श्रीगणेशपुराणे उपासनाखण्डे पञ्चपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे पञ्चपञ्चाशत्तमोऽध्यायः
शिवपार्वती संयोग

॥ हिमवानुवाच ॥

समाप्ते तु व्रते तस्या गणेशस्य प्रसादतः ।
पाताले नागकन्यानामन्यथाऽभून्मतिस्तदा ॥ १ ॥
मोचयामास राजानं पुपूजश्च यथाविधि ।
वस्त्रैराभरणैश्चैव नानारत्नमहाधनैः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे चतुःपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे चतुःपञ्चाशत्तमोऽध्यायः
इन्दुमती नारद संवादं

॥ पार्वत्युवाच ॥

तस्यां तु मूर्च्छितायां तु किमकुर्वन् जनास्तदा ।
तन्मे विस्तरतो ब्रूहि हृदयानन्दनं पितः ॥ १ ॥
॥ हिमवानुवाच ॥
तदा सर्वे नागरिका नानावाक्यविशारदाः ।
प्रमृज्य स्वानि चाश्रूणि समादध्युर्नृपस्त्रियम् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे त्रिपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे त्रिपञ्चाशत्तमोऽध्यायः
चन्द्राङ्गदोपाख्याने

॥ हिमवानुवाच ॥

इदानीं कथयिष्यामि राज्ञा चन्द्राङ्गदेन च ।
तत्त्पत्न्या च कृतं ह्येतदिन्दुमत्या शुभानने ॥ १ ॥
मालवे विषये ख्यातं नगरं कर्णनामकम् ।
तत्र चन्द्राङ्गदो राजा बभूवातिपराक्रमी ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे द्विपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे द्विपञ्चाशत्तमोऽध्यायः
नलव्रत निरुपणं

॥ पार्वत्युवाच ॥
नलेनेदं कृतं कस्मात् को नलो वद मे पितः ।
मनोविश्रान्तिमायाति शृण्वन्त्या मे कथानकम् ॥ १ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे एकपञ्चाशत्तमोऽध्यायः
हिमवत् पार्वती संवाद

॥ पार्वत्युवाच ॥

तव वाक्यामृतेनाऽहं पितः प्रीताऽस्मि साम्प्रतम् ।
परन्तु संशयो मेऽस्ति तं नुदस्व हिमालय ॥ १ ॥
केन केन कृतं पूर्वं व्रतमेतन् महीधरः ।
आख्यातं केन वा कस्मै कः कां सिद्धिमितोऽगमत् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकोनपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे एकोनपञ्चाशत्तमोऽध्यायः
गणेश पार्थिवपूजा निरूपणं

॥ पार्वत्युवाच ॥

दयानिधे गिरीन्द्र त्वं पितर्मे वद सत्वरम् ।
उपासनां गणेशस्य सर्वेशस्य जगद्गुरोः ॥ १ ॥
यया शिवं समभ्येत्य शिवं प्राप्स्यामि शाश्वतम् ।
मर्त्यलोकेऽपि लोकानामुपकारो भविष्यति ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे पञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे पञ्चाशत्तमोऽध्यायः
हिमवद्गिरिजा संवादे चतुर्थीव्रत कथनं

॥ पार्वत्युवाच ॥

अहं मन्त्रे न जानामि गिरीन्द्र मे वद स्वयम् ।
अनुग्रहं गणेशस्य यामि यामि शिवं शिवम् ॥ १ ॥
॥ हिमावानुवाच ॥
मन्त्रा नानाविधा देवि नानासिद्धि प्रदायकाः ।
असङ्ख्याता गणेशस्य कांश्चित् तेषु वदामि ते ॥ २ ॥

123