श्रीलिङ्गमहापुराण -[पूर्वभाग] -008

 श्रीलिङ्गमहापुराणे पूर्वभागे अष्टमोऽध्यायः

अष्टाङ्गयोगनिरूपणं
॥ सूत उवाच ॥

सङ्क्षेपतः प्रवक्ष्यामि योगस्थानानि साम्प्रतम् ।
कल्पितानि शिवेनैव हिताय जगतां द्विजाः ॥ १ ॥
गलादधो वितस्त्या यन्नाभेरुपरि चोत्तमम् ।
योगस्थानमधो नाभेरावर्तं मध्यमं भ्रुवोः ॥ २ ॥


सर्वार्थज्ञाननिष्पत्तिरात्मनो योग उच्यते ।
एकाग्रता भवेच्चैव सर्वदा तत्प्रसादतः ॥ ३ ॥
प्रसादस्य स्वरूपं यत्स्वसंवेद्यं द्विजोत्तमाः ।
वक्तुं न शक्यं ब्रह्माद्यैः क्रमशो जायते नृणाम् ॥ ४ ॥
योगशब्देन निर्वाणं माहेशं पदमुच्यते ।
तस्य हेतुर्ऋषेर्ज्ञानं ज्ञानं तस्य प्रसादतः ॥ ५ ॥
ज्ञानेन निर्दहेत्पापं निरुध्य विषयान् सदा ।
निरुद्धेन्द्रियवृत्तेस्तु योगसिद्धिर्भविष्यति ॥ ६ ॥
योगो निरोधो वृत्तेषु चित्तस्य द्विजसत्तमाः ।
साधनान्यष्टधा चास्य कथितानीह सिद्धये ॥ ७ ॥
यमस्तु प्रथमः प्रोक्तो द्वितीयो नियमस्तथा ।
तृतीयमासनं प्रोक्तं प्राणायामस्ततः परम् ॥ ८ ॥
प्रत्याहारं पञ्चमो वै धारणा च ततः परा ।
ध्यानं सप्तममित्युक्तं समाधिस्त्वष्टमः स्मृतः ॥ ९ ॥
तपस्युपरमश्चैव यम इत्यभिधीयते ।
अहिंसा प्रथमो हेतुर्यमस्य यमिनां वराः ॥ १० ॥
सत्यमस्तेयमपरं ब्रह्मचर्यापरिग्रहौ ।
नियमस्यापि वै मूलं यम एव न संशयः ॥ ११ ॥
आत्मवत्सर्वभूतानां हितायैव प्रवर्तनम् ।
अहिंसैषा समाख्याता या चात्मज्ञानसिद्धिदा ॥ १२ ॥
दृष्टं श्रुतं चानुमितं स्वानुभूतं यथार्थतः ।
कथनं सत्यमित्युक्तं परपीडाविवर्जितम् ॥ १३ ॥
नाश्लीलं कीर्तयेदेवं ब्राह्मणानामिति श्रुतिः ।
परदोषान् परिज्ञाय न वदेदिति चापरम् ॥ १४ ॥
अनादानं परस्वानामापद्यपि विचारतः ।
मनसा कर्मणा वाचा तदस्तेयं समासतः ॥ १५ ॥
मैथुनस्याप्रवृत्तिर्हि मनोवाक्कायकर्मणा ।
ब्रह्मचर्यमिति प्रोक्तं यतीनां ब्रह्मचारिणाम् ॥ १६ ॥
इह वैखानसानां च विदाराणां विशेषतः ।
सदाराणां गृहस्थानं तथैव च वदामि वः ॥ १७ ॥
स्वदारे विधिवत्कृत्वा निवृत्तिश्चान्यतः सदा ।
मनसा कर्मणा वाचा ब्रह्मचर्यमिति स्मृतम् ॥ १८ ॥
मेध्या स्वनारी सम्भोगं कृत्वा स्नानं समाचरेत् ।
एवं गृहस्थो युक्तात्मा ब्रह्मचारी न संशयः ॥ १९ ॥
अहिंसाप्येवमेवैषा द्विजगुर्वग्निपूजने ।
विधिना यादृशी हिंसा सा त्वहिंसा इति स्मृता ॥ २० ॥
स्त्रियः सदा परित्याज्याः सङ्गं नैव च कारयेत् ।
कुणपेषु यथा चित्तं तथा कुर्याद्विचक्षणः ॥ २१ ॥
विण्मूत्रोत्सर्गकालेषु बहिर्भूमौ यथा मतिः ।
तथा कार्या रतौ चापि स्वदारे चान्यतः कुतः ॥ २२ ॥
अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् ।
तस्मान्नारीषु संसर्गं दूरतः परिवर्जयेत् ॥ २३ ॥
भोगेन तृप्तिर्नैवास्ति विषयाणां विचारतः ।
तस्माद्विरागः कर्तव्यो मनसा कर्मणा गिरा ॥ २४ ॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ २५ ॥
तस्मात्त्यागः सदा कार्यस्त्वमृतत्वाय योगिना ।
अविरक्तो यतो मर्त्यो नानायोनिषु वर्तते ॥ २६ ॥
त्यागेनैवामृतत्वं हि श्रुतिस्मृतिविदां वराः ।
कर्मणा प्रजया नास्ति द्रव्येण द्विजसत्तमाः ॥ २७ ॥
तस्माद्विरागः कर्तव्यो मनोवाक्कायकर्मणा ।
ऋतौ ऋतौ निवृत्तिस्तु ब्रह्मचर्यमिति स्मृतम् ॥ २८ ॥
यमाः संक्षेपतः प्रोक्ता नियमांश्च वदामि वः ।
शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः ॥ २९ ॥
व्रतोपवासमौनं च स्नानं च नियमा दश ।
नियमः स्यादनीहा च शौचं तुष्टिस्तपस्तथा ॥ ३० ॥
जपः शिवप्रणीधानं पद्मकाद्यं तथासनम् ।
बाह्यमाभ्यन्तरं प्रोक्तं शौचमाभ्यन्तरं वरम् ॥ ३१ ॥
बाह्यशौचेन युक्तः संस्तथा चाभ्यन्तरं चरेत् ।
आग्नेयं वारुणं ब्राह्मं कर्तव्यं शिवपूजकैः ॥ ३२ ॥
स्नानं विधानतः सम्यक् पश्चादाभ्यन्तरं चरेत् ।
आ देहान्तं मृदालिप्य तीर्थतोयेषु सर्वदा ॥ ३३ ॥
अवगाह्यापि मलिनो ह्यन्तः शौचविवर्जितः ।
शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः ॥ ३४ ॥
सदावगाह्यः सलिले विशुद्धाः किं द्विजोत्तमाः ।
तस्मादाभ्यन्तरं शौचं सदा कार्यं विधानतः ॥ ३५ ॥
आत्मज्ञानाम्भसि स्नात्वा सकृदालिप्य भावतः ।
सुवैराग्यमृदा शुद्धः शौचमेवं प्रकीर्तितम् ॥ ३६ ॥
शुद्धस्य सिद्धयो दृष्टा नैवाशुद्धस्य सिद्धयः ।
न्यायेनागतया वृत्त्या संतुष्टो यस्तु सुव्रतः ॥ ३७ ॥
सन्तोषस्तस्य सततमतीतार्थस्य चास्मृतिः ।
चान्द्रायणादिनिपुणस्तपांसि सुशुभानि च ॥ ३८ ॥
स्वाध्यायस्तु जपः प्रोक्तः प्रणवस्य त्रिधा स्मृतः ।
वाचिकश्चाधमो मुख्य उपांशुश्चोत्तमोत्तमः ॥ ३९ ॥
मानसो विस्तरेणैव कल्पे पञ्चाक्षरे स्मृतः ।
तथा शिवप्रणीधानं मनोवाक्कायकर्मणा ॥ ४० ॥
शिवज्ञानं गुरोर्भक्तिरचला सुप्रतिष्ठिता ।
निग्रहो ह्यपहृत्याशु प्रसक्तानीन्द्रियाणि च ॥ ४१ ॥
विषयेषु समासेन प्रत्याहारः प्रकीर्तितः ।
चित्तस्य धारणा प्रोक्ता स्थानबन्धः समासतः ॥ ४२ ॥
तस्याः स्वास्थ्येन ध्यानं च समाधिश्च विचारतः ।
तत्रैकचित्तता ध्यानं प्रत्ययान्तरवर्जितम् ॥ ४३ ॥
चिद्भासमर्थमात्रस्य देहशून्यमिव स्थितम् ।
समाधिः सर्वहेतुश्च प्राणायाम इति स्मृतः ॥ ४४ ॥
प्राणः स्वदेहजो वायुर्यमस्तस्य निरोधनम् ।
त्रिधा द्विजैर्यमः प्रोक्तो मन्दो मध्योत्तमस्तथा ॥ ४५ ॥
प्राणापाननिरोधस्तु प्राणायामः प्रकीर्तितः ।
प्राणायामस्य मानं तु मात्राद्वादशकं स्मृतम् ॥ ४६ ॥
नीचो द्वादशमात्रस्तु उद्धातो द्वादशः स्मृतः ।
मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ ४७ ॥
मुख्यस्तु यस्त्रिरुद्धातः षट्त्रिंशन्मात्र उच्यते ।
प्रस्वेदकम्पनोत्थान जनकश्च यथाक्रमम् ॥ ४८ ॥
आनन्दोद्भवयोगार्थं निद्राघूर्णिस्तथैव च ।
रोमाञ्चध्वनिसंविद्ध स्वाङ्गमोटनकम्पनम् ॥ ४९ ॥
भ्रमणं स्वेदजन्या सा संविन्मूर्छा भवेद्यदा ।
तदोत्तमोत्तमः प्रोक्तः प्राणायामः सुशोभनः ॥ ५० ॥
सगर्भोऽगर्भ इत्युक्तः सजपो विजपः क्रमात् ।
इभो वा शरभो वापि दुराधर्षोऽथ केसरी ॥ ५१ ॥
गृहीतो दम्यमानस्तु यथास्वस्थस्तु जायते ।
तथा समीरणोऽस्वस्थो दुराधर्षश्च योगिनाम् ॥ ५२ ॥
न्यायतः सेव्यमानस्तु स एवं स्वस्थतां व्रजेत् ।
यथैव मृगराड् नागः शरभो वापि दुर्मदः ॥ ५३ ॥
कालान्तरवशाद्योगाद्दम्यते परमादरात् ।
तथा परिचयात्स्वास्थ्यं समत्वं चाधिगच्छति ॥ ५४ ॥
योगादभ्यसते यस्तु व्यसनं नैव जायते ।
एवमभ्यस्यमानस्तु मुनेः प्राणो विनिर्दहेत् ॥ ५५ ॥
मनोवाक्कायजान् दोषान् कर्तुर्देहं च रक्षति ।
संयुक्तस्य तथा सम्यक् प्राणायामेन धीमतः ॥ ५६ ॥
दोषात्तस्माच्च नश्यन्ति निश्वासस्तेन जीर्यते ।
प्राणायामेन सिध्यन्ति दिव्याः शान्त्यादयः क्रमात् ॥ ५७ ॥
शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च तथा क्रमात् ।
आदौ चतुष्टयस्येह प्रोक्ता शान्तिरिह द्विजाः ॥ ५८ ॥
सहजागन्तुकानां च पापानां शान्तिरुच्यते ।
प्रशान्तिः संयमः सम्यग्वचसामिति संस्मृता ॥ ५९ ॥
प्रकाशो दीप्तिरित्युक्तः सर्वतः सर्वदा द्विजाः ।
सर्वेन्द्रियप्रसादस्तु बुद्धेर्वै मरुतामपि ॥ ६० ॥
प्रसाद इति सम्प्रोक्तः स्वान्ते त्विह चतुष्टये ।
प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ ६१ ॥
नागः कूर्मस्तु कृकलो देवदत्तो धनञ्जयः ।
एतेषां यः प्रसादस्तु मरुतामिति संस्मृतः ॥ ६२ ॥
प्रयाणं कुरुते तस्माद्वायुः प्राण इति स्मृतः ।
अपानयत्यपानस्तु आहारादीन् क्रमेण च ॥ ६३ ॥
व्यानो व्यानामयत्यङ्गं व्याध्यादीनां प्रकोपकः ।
उद्वेजयति मर्माणि उदानोऽयं प्रकीर्तितः ॥ ६४ ॥
समं नयति गात्राणि समानः पञ्च वायवः ।
उद्गारे नाग आख्यातः कूर्म उन्मीलने तु सः ॥ ६५ ॥
कृकलः क्षुतकायैव देवदत्तो विजृम्भणे ।
धनञ्जयो महाघोषः सर्वगः स मृतेऽपि हि ॥ ६६ ॥
इति यो दशवायूनां प्राणायामेन सिध्यति ।
प्रसादोऽस्य तुरीया तु संज्ञा विप्राश्चतुष्टये ॥ ६७ ॥
विस्वरस्तु महान् प्रज्ञो मनो ब्रह्मा चितिः स्मृतिः ।
ख्यातिः संवित्ततः पश्चादीश्वरो मतिरेव च ॥ ६८ ॥
बुद्धेरेताः द्विजाः संज्ञा महतः परिकीर्तिताः ।
अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिध्यति ॥ ६९ ॥
विस्वरो विस्वरीभावो द्वंद्वानां मुनिसत्तमाः ।
अग्रजः सर्वतत्त्वानां महान् यः परिमाणतः ॥ ७० ॥
यत् प्रमाणगुहा प्रज्ञा मनस्तु मनुते यतः ।
बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मा ब्रह्मविदां वराः ॥ ७१ ॥
सर्वकर्माणि भोगार्थं यच्चिनोति चितिः स्मृता ।
स्मरते यत्स्मृतिः सर्वं संविद्वै विन्दते यतः ॥ ७२ ॥
ख्यायते यत्त्विति ख्यातिर्ज्ञानादिभिरनेकशः ।
सर्वतत्त्वाधिपः सर्वं विजानाति यदीश्वरः ॥ ७३ ॥
मनुते मन्यते यस्मान् मतिर्मतिमतां वराः ।
अर्थं बोधयते यच्च बुध्यते बुद्धिरुच्यते ॥ ७४ ॥
अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिध्यति ।
दोषान् विनिर्दहेत्सर्वान् प्राणायामादसौ यमी ॥ ७५ ॥
पातकं धारणाभिस्तु प्रत्याहारेण निर्दहेत् ।
विषयान् विषवद्ध्यात्वा ध्यानेनानीश्वरान् गुणान् ॥ ७६ ॥
समाधिना यतिश्रेष्ठाः प्रज्ञावृद्धिं विवर्धयेत् ।
स्थानं लब्ध्वैव कुर्वीत योगाष्टाङ्गानि वै क्रमात् ॥ ७७ ॥
लब्ध्वासनानि विधिवद्योगसिद्ध्यर्थमात्मवित् ।
आदेशकाले योगस्य दर्शनं हि न विद्यते ॥ ७८ ॥
अग्न्यभ्यासे जले वापि शुष्कपर्णचये तथा ।
जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे ॥ ७९ ॥
सशब्दे सभये वापि चैत्यवल्मीकसञ्चये ।
अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते ॥ ८० ॥
नाचरेद्देहबाधायां दौर्मनस्यादिसम्भवे ।
सुगुप्ते तु शुभे रम्ये गुहायां पर्वतस्य तु ॥ ८१ ॥
भवक्षेत्रे सुगुप्ते वा भवारामे वनेऽपि वा ।
गृहे तु सुशुभे देशे विजने जन्तुवर्जिते ॥ ८२ ॥
अत्यन्तनिर्मले सम्यक् सुप्रलिप्ते विचित्रिते ।
दर्पणोदरसङ्काशे कृष्णागरुसुधूपिते ॥ ८३ ॥
नानापुष्पसमाकीर्णे वितानोपरि शोभिते ।
फलपल्लवमूलाढ्ये कुशपुष्पसमन्विते ॥ ८४ ॥
समासनस्थो योगाङ्गान्यभ्यसेद्धृषितः स्वयम् ।
प्रणिपत्य गुरुं पश्चाद्भवं देवीं विनायकम् ॥ ८५ ॥
योगीश्वरान् सशिष्यांश्च योगं युञ्जीत योगवित् ।
आसनं स्वस्तिकं बद्ध्वा पद्ममर्धासनं तु वा ॥ ८६ ॥
समजानुस्तथा धीमानेकजानुरथापि वा ।
समं दृढासनो भूत्वा संहृत्य चरणावुभौ ॥ ८७ ॥
संवृतास्योपबद्धाक्ष उरो विष्टभ्य चाग्रतः ।
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ ८८ ॥
किंचिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत् ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ८९ ॥
तमः प्रच्छाद्य रजसा रजः सत्त्वेन छादयेत् ।
ततः सत्त्वस्थितो भूत्वा शिवध्यानं समभ्यसेत् ॥ ९० ॥
ॐकारवाच्यं परमं शुद्धं दीपशिखाकृतिम् ।
ध्यायेद्वै पुण्डरीकस्य कर्णिकायां समाहितः ॥ ९१ ॥
नाभेरधस्ताद्वा विद्वान् ध्यात्वा कमलमुत्तमम् ।
त्र्यङ्गुले चाष्टकोणं वा पञ्चकोणमथापि वा ॥ ९२ ॥
त्रिकोणं च तथाग्नेयं सौम्यं सौरं स्वशक्तिभिः ।
सौरं सौम्य तथाग्नेयमथ वानुक्रमेण तु ॥ ९३ ॥
आग्नेयं च ततः सौरं सौम्यमेवं विधानतः ।
अग्नेरधः प्रकल्प्यैवं धर्मादीनां चतुष्टयम् ॥ ९४ ॥
गुणत्रयं क्रमेणैव मण्डलोपरि भावयेत् ।
सत्त्वस्थं चिन्तयेद्रुद्रं स्वशक्त्या परिमण्डितम् ॥ ९५ ॥
नाभौ वाथ गले वापि भ्रूमध्ये वा यथाविधि ।
ललाटफलिकायां वा मूर्ध्नि ध्यानं समाचरेत् ॥ ९६ ॥
द्विदले षोडशारे वा द्वादशारे क्रमेण तु ।
दशारे वा षडस्रे वा चतुरस्रे स्मरेच्छिवम् ॥ ९७ ॥
कनकाभे तथाङ्गार सन्निभे सुसितेऽपि वा ।
द्वादशादित्यसङ्काशे चन्द्रबिम्बसमेऽपि वा ॥ ९८ ॥
विद्युत्कोटिनिभे स्थाने चिन्तयेत्परमेश्वरम् ।
अग्निवर्णेऽथवा विद्युद्वलयाभे समाहितः ॥ ९९ ॥
वज्रकोटिप्रभे स्थाने पद्मरागनिभेऽपि वा ।
नीललोहितबिम्बे वा योगी ध्यानं समभ्यसेत् ॥ १०० ॥
महेश्वरं हृदि ध्यायेन्नाभिपद्मे सदाशिवम् ।
चन्द्रचूडं ललाटे तु भ्रूमध्ये शङ्करं स्वयम् ॥ १०१ ॥
दिव्ये च शाश्वतस्थाने शिवध्यानं समभ्यसेत् ।
निर्मलं निष्कलं ब्रह्म सुशान्तं ज्ञानरूपिणम् ॥ १०२ ॥
अलक्षणमनिर्देश्यमणोरल्पतरं शुभम् ।
निरालम्बमतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ १०३ ॥
कैवल्यं चैव निर्वाणं निःश्रेयसमनुत्तमम् ।
अमृतं चाक्षरं ब्रह्म ह्यपुनर्भवमद्भुतम् ॥ १०४ ॥
महानन्दं परानन्दं योगानन्दमनामयम् ।
हेयोपादेयरहितं सूक्ष्मात्सूक्ष्मतरं शिवम् ॥ १०५ ॥
स्वयंवेद्यमवेद्यं तच्छिवं ज्ञानमयं परम् ।
अतीन्द्रियमनाभासं परं तत्त्वं परात्परम् ॥ १०६ ॥
सर्वोपाधिविनिर्मुक्तं ध्यानगम्यं विचारतः ।
अद्वयं तमसश्चैव परस्तात्संस्थितं परम् ॥ १०७ ॥
मनस्येवं महादेवं हृत्पद्मे वापि चिन्तयेत् ।
नाभौ सदाशिवं चापि सर्वदेवात्मकं विभुम् ॥ १०८ ॥
देहमध्ये शिवं देवं शुद्धज्ञानमयं विभुम् ।
कन्यसेनैव मार्गेण चोद्घातेनापि शङ्करम् ॥ १०९ ॥
क्रमशः कन्यसेनैव मध्यमेनापि सुव्रतः ।
उत्तमेनापि वै विद्वान् कुम्भकेन समभ्यसेत् ॥ ११० ॥
द्वात्रिंशद्रेचयेद्धीमान् हृदि नाभौ समाहितः ।
रेचकं पूरकं त्यक्त्वा कुम्भकं च द्विजोत्तमाः ॥ १११ ॥
साक्षात्समरसेनैव देहमध्ये स्मरेच्छिवम् ।
एकीभावं समेत्यैवं तत्र यद्रससम्भवम् ॥ ११२ ॥
आनन्दं ब्रह्मणो विद्वान् साक्षात् समरसे स्थितः ।
धारणा द्वादशायामा ध्यानं द्वादश धारणम् ॥ ११३ ॥
ध्यानं द्वादशकं यावत् समाधिरभिधीयते ।
अथवा ज्ञानिनां विप्राः सम्पर्कादेव जायते ॥ ११४ ॥
प्रयत्नाद्वा तयोस्तुल्यं चिराद्वा ह्यचिराद्द्विजाः ।
योगान्तरायास्तस्याथ जायन्ते युञ्जतः पुनः ॥ ११५ ॥
नश्यन्त्यभ्यासतस्तेऽपि प्रणिधानेन वै गुरोः ॥ ११६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागेऽष्टाङ्गयोगनिरूपणं नामाष्टमोऽध्यायः ॥ ८ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-08

कोई टिप्पणी नहीं:

123