श्रीलिङ्गमहापुराण -[पूर्वभाग] -010

 श्रीलिङ्गमहापुराणे पूर्वभागे दशमोऽध्यायः

भक्तिभावकथनं
॥ सूत उवाच ॥

सतां जितात्मनां साक्षाद् द्विजातीनां द्विजोत्तमाः ।
धर्मज्ञानां च साधूनामाचार्याणां शिवात्मनाम् ॥ १ ॥
दयावतां द्विजश्रेष्ठास्तथा चैव तपस्विनाम् ।
संन्यासिनां विरक्तानां ज्ञानिनां वशगात्मनाम् ॥ २ ॥


दानिनां चैव दान्तानां त्रयाणां सत्यवादिनाम् ।
अलुब्धानां सयोगानां श्रुतिस्मृतिविदां द्विजाः ॥ ३ ॥
श्रौतस्मार्ताविरुद्धानां प्रसीदति महेश्वरः ।
सदिति ब्रह्मणः शब्दस्तदन्ते ये लभन्त्युत ॥ ४ ॥
सायुज्यं ब्रह्मणो याति तेन सन्तः प्रचक्षते ।
दशात्मके ये विषये साधने चाष्टलक्षणे ॥ ५ ॥
न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः ।
सामान्येषु च द्रव्येषु तथा वैशेषिकेषु च ॥ ६ ॥
ब्रह्मक्षत्रविशो यस्माद्युक्तास्तस्माद् द्विजातयः ।
वर्णाश्रमेषु युक्तस्य स्वर्गादिसुखकारिणः ॥ ७ ॥
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते ।
विद्यायाः साधनात्साधु ब्रह्मचारी गुरोर्हितः ॥ ८ ॥
क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ।
साधनात्तपसोऽरण्ये साधुर्वैखानसः स्मृतः ॥ ९ ॥
यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ।
एवमाश्रमधर्माणां साधनात् साधवः स्मृताः ॥ १० ॥
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा ।
धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ ॥ ११ ॥
कुशलाकुशलं कर्म धर्माधर्माविति स्मृतौ ।
धारणार्थे महान् ह्येष धर्मशब्दः प्रकीर्तितः ॥ १२ ॥
अधारणे महत्त्वे च अधर्म इति चोच्यते ।
अत्रेष्टप्रापको धर्म आचार्यैरुपदिश्यते ॥ १३ ॥
अधर्मश्चानिष्टफलो ह्याचार्यैरुपदिश्यते ।
वृद्धाश्चालोलुपाश्चैव आत्मवन्तो ह्यदाम्भिकाः ॥ १४ ॥
सम्यग्विनीता ऋजवस्तानाचार्यान् प्रचक्षते ।
स्वयमाचरते यस्मादाचारे स्थापयत्यपि ॥ १५ ॥
आचिनोति च शास्त्रार्थानाचार्यस्तेन चोच्यते ।
विज्ञेयं श्रवणाच्छ्रौतं स्मरणात्स्मार्तमुच्यते ॥ १६ ॥
इज्या वेदात्मकं श्रौतं स्मार्तं वर्णाश्रमात्मकम् ।
दृष्ट्वानुरूपमर्थं यः पृष्टो नैवापि गूहति ॥ १७ ॥
यथादृष्टप्रवादस्तु सत्यं लैङ्गेऽत्र पठ्यते ।
ब्रह्मचर्यं तथा मौनं निराहारत्वमेव च ॥ १८ ॥
अहिंसा सर्वतः शान्तिस्तप इत्यभिधीयते ।
आत्मवत्सर्वभूतेषु यो हितायाहिताय च ॥ १९ ॥
वर्तते त्वसकृद्वृत्तिः कृत्स्ना ह्येषा दया स्मृता ।
यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं क्रमात् ॥ २० ॥
तत्तद्गुणवते देयं दातुस्तद्दानलक्षणम् ।
दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् ॥ २१ ॥
कारुण्यात् सर्वभूतेभ्यः संविभागस्तु मध्यमः ।
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः ॥ २२ ॥
शिष्टाचाराविरुद्धश्च स धर्मः साधुरुच्यते ।
मायाकर्मफलत्यागी शिवात्मा परिकीर्तितः ॥ २३ ॥
निवृत्तः सर्वसङ्गेभ्यो युक्तो योगी प्रकीर्तितः ।
असक्तो भयतो यस्तु विषयेषु विचार्य च ॥ २४ ॥
अलुब्धः संयमी प्रोक्तः प्रार्थितोऽपि समन्ततः ।
आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै ॥ २५ ॥
न मिथ्या सम्प्रवर्तन्ते शमस्यैव तु लक्षणम् ।
अनुद्विग्नो ह्यनिष्टेषु तथेष्टान्नाभिनन्दति ॥ २६ ॥
प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ।
संन्यासः कर्मणां न्यासः कृतानामकृतैः सह ॥ २७ ॥
कुशलाकुशलानां तु प्रहाणं न्यास उच्यते ।
अव्यक्ताद्यविशेषान्ते विकारेऽस्मिन्नचेतने ॥ २८ ॥
चेतनाचेतनान्यत्व विज्ञानं ज्ञानमुच्यते ।
एवं तु ज्ञानयुक्तस्य श्रद्धायुक्तस्य शङ्करः ॥ २९ ॥
प्रसीदति न सन्देहो धर्मश्चायं द्विजोत्तमाः ।
किं तु गुह्यतमं वक्ष्ये सर्वत्र परमेश्वरे ॥ ३० ॥
भवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ।
अयोग्यस्यापि भगवान् भक्तस्य परमेश्वरः ॥ ३१ ॥
प्रसीदति न सन्देहो निगृह्य विविधं तमः ।
ज्ञानमध्यापनं होमो ध्यानं यज्ञस्तपः श्रुतम् ॥ ३२ ॥
दानमध्ययनं सर्वं भवभक्त्यै न संशयः ।
चान्द्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥ ३३ ॥
मासोपवासैश्चान्यैर्वा भक्तिर्मुनिवरोत्तमाः ।
अभक्ता भगवत्यस्मिंल्लोके गिरिगुहाशये ॥ ३४ ॥
पतन्ति चात्मभोगार्थं भक्तो भावेन मुच्यते ।
भक्तानां दर्शनादेव नृणां स्वर्गादयो द्विजाः ॥ ३५ ॥
न दुर्लभा न सन्देहो भक्तानां किं पुनस्तथा ।
ब्रह्मविष्णुसुरेन्द्राणां तथान्येषामपि स्थितिः ॥ ३६ ॥
भक्त्या एव मुनीनां च बलसौभाग्यमेव च ।
भवेन च तथा प्रोक्तं सम्प्रेक्ष्योमां पिनाकिना ॥ ३७ ॥
देव्यै देवेन मधुरं वाराणस्यां पुरा द्विजाः ।
अविमुक्ते समासीना रुद्रेण परमात्मना ॥ ३८ ॥
रुद्राणी रुद्रमाहेदं लब्ध्वा वाराणसीं पुरीम् ।
॥ श्रीदेव्युवाच ॥
केन वश्यो महादेव पूज्यो दृश्यस्त्वमीश्वरः ॥ ३९ ॥
तपसा विद्यया वापि योगेनेह वद प्रभो ।
॥ सूत उवाच ॥
निशम्य वचनं तस्यास्तथा ह्यालोक्य पार्वतीम् ॥ ४० ॥
आह बालेन्दुतिलकः पूर्णेन्दुवदनां हसन् ।
स्मृत्वाथ मेनया पत्न्या गिरेर्गां कथितां पुरा ॥ ४१ ॥
चिरकालस्थितिं प्रेक्ष्य गिरौ देव्या महात्मनः ।
देवि लब्धा पुरी रम्या त्वया यत्प्रष्टुमर्हसि ॥ ४२ ॥
स्थानार्थं कथितं मात्रा विस्मृतेह विलासिनि ।
पुरा पितामहेनापि पृष्टः प्रश्नवतां वरे ॥ ४३ ॥
यथा त्वयाद्य वै पृष्टो द्रष्टुं ब्रह्मात्मकं त्वहम् ।
श्वेते श्वेतेन वर्णेन दृष्ट्वा कल्पे तु मां शुभे ॥ ४४ ॥
सद्योजातं तथा रक्ते रक्तं वामं पितामहः ।
पीते तत्पुरुषं पीतमघोरे कृष्णमीश्वरम् ॥ ४५ ॥
ईशानं विश्वरूपाख्यो विश्वरूपं तदाह माम् ।
॥ पितामह उवाच ॥
वाम तत्पुरुषाघोर सद्योजात महेश्वर ॥ ४६ ॥
दृष्टो मया त्वं गायत्र्या देवदेव महेश्वर ।
केन वश्यो महादेव ध्येयः कुत्र घृणानिधे ॥ ४७ ॥
दृश्यः पूज्यस्तथा देव्या वक्तुमर्हसि शङ्कर ।
॥ श्रीभगवानुवाच ॥
अवोचं श्रद्धयैवेति वश्यो वारिजसम्भव ॥ ४८ ॥
ध्येयो लिङ्गे त्वया दृष्टे विष्णुना पयसां निधौ ।
पूज्यः पञ्चास्यरूपेण पवित्रैः पञ्चभिर्द्विजैः ॥ ४९ ॥
भव भक्त्याद्य दृष्टोऽहं त्वयाण्डज जगद्गुरो ।
सोऽपि मामाह भावार्थं दत्तं तस्मै मया पुरा ॥ ५० ॥
भावं भावेन देवेशि दृष्टवान् मां हृदीश्वरम् ।
तस्मात्तु श्रद्धया वश्यो दृश्यः श्रेष्ठगिरेः सुते ॥ ५१ ॥
पूज्यो लिङ्गे न सन्देहः सर्वदा श्रद्धया द्विजैः ।
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः ॥ ५२ ॥
श्रद्धा स्वर्गश्च मोक्षश्च दृश्योऽहं श्रद्धया सदा ॥ ५३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे भक्तिभावकथनं नाम दशमोऽध्यायः ॥ १० ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-10

कोई टिप्पणी नहीं:

123