श्रीलिङ्गमहापुराण -[पूर्वभाग] -009

 श्रीलिङ्गमहापुराणे पूर्वभागे नवमोऽध्यायः

योगान्तरायकथनं
॥ सूत उवाच ॥

आलस्यं प्रथमं पश्चाद्व्याधिपीडा प्रजायते ।
प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः ॥ १ ॥
अश्रद्धादर्शनं भ्रान्तिर्दुःखं च त्रिविधं ततः ।
दौर्मनस्यमयोग्येषु विषयेषु च योग्यता ॥ २ ॥


दशधाभिप्रजायन्ते मुनेर्योगान्तरायकाः ।
आलस्यं चाप्रवृत्तिश्च गुरुत्वात्कायचित्तयोः ॥ ३ ॥
व्याधयो धातुवैषम्यात् कर्मजा दोषजास्तथा ।
प्रमादस्तु समाधेस्तु साधनानामभावनम् ॥ ४ ॥
इदं वेत्युभयस्पृक्तं विज्ञानं स्थानसंशयः ।
अनवस्थितचित्तत्वमप्रतिष्ठा हि योगिनः ॥ ५ ॥
लब्धायामपि भूमौ च चित्तस्य भवबन्धनात् ।
अश्रद्धाभावरहिता वृत्तिर्वै साधनेषु च ॥ ६ ॥
साध्ये चित्तस्य हि गुरौ ज्ञानाचारशिवादिषु ।
विपर्ययज्ञानमिति भ्रान्तिदर्शनमुच्यते ॥ ७ ॥
अनात्मन्यात्मविज्ञानमज्ञानात्तस्य सन्निधौ ।
दुःखमाध्यात्मिकं प्रोक्तं तथा चैवाधिभौतिकम् ॥ ८ ॥
आधिदैविकमित्युक्तं त्रिविधं सहजं पुनः ।
इच्छाविघातात् सङ्क्षोभश्चेतसस्तदुदाहृतम् ॥ ९ ॥
दौर्मनस्यं निरोद्धव्यं वैराग्येण परेण तु ।
तमसा रजसा चैव संस्पृष्टं दुर्मनः स्मृतम् ॥ १० ॥
तदा मनसि सञ्जातं दौर्मनस्यमिति स्मृतम् ।
हठात् स्वीकरणं कृत्वा योग्यायोग्यविवेकतः ॥ ११ ॥
विषयेषु विचित्रेषु जन्तोर्विषयलोलता ।
अन्तराया इति ख्याता योगस्यैते हि योगिनाम् ॥ १२ ॥
अत्यन्तोत्साहयुक्तस्य नश्यन्ति न च संशयः ।
प्रनष्टेष्वन्तरायेषु द्विजाः पश्चाद्धि योगिनः ॥ १३ ॥
उपसर्गाः प्रवर्तन्ते सर्वे तेऽसिद्धिसूचकाः ।
प्रतिभा प्रथमा सिद्धिर्द्वितीया श्रवणा स्मृता ॥ १४ ॥
वार्त्ता तृतीया विप्रेन्द्रास्तुरीया चेह दर्शना ।
आस्वादा पञ्चमी प्रोक्ता वेदना षष्ठिका स्मृता ॥ १५ ॥
स्वल्पषट्सिद्धिसंत्यागात्सिद्धिदाः सिद्धयो मुनेः ।
प्रतिभा प्रतिभावृतिः प्रतिभाव इति स्थितिः ॥ १६ ॥
बुद्धिर्विवेचना वेद्यं बुध्यते बुद्धिरुच्यते ।
सूक्ष्मे व्यवहितेऽतीते विप्रकृष्टे त्वनागते ॥ १७ ॥
सर्वत्र सर्वदा ज्ञानं प्रतिभानुक्रमेण तु ।
श्रवणात् सर्वशब्दानामप्रयत्नेन योगिनः ॥ १८ ॥
ह्रस्वदीर्घप्लुतादीनां गुह्यानां श्रवणादपि ।
स्पर्शस्याधिगमो यस्तु वेदना तूपपादिता ॥ १९ ॥
दर्शनाद्दिव्यरूपाणां दर्शनं चाप्रयत्नतः ।
संविद्दिव्यरसे तस्मिन्नास्वादो ह्यप्रयत्नतः ॥ २० ॥
वार्त्ता च दिव्यगन्धानां तन्मात्रा बुद्धिसंविदा ।
विन्दन्ते योगिनस्तस्मादाब्रह्मभुवनं द्विजाः ॥ २१ ॥
जगत्यस्मिन् हि देहस्थं चतुःषष्टिगुणं समम् ।
औपसर्गिकमेतेषु गुणेषु गुणितं द्विजाः ॥ २२ ॥
सन्त्याज्यं सर्वथा सर्वमौपसर्गिकमात्मनः ।
पैशाचे पार्थिवं चाप्यं राक्षसानां पुरे द्विजाः ॥ २३ ॥
याक्षे तु तैजसं प्रोक्तं गान्धर्वे श्वसनात्मकम् ।
ऐन्द्रे व्योमात्मकं सर्वं सौम्ये चैव तु मानसम् ॥ २४ ॥
प्राजापत्ये त्वहङ्कारं ब्राह्मे बोधमनुत्तमम् ।
आद्ये चाष्टौ द्वितीये च तथा षोडशरूपकम् ॥ २५ ॥
चतुर्विंशत्तृतीये तु द्वात्रिंशच्च चतुर्थके ।
चत्वारिंशत् पञ्चमे तु भूतमात्रात्मकं स्मृतम् ॥ २६ ॥
गन्धो रसस्तथा रूपं शब्दः स्पर्शस्तथैव च ।
प्रत्येकमष्टधा सिद्धं पञ्चमे तच्छतक्रतोः ॥ २७ ॥
तथाष्टचत्वारिंशच्च षट्पञ्चाशत्तथैव च ।
चतुःषष्टिगुणं ब्राह्मं लभते द्विजसत्तमाः ॥ २८ ॥
औपसर्गिकमा ब्रह्म भुवनेषु परित्यजेत् ।
लोकेष्वालोक्य योगेन योगवित्परमं सुखम् ॥ २९ ॥
स्थूलता ह्रस्वता बाल्यं वार्धक्यं यौवनं तथा ।
नानाजातिस्वरूपं च चतुर्भिर्देहधारणम् ॥ ३० ॥
पार्थिवांशं विना नित्यं सुरभिर्गन्धसंयुतः ।
एतदष्टगुणं प्रोक्तमैश्वर्यं पार्थिवं महत् ॥ ३१ ॥
जले निवसनं यद्वद्भूम्यामिव विनिर्गमः ।
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ ३२ ॥
यत्रेच्छति जगत्यस्मिंस्तत्रास्य जलदर्शनम् ।
यद्यद्वस्तु समादाय भोक्तुमिच्छति कामतः ॥ ३३ ॥
तत्तद्रसान्वितं तस्य त्रयाणां देहधारणम् ।
भाण्डं विनाथ हस्तेन जलपिण्डस्य धारणम् ॥ ३४ ॥
अव्रणत्वं शरीरस्य पार्थिवेन समन्वितम् ।
एतत् षोडशकं प्रोक्तमाप्यमैश्वर्यमुत्तमम् ॥ ३५ ॥
देहादग्निविनिर्माणं तत्तापभयवर्जितम् ।
लोकं दग्धमपीहान्यददग्धं स्वविधानतः ॥ ३६ ॥
जलमध्ये हुतवहं चाधाय परिरक्षणम् ।
अग्निनिग्रहणं हस्ते स्मृतिमात्रेण चागमः ॥ ३७ ॥
भस्मीभूतविनिर्माणं यथापूर्वं सकामतः ।
द्वाभ्यां रूपविनिष्पत्तिर्विना तैस्त्रिभिरात्मनः ॥ ३८ ॥
चतुर्विंशात्मकं ह्येतत्तैजसं मुनिपुङ्गवाः ।
मनोगतित्वं भूतानामन्तर्निवसनं तथा ॥ ३९ ॥
पर्वतादिमहाभार स्कन्धेनोद्वहनं पुनः ।
लघुत्वं च गुरुत्वं च पाणिभ्यां वायुधारणम् ॥ ४० ॥
अङ्गुल्यग्रनिघातेन भूमेः सर्वत्र कम्पनम् ।
एकेन देहनिष्पत्तिर्वातैश्वर्यं स्मृतं बुधैः ॥ ४१ ॥
छायाविहीननिष्पत्तिरिन्द्रियाणां च दर्शनम् ।
आकाशगमनं नित्यमिन्द्रियार्थैः समन्वितम् ॥ ४२ ॥
दूरे च शब्दग्रहणं सर्वशब्दावगाहनम् ।
तन्मात्रलिङ्गग्रहणं सर्वप्राणिनिदर्शनम् ॥ ४३ ॥
ऐन्द्रमैश्वर्यमित्युक्तमेतैरुक्तः पुरातनः ।
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ ४४ ॥
सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम् ।
कामानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ ४५ ॥
संसारदर्शनं चैव मानसं गुणलक्षणम् ।
छेदनं ताडनं बन्धं संसारपरिवर्तनम् ॥ ४६ ॥
सर्वभूतप्रसादश्च मृत्युकालजयस्तथा ।
प्राजापत्यमिदं प्रोक्तमाहङ्कारिकमुत्तमम् ॥ ४७ ॥
अकारणजगत् सृष्टिस्तथानुग्रह एव च ।
प्रलयश्चाधिकारश्च लोकवृत्तप्रवर्तनम् ॥ ४८ ॥
असादृश्यमिदं व्यक्तं निर्माणं च पृथक् पृथक् ।
संसारस्य च कर्तृत्वं ब्राह्ममेतदनुत्तमम् ॥ ४९ ॥
एतावत्तत्त्वमित्युक्तं प्राधान्यं वैष्णवं पदम् ।
ब्रह्मणा तद्गुणं शक्यं वेत्तुमन्यैर्न शक्यते ॥ ५० ॥
विद्यते तत्परं शैवं विष्णुना नावगम्यते ।
असंख्येयगुणं शुद्धं को जानीयाच्छिवात्मकम् ॥ ५१ ॥
व्युत्थाने सिद्धयश्चैता ह्युपसर्गाश्च कीर्तिताः ।
निरोद्धव्याः प्रयत्नेन वैराग्येण परेण तु ॥ ५२ ॥
नाशातिशयतां ज्ञात्वा विषयेषु भयेषु च ।
अश्रद्धया त्यजेत् सर्वं विरक्त इति कीर्तितः ॥ ५३ ॥
वैतृष्ण्यं पुरुषे ख्यातं गुणवैतृष्ण्यमुच्यते ।
वैराग्येणैव सन्त्याज्याः सिद्धयश्चौपसर्गिकाः ॥ ५४ ॥
औपसर्गिकमा ब्रह्म भुवनेषु परित्यजेत् ।
निरुद्ध्यैव त्यजेत् सर्वं प्रसीदति महेश्वरः ॥ ५५ ॥
प्रसन्ने विमला मुक्तिर्वैराग्येण परेण वै ।
अथवानुग्रहार्थं च लीलार्थं वा तदा मुनिः ॥ ५६ ॥
अनिरुद्ध्य विचेष्टेद्यः सोऽप्येवं हि सुखी भवेत् ।
क्वचिद्भूमिं परित्यज्य ह्याकाशे क्रीडते श्रिया ॥ ५७ ॥
उद्गिरेच्च क्वचिद्वेदान् सूक्ष्मानर्थान् समासतः ।
क्वचिच्छ्रुते तदर्थेन श्लोकबन्धं करोति सः ॥ ५८ ॥
क्वचिद्दण्डकबन्धं तु कुर्याद्बन्धं सहस्रशः ।
मृगपक्षिसमूहस्य रुतज्ञानं च विन्दति ॥ ५९ ॥
ब्रह्माद्यं स्थावरान्तं च हस्तामलकवद्भवेत् ।
बहुनात्र किमुक्तेन विज्ञानानि सहस्रशः ॥ ६० ॥
उत्पद्यन्ते मुनिश्रेष्ठा मुनेस्तस्य महात्मनः ।
अभ्यासेनैव विज्ञानं विशुद्धं च स्थिरं भवेत् ॥ ६१ ॥
तेजोरूपाणि सर्वाणि सर्वं पश्यति योगवित् ।
देवबिम्बान्यनेकानि विमानानि सहस्रशः ॥ ६२ ॥
पश्यति ब्रह्मविष्ण्विन्द्र यमाग्निवरुणादिकान् ।
ग्रहनक्षत्रताराश्च भुवनानि सहस्रशः ॥ ६३ ॥
पातालतलसंस्थाश्च समाधिस्थः स पश्यति ।
आत्मविद्याप्रदीपेन स्वस्थेनाचलनेन तु ॥ ६४ ॥
प्रसादामृतपूर्णेन सत्त्वपात्रस्थितेन तु ।
तमो निहत्य पुरुषः पश्यति ह्यात्मनीश्वरम् ॥ ६५ ॥
तस्य प्रसादाद्धर्मश्च ऐश्वर्यं ज्ञानमेव च ।
वैराग्यमपवर्गश्च नात्र कार्या विचारणा ॥ ६६ ॥
न शक्यो विस्तरो वक्तुं वर्षाणामयुतैरपि ।
योगे पाशुपते निष्ठा स्थातव्यं च मुनीश्वराः ॥ ६७ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे योगान्तरायकथनं नाम नवमोऽध्यायः ॥ ९ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-09

कोई टिप्पणी नहीं:

123