श्रीगणेशपुराणे उपासनाखण्डे एकोनपञ्चाशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकोनपञ्चाशत्तमोऽध्यायः
गणेश पार्थिवपूजा निरूपणं

॥ पार्वत्युवाच ॥

दयानिधे गिरीन्द्र त्वं पितर्मे वद सत्वरम् ।
उपासनां गणेशस्य सर्वेशस्य जगद्गुरोः ॥ १ ॥
यया शिवं समभ्येत्य शिवं प्राप्स्यामि शाश्वतम् ।
मर्त्यलोकेऽपि लोकानामुपकारो भविष्यति ॥ २ ॥


॥ हिमवानुवाच ॥
तवस्नेहवशाद् देवि रहस्यं परमं शुभम् ।
लोकानां चोपकाराय वक्ष्ये शृण्वेकचेतसा ॥ ३ ॥
प्रत्यूषकाल उत्थाय नैर्ऋतीं दिशमाव्रजेत् ।
आच्छाद्य धरणीं पूर्वं तृणकाष्ठदलैरपि ॥ ४ ॥
उर्वरां वर्जयेत्तिष्ठन्नुत्सर्पन्न्न च बुद्धिमान् ।
त्यक्त्वा मूत्रपुरीषे तु यथोक्तं शौचमाचरेत् ॥ ५ ॥
दन्तजिह्वाविशुद्धिञ्च कृत्वा स्नातुं ततो व्रजेत् ।
नदीं तडागं वापीं वा सरः कूपमथापि वा ॥ ६ ॥
कृत्वा पूर्वं मलस्नानं मन्त्रस्नानं ततश्चरेत् ।
मृदा वा चन्दनेनापि तिलकं कुङ्कुमेन वा ॥ ७ ॥
कुर्याद्धौते वाससी वा परिधाय शुभानने ।
उपविश्यैकचित्तस्तु सर्वं नित्यं समाप्य च ॥ ८ ॥
मृत्तिकां सुन्दरां स्निग्धां क्षुद्रपाषाणवर्जिताम् ।
सुविशुद्धामवल्मीकां जलसिक्तां विमर्दयेत् ॥ ९ ॥
कृत्वा चारुतरां मूर्तिं गणेशस्य शुभां स्वयम् ।
सर्वावयवसम्पूर्णां चतुर्भुजविराजिताम् ॥ १० ॥
परश्वादिस्वायुधानि दधतीं सुन्दरां घनाम् ।
स्थाप्य पीठे ततः पाणी प्रक्षाल्य मेलयेत् सुधीः ॥ ११ ॥
पूजाद्रव्याणि सर्वाणि जलादीनि प्रयत्नतः ।
अष्टगन्धानक्षतांश्च रक्तपुष्पाणि गुग्गुलम् ॥ १२ ॥
त्रिपञ्चसप्तभिः पत्रैर्युतान् दुर्वाङ्कुरान् शुभान् ।
अष्टोत्तरशतं नीलान् श्वेतानानीय सुन्दरान् ॥ १३ ॥
घृतदीपं तैलदीपं नैवेद्यं विविधं शुभम् ।
मोदकापूपलड्डूकान् पायसं शर्करायुतम् ॥ १४ ॥
सूक्ष्मं च तन्दुलान्नं च व्यञ्जनानि बहुनि च ।
सचन्द्रपूगचूर्णाढ्यं खाद्यखादिरसंयुतम् ॥ १५ ॥
एलालवङ्गसम्मिश्रं ताम्बूलं केसरान्वितम् ।
जम्ब्वाम्रपनसादीनि द्राक्षारम्भाफलानि च ॥ १६ ॥
तत्तदृतुभवानीशे नारिकेलानि चानयेत् ।
बहुप्रकारमार्तिक्यं काञ्चनी दक्षिणां तथा ॥ १७ ॥
एवं सम्भृतसम्भार एकान्तस्थलमास्थितः ।
चैलाजिने कुशमये आसने च कृतासनः ॥ १८ ॥
भूतशुद्धिं प्रकुर्वीत प्राणानां स्थापनं तथा ।
दिग्बन्धपूर्वं देवांश्च गणेशादीन् नमेत् पुरा ॥ १९ ॥
अन्तर्बहिर्मातृकाश्च न्यसेदागममार्गतः ।
सन्निधानादिका मुद्रा दर्शयेद्गुरूमार्गतः ॥ २० ॥
मन्त्रन्यासं ततः कृत्वा षडङ्गन्यासमेव च ।
पूजाद्रव्याणि संशोध्य ततो ध्यायेद् गजाननम् ॥ २१ ॥
एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ।
पाशाङ्कुशधरं देवं मोदकान् बिभ्रतं करैः ॥ २२ ॥
रक्तपुष्पमयीं मालां कण्ठे हस्ते परां शुभाम् ।
भक्तानां वरदं सिद्धिबुद्धिभ्यां सेवितं सदा ॥ २३ ॥
सिद्धिबुद्धिप्रदं नॄणां धर्मार्थकाममोक्षदम् ।
ब्रह्मरुद्रहरीन्द्राद्यैः संस्तुतं परमर्षिभिः ॥ २४ ॥
आगच्छ जगदाधार सुरासुरवरार्चिता ।
अनाथनाथ सर्वज्ञ गीर्वाणपरिपूजित ॥ २५ ॥
स्वर्णसिंहासनं दिव्यं नानारत्नसमन्वितम् ।
समर्पितं मयादेव तत्र त्वं समुपाविश ॥ २६ ॥
देवदेवेश सर्वेश सर्वतीर्थाहृतं जलम् ।
पाद्यं गृहाण गणप गन्धपुष्पाक्षतैर्युतम् ॥ २७ ॥
प्रवालमुक्ताफलपुगरत्न ताम्बूलजाम्बूनदमष्टगन्धम् ।
पुष्पाक्षतायुक्तममोघशक्ते दत्तं मयार्घ्यं सफलीकुरुष्व ॥ २८ ॥
गङ्गादिसर्वतीर्थेभ्यः प्रार्थितं तोयमुत्तमम् ।
कर्पूरैलालवङ्गादिवासितं स्वीकुरु प्रभो ॥ २९ ॥
चम्पकाशोकबकुलमालतीमोगरादिभिः ।
वासितं स्निग्धताहेतु तैलं चारु प्रगृहयताम् ॥ ३० ॥
कामधेनु समुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुस्ते पयः स्नानार्थमर्पितम् ॥ ३१ ॥
धेनुदुग्धसमुद्भूतं शुद्धं सर्वजनः प्रियम् ।
मयाऽऽनीतं दधिवरं स्नानार्थं प्रतिगृह्यताम् ॥ ३२ ॥
नवनीतसमुत्पन्नं सर्वसन्तोषकारणम् ।
यज्ञाङ्गं देवताहारो घृतं स्नातुं समर्पितम् ॥ ३३ ॥
पुष्पसारघसम्भूतं सर्वतेजोविवर्धनम् ।
सर्वपुष्टिकरं देव मधुस्नानार्थमर्पितम् ॥ ३४ ॥
इक्षुसारसमुद्भूतां शर्करां सुमनोहराम् ।
मलापहारिणी स्नातुं गृहाण त्वं मयाऽर्पिताम् ॥ ३५ ॥
सर्वमाधुर्यसद्हेतुः स्वादुः सर्व प्रियङ्करः ।
पुष्टिकृत् स्नातुमानीत इक्षुसारभवो गुडः ॥ ३६ ॥
कांस्ये कांस्येन पिहितो दधि मध्वाज्यपूरितः ।
मधुपर्को मयाऽऽनीतः पूजार्थं प्रतिगृह्यताम् ॥ ३७ ॥
सर्वतीर्थाहृतं तोयं मया प्रार्थनया विभो ।
सुवासितं गृहाणेदं सम्यक् स्नातुं सुरेश्वर ॥ ३८ ॥
रक्तवस्त्रयुगं देव लोकलज्जानिवारणम् ।
अनर्घ्यमतिसूक्ष्मं च गृहाणेदं मयार्पितम् ॥ ३९ ॥
राजतं ब्रह्मसूत्रं च काञ्चनं रत्नसंयुतम् ।
भक्त्योपपादितं देव गृहाण परमेश्वर ॥ ४० ॥
अनेकरत्नयुक्तानि भूषणानि बहूनि च ।
तत्तदङ्गे काञ्चनानि योजयामि तवाज्ञया ॥ ४१ ॥
अष्टगन्धसमायुक्तं रक्तचन्दनमुत्तमम् ।
द्वादशाङ्गेषु ते देव लेपयामि कृपां कुरू ॥ ४२ ॥
रक्तचन्दनसम्मिश्रास्तण्डुलास्तिलकोपरि ।
शोभायै सम्प्रदास्यामि गृहाण जगदीश्वर ॥ ४३ ॥
पाटलं कर्णिकारं च बन्धूकं रक्तपङ्कजम् ।
मोगरं मालतीपुष्पं गृह्यतां परमेश्वर ॥ ४४ ॥
नानापङ्कजपुष्पैश्च ग्रथितां पल्लवैरपि ।
बिल्वपत्रयुतां मालां गृहाण सुमनोहरम् ॥ ४५ ॥
दशाङ्गं गुग्गुलं धूपं सर्वसौगन्ध्यकारकम् ।
सर्वपापक्षयकरं त्वं गृहाण मयाऽर्पितम् ॥ ४६ ॥
सर्वज्ञ सर्वलोकेषु तमोनाशनमुत्तमम् ।
गृहाण मङ्गलं दीपं देवदेव नमोऽस्तु ते ॥ ४७ ॥
नानापक्वान्नसंयुक्तं पायसं शर्करान्वितम् ।
नानाव्यञ्जन शोभाढ्यं शाल्योदनमनुत्तमम् ॥ ४८ ॥
दधिदुग्धघृतैर्युक्तं लवङ्गैलासमन्वितम् ।
मरीचिचूर्णसहितं क्वथिकावटकान्वितम् ॥ ४९ ॥
राजिकाधान्यसंयुक्तं मेथीपिष्टं सतक्रकम् ।
हिङ्गुजीरककूष्माण्डमरीचिमाषपिष्टकैः ॥ ५० ॥
सम्पादितैः सुपक्वैश्च भर्जितैर्वटकैर्युतम् ।
मोदकापूपलड्डूकशष्कुलीमण्डकादिभिः ॥ ५१ ॥
पर्पटैरपि संयुक्तं नैवेद्यममृतान्वित् ।
हरिद्राहिङ्गुलवणसहितं सूपमुत्तमम् ॥ ५२ ॥
ससामुद्रं गृहाणेदं भोजनं कुरु सादरम् ।
सुतृप्तिकारकं तोयं सुगन्धं च पिबेच्छया ॥ ५३ ॥
त्वयि तृप्ते जगत्तृप्तं नित्यतृप्ते महात्मनि ।
उत्तरापोशनारर्थं ते दद्मि तोयं सुवासितम् ॥ ५४ ॥
मुखपाणिविशुद्ध्यर्थं पुनस्तोयं ददामि ते ।
दाडिमं मधुरं निम्बुजम्ब्वाम्रपनसादिकम् ॥ ५५ ॥
द्राक्षा रम्भाफलं पक्वकर्कन्धूखार्जुरं फलम् ।
नारिकेलं च नारङ्गमाञ्जिरं जम्बिरं तथा ॥ ५६ ॥
उर्वारुकं च देवेश फलान्येतानि गृह्यताम् ।
मुखपाणि विशुद्धयर्थं पुनस्तोयं ददामि ते ॥ ५७ ॥
गृहाण चन्दनं चारु कराङ्गोद्वर्तनं शुभम् ।
नानापरिमलद्रव्यैर्निर्मितं चूर्णमुत्तमम् ॥ ५८ ॥
सुगन्धिनामकं पुण्यगन्धि चारु प्रगृह्यताम् ।
चारुशालूरसम्भूतं वंशसारसमुद्भवम् ॥ ५९ ॥
सीमन्तभूषणं चूर्णं लाक्षारञ्जितमस्तु ते ।
सचन्द्रपूगचूर्णाढ्यं खाद्यखादिर संयुतम् ॥ ६० ॥
एलालवङ्गसम्मिश्रं ताम्बूलं केसरान्वितम् ।
न्यूनातिरिक्तपूजायाः सम्पूर्णफलहेतवे ॥ ६१ ॥
दक्षिणां काञ्चनीं देव स्थापयामि तवाग्रतः ।
सितपीतैस्तथारक्तैर्जलजैः कुसुमैः शुभैः ॥ ६२ ॥
ग्रथितां सुन्दरां मालां गृहाण परमेश्वर ।
हरिताः श्वेतवर्णा वा पञ्चत्रिपत्रसंयुताः ॥ ६३ ॥
दूर्वाङ्कुरा मया दत्ता एकविंशतिसम्मिताः ।
एकविंशति सङ्ख्याकाः कुर्वे देवप्रदक्षिणाः ॥ ६४ ॥
पदे पदे ते देवेश नश्यन्तु पातकानि मे ।
औदुम्बरे राजते वा कांस्ये काञ्चनसम्भवे ॥ ६५ ॥
पात्रे प्रकल्पितान् दीपान् गृहाण चक्षुरर्पकान् ।
पञ्चारार्ति पञ्चदीपैर्दीपितां परमेश्वर ॥ ६६ ॥
चारुचन्द्रनिभं दीपं गृहाण वीचिवारणम् ।
यथाऽस्य नेक्ष्यते भस्म तथा पापं विनाशय ॥ ६७ ॥
स्तोत्रैर्नानाविधैः सूक्तैः सहस्रनामभिस्ततः ।
उपविश्य स्तुवीतैनं कृत्वा स्थिरतरं मनः ॥ ६८ ॥
दीनाधीश दयानिधे सुरगणैः संसेव्यमान द्विज ।
ब्रह्मेशानमहेन्द्रशेषगिरिजागन्धर्वसिद्धैः स्तुत ॥ ६९ ॥
सर्वारिष्टनिवारणैकनिपुणः त्रैलोक्यानाथं प्रभो ।
भक्तिं मे सफलां कुरुष्व सकलां क्षान्त्वाऽपराधान्मम ॥ ७० ॥
इति मूर्ति समभ्यर्च्य दण्डवत्प्रणिपत्य च ।
जपेन्मन्त्रं ततो देवि सर्वसिद्धि प्रदायकम् ॥ ७१ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे गणेशपार्थिवपूजानिरूपणं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-49

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...