श्रीगणेशपुराणे उपासनाखण्डे चतुःपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे चतुःपञ्चाशत्तमोऽध्यायः
इन्दुमती नारद संवादं

॥ पार्वत्युवाच ॥

तस्यां तु मूर्च्छितायां तु किमकुर्वन् जनास्तदा ।
तन्मे विस्तरतो ब्रूहि हृदयानन्दनं पितः ॥ १ ॥
॥ हिमवानुवाच ॥
तदा सर्वे नागरिका नानावाक्यविशारदाः ।
प्रमृज्य स्वानि चाश्रूणि समादध्युर्नृपस्त्रियम् ॥ २ ॥


॥ जनाऊचुः ॥
मातरुत्तिष्ठ मा शोकं कुरु पुत्रेमनः कृथाः ।
प्रेतं दहति शोकाश्रु तस्माद्भर्तृहितं कुरु ॥ ३ ॥
मर्त्येषु न हि दृष्टोऽस्ति चिरञ्जीवी शुभानने ।
यथा जीर्णं परित्यज्य वासोऽन्यद्गृह्यते जनैः ॥ ४ ॥
वर्ष्मापि देहिना तद्वत् त्यक्त्वाऽन्यद् गृह्यते शुभम् ।
अत्याश्चर्यमिदं भद्रे स्वयं मृत्युमुखे स्थितः ॥ ५ ॥
शोचते मृतमपरं स्वयं मरण धर्मवान् ।
स्वदेहेन वियोगं च न वेत्ति भाविनं जनः ॥ ६ ॥
मदीयं मन्यते सर्वं दैवकालवशं स्थितम् ।
ब्रह्मादिस्थावरान्तं यद् विश्वं साब्धिचराचरम् ॥ ७ ॥
ज्ञात्वा तं नश्वरं शोकं त्यक्त्वोत्तिष्ठ सुपुत्रिणि ।
धर्मवान् पुण्यशीलस्ते भर्ता मुक्तिं गतो भवेत् ॥ ८ ॥
जीवन् यदि भवेत् स्वर्गे तदा यास्यति कर्हिचित् ।
अतिपुण्यान्मानवोऽपि याति स्वर्गं गतः पुनः ॥ ९ ॥
अथवा परिपृच्छामो मुनिं कञ्चिदिहागतम् ।
अतीतानागतविदं कथयिष्यति सोऽखिलम् ॥ १० ॥
अनन्तरं हि यत्कार्यं तत्सर्वं विदधामहे ।
॥ हिमवानुवाच ॥
एवं प्रबोधिता लोकैः क्षणमिन्दुमती तदा ॥ ११ ॥
आश्वस्ता सर्ववाक्येन प्रमृज्याश्रूणि वाससा ।
विसर्जयामास तदा लोकान् सर्वान् समागतान् ॥ १२ ॥
त्यक्त्वा सौभाग्यचिन्हानि प्रपेदे कृशतां भृशम् ।
रुदती शोचती तस्थौ श्वसती मूर्च्छिता मुहुः ॥ १३ ॥
ततो द्वादशवर्षान्ते नारदो दिव्यदर्शनः ।
आजगाम गृहं तस्या यदृच्छाविचरन्मुनिः ॥ १४ ॥
दृष्ट्वा तं विललापाशु वदन्ती भर्तृचेष्टितम् ।
दुःख चाकथयत्तस्मै जातं द्वादशवार्षिकम् ॥ १५ ॥
निशम्य रुदितं तस्या हर्षयन् मुनिरब्रवीत् ।
॥ नारद उवाच ॥
क्वापि तिष्ठति ते भर्त्ता न तं शोचितुमर्हसि ॥ १६ ॥
शिरश्छादय नीलेन वाससा कर्णभूषणे ।
कर्णयोः कुरु भाले त्वं बिभ्रती कुङ्कुमं शुभम् ॥ १७ ॥
वलयानि च करयोः कण्ठे मङ्गलसूत्रकम् ।
॥ हिमवानुवाच ॥
सर्वज्ञस्य मुनेर्वाक्याद्विश्वस्ता सत्यवादिनः ॥ १८ ॥
तत्कालं सर्वमानाय्य हर्षिता सा तथाऽकरोत् ।
आकार्य ब्राह्मणान् सर्वान् सम्पूज्य नारदं पुरा ॥ १९ ॥
सम्पूज्य सकलांस्तांस्तु ददौ दानान्यनेकशः ।
वादयामास वाद्यानि शर्करां च गृहे गृहे ॥ २० ॥
प्रेषयामास च तदा हर्षादिन्दुमती शुभा ।
वस्त्रताम्बूल दानेन ददावाज्ञां जनस्य सा ॥ २१ ॥
प्रणिपत्य पुनर्देव मुनिं नारदमादरात् ।
स्वभर्तृप्राप्तयेऽपृच्छदुपायं राजकन्यका ॥ २२ ॥
॥ इन्दुमत्युवाच ॥
कुत्र तिष्ठति मे भर्ता कथं तिष्ठति वा मुने ।
केनोपायेन वेदज्ञ दर्शनं तस्य मे भवेत् ॥ २३ ॥
अनुग्रहं कुरु मुने तमुपायं वदस्व मे ।
व्रतं दानं तपो वापि दुःसाध्यमपि यद्भवेत् ॥ २४ ॥
॥ नारद उवाच ॥
व्रतं तु परमं तेऽहं कथयामि समासतः ।
नभः शुक्लचतुर्थ्यां तदारभेत् परया मुदा ॥ २५ ॥
नद्यां तडागे वाप्यां वा दन्तधावनपूर्वकम् ।
स्नानं प्रभातसमये कुरु सङ्कल्प पूर्वकम् ॥ २६ ॥
शुक्लवासा गृहं गत्वा मृन्मयीं मूर्तिमुत्तमाम् ।
कुर्याच्चतुर्भुजां सम्यग्गणेशस्य मनोरमाम् ॥ २७ ॥
उपचारैः षोडशभिः पूजयेत् स्थिरचेतसा ।
एकान्नमेकभुक्तं वा स्वयं कुर्यात्पप्रयत्नतः ॥ २८ ॥
उपोषणं वा कुर्वीत यावद् भाद्रचतुर्थिका ।
गीतवादित्र नृत्याद्यैर्ब्राह्मणानां च भोजनैः ॥ २९ ॥
महोत्सवं प्रकुरर्वीत विभवे सति शोभने ।
एवं व्रतं कुरु शुभे भर्त्रा सह समेष्यसि ॥ ३० ॥
पाताले नागकन्याभिः रुद्धेन जीविता शुभे ।
सत्यं ब्रवीमि ते सत्ये नान्यथा मम भाषितम् ॥ ३१ ॥
॥ हिमवानुवाच ॥
इत्युक्ता तेन मुनिना व्रतं प्रारम्भदादरात् ।
गते मुनौ नभोमासि दिनैः कतिभिरागते ॥ ३२ ॥
द्विरदाननमूर्तिं सा चकार पार्थिवीं शुभाम् ।
पूर्वोक्तविधिना पूजां चकार सुमनोहराम् ॥ ३३ ॥
दिव्यगन्धैर्दिव्यवस्त्रैर्दिव्यैश्च कुसुमैरपि ।
दिव्यैर्नानाविधैश्चैव नैवेद्यैः फलकाञ्चनैः ॥ ३४ ॥
दीपैः पुष्पाञ्जलीभिश्च प्रक्रमैर्नतिभिःस्तवैः ।
तन्नामस्मरणैर्ध्यानैस्तोषयामास तं विभुम् ॥ ३६ ॥
गीतवादित्रनृत्याद्यैर्ब्राह्मणानां च भोजनैः ।
पलमात्रं पयो भुक्त्वा चकार व्रतमुत्तमम् ॥ ३६ ॥
नभः शुक्लचतुर्थ्यादि चिरनष्टप्रियाप्तये
नारदस्य मुनेर्वाक्याद् यावद्भाद्रचतुर्थिका ॥ ३७ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे इन्दुमतीनारदसंवादो चतुपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-54

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...