ ८१ ॥
प्रणम्य भगवान् विष्णुः पुनश्चापश्यदूर्द्ध्वतः ।
ॐकारप्रभवं मन्त्रं कलापञ्चकसंयुतम् ॥ ८२ ॥
शुद्धस्फटिकसङ्काशं सुभाष्टत्रिंशदक्षरम् ।
मेधाकरमभूद्भूयः सर्वधर्मार्थसाधकम् ॥ ८३ ॥
गायत्रीप्रभवं मन्त्रं हरितं वश्यकारकम् ।
चतुर्विंशतिवर्णाढ्यं चतुष्कलमनुत्तमम् ॥ ८४ ॥
अथर्वमसितं मन्त्रं कलाष्टकसमायुतम् ।
अभिचारिकमत्यर्थं त्रयस्त्रिंशच्छुभाक्षरम् ॥ ८५ ॥
यजुर्वेदसमायुक्तं पञ्चत्रिंशच्छुभाक्षरम् ।
कलाष्टकसमायुक्तं सुश्वेतं शान्तिकं तथा ॥ ८६ ॥
त्रयोदशकलायुक्तं बालाद्यैः सह लोहितम् ।
सामोद्भवं जगत्याद्यं वृद्धिसंहारकारणम् ॥ ८७ ॥
वर्णाः षडधिकाः षष्टिरस्य मन्त्रवरस्य तु ।
पञ्च मन्त्रांस्तथा लब्ध्वा जजाप भगवान् हरिः ॥ ८८ ॥
अथ दृष्ट्वा कलावर्णमृग्यजुःसामरूपिणम् ।
ईशानमीशमुकुटं पुरुषास्यं पुरातनम् ॥ ८९ ॥
अघोरहृदयं हृद्यं वामगुह्यं सदाशिवम् ।
सद्यः पादं महादेवं महाभोगीन्द्रभूषणम् ॥ ९० ॥
विश्वतः पादवदनं विश्वतोऽक्षिकरं शिवम् ।
ब्रह्मणोऽधिपतिं सर्ग स्थितिसंहारकारणम् ॥ ९१ ॥
तुष्टाव पुनरिष्टाभिर्वाग्भिर्वरदमीश्वरम् ॥ ९२ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे लिङ्गोद्भवो नाम सप्तदशोऽध्यायः ॥ १७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें