श्रीलिङ्गमहापुराणे
पूर्वभागे द्वादशोऽध्यायः
वामदेवमाहात्म्यं
॥ सूत उवाच ॥
ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्तितः ।
ब्रह्मा यत्र महातेजा रक्तवर्णमधारयत् ॥ १ ॥
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः ।
प्रादुर्भूतो महातेजाः कुमारो रक्तभूषणः ॥ २ ॥
रक्तमाल्याम्बरधरो रक्तनेत्रः प्रतापवान् ।
स तं दृष्ट्वा महात्मानं कुमारं रक्तवाससम् ॥ ३ ॥
परं ध्यानं समाश्रित्य बुबुधे देवमीश्वरम् ।
स तं प्रणम्य भगवान् ब्रह्मा परमयन्त्रितः ॥ ४ ॥
वामदेवं ततो ब्रह्मा ब्रह्म वै समचिन्तयत् ।
तथा स्तुतो महादेवो ब्रह्मणा परमेश्वरः ॥ ५ ॥
प्रतीतहृदयः सर्व इदमाह पितामहम् ।
ध्यायता पुत्रकामेन यस्मात्तेऽहं पितामह ॥ ६ ॥
दृष्टः परमया भक्त्या स्तुतश्च ब्रह्मपूर्वकम् ।
तस्माद्ध्यानबलं प्राप्य कल्पे कल्पे प्रयत्नतः ॥ ७ ॥
वेत्स्यसे मां प्रसंख्यातं लोकधातारमीश्वरम् ।
ततस्तस्य महात्मानश्चत्वारस्ते कुमारकाः ॥ ८ ॥
सम्बभूवुर्महात्मानो विशुद्धा ब्रह्मवर्चसः ।
विरजाश्च विबाहुश्च विशोको विश्वभावनः ॥ ९ ॥
ब्रह्मण्या ब्रह्मणस्तुल्या वीरा अध्यवसायिनः ।
रक्तांबरधराः सर्वे रक्तमाल्यानुलेपनाः ॥ १० ॥
रक्तकुङ्कुमलिप्ताङ्गा रक्तभस्मानुलेपनाः ।
ततो वर्षसहस्रान्ते ब्रह्मत्वेऽध्यवसायिनः ॥ ११ ॥
गृणन्तश्च महात्मानो ब्रह्म तद्वामदैविकम् ।
अनुग्रहार्थं लोकानां शिष्याणां हितकाम्यया ॥ १२ ॥
धर्मोपदेशमखिलं कृत्वा ते ब्रह्मणः प्रियाः ।
पुनरेव महादेवं प्रविष्टा रुद्रमव्ययम् ॥ १३ ॥
येऽपि चान्ये द्विजश्रेष्ठा युञ्जाना वाममीश्वरम् ।
प्रपश्यन्ति महादेवं तद् भक्तास्तत् परायणाः ॥ १४ ॥
ते सर्वे पापनिर्मुक्ता विमला ब्रह्मचारिणः ।
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १५ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे वामदेवमाहात्म्यं नाम
द्वादशोऽध्यायः ॥ १२ ॥
इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें -

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें