श्रीगणेशपुराणे उपासनाखण्डे
एकपञ्चाशत्तमोऽध्यायः
हिमवत् पार्वती संवाद
॥ पार्वत्युवाच ॥
तव वाक्यामृतेनाऽहं पितः प्रीताऽस्मि साम्प्रतम् ।
परन्तु संशयो मेऽस्ति तं नुदस्व हिमालय ॥ १ ॥
केन केन कृतं पूर्वं व्रतमेतन् महीधरः ।
आख्यातं केन वा कस्मै कः कां सिद्धिमितोऽगमत् ॥ २ ॥
एतत्सविस्तरं ब्रूहि संशयच्छेदनाय मे ।
यश्च पृच्छति यो वक्ति गजाननकथा शुभाः ॥ ३ ॥
शृणोत्यन्योऽपि यो मर्त्यस्त्रयस्ते पुण्यभागिनः ।
जीवितं सफलं तेषां जन्म ज्ञानं च कर्म च ॥ ४ ॥
॥ ब्रह्मोवाच ॥
एवं तया कृत प्रश्नो हिमवानभ्यभाषत ।
वरदस्य गणेशस्य नानाजनकृतं व्रतम् ॥ ५ ॥
॥ हिमावानुवाच ॥
शृणु पार्वति वक्ष्यामि संवादं ते पुरातनम् ।
सेतिहासं व्रतस्यास्य सर्वसिद्धिकरस्य ह ॥ ६ ॥
कैलासे गिरिवर्ये तु सुखासीनं जगद्गुरुम ।
क्रीडमानं मुदा देवैर्गन्धर्वैः परमर्षिभिः ॥ ७ ॥
नत्वा स्तुत्वा महातेजाः परिपप्रच्छ षण्मुखः ।
॥ स्कन्द उवाच ॥
देवदेव जगन्नाथ भक्तानामभयङ्कर ॥ ८ ॥
नानाख्यानानि दिव्यानि श्रुतानि त्वत्प्रसादतः ।
तृप्तिं तात न गच्छामि पायं पायं सुधामिव ॥ ९ ॥
अधुना ब्रूहि मे देव व्रतं सर्वार्थसिद्धिदम् ।
अनुष्ठानेन यस्याथ करस्था सिद्धयो नृणाम् ॥ १० ॥
जायन्ते साधकानां तु वरदस्य प्रसादतः ।
॥ शिव उवाच ॥
साधु पृष्टं त्वया स्कन्द सर्वेषां हितकारकम् ॥ ११ ॥
कथयामि तव प्रीत्या महासिद्धिप्रदं भुवि ।
विनायकप्रियं तात व्रतानामुत्तमं व्रतम् ॥ १२ ॥
सर्वेषां पुरुषार्थानां साधकं कृत्तिकात्मज ।
विनायज्ञैस्तथा दानैर्जपहोमादिभिर्विना ॥ १३ ॥
सर्वसिद्धिकरं स्कन्द पुत्रपौत्रप्रवर्धनम् ।
राजानं राजपुत्रं वा तन्मन्त्रिणमथाऽपि वा ॥ १४ ॥
वशमानयति क्षिप्रं व्रतमेतन्मऽहत्तमम् ।
महापापोपपापैश्च बहुजन्मसु सञ्चितैः ॥ १५ ॥
व्रतस्यास्य प्रभावेण तैः पुमान् मुच्यते क्षणात् ।
भाजनं सर्वसिद्धीनां जायते मानवो भुवि ॥ १६ ॥
प्रीतिदं तु गणेशस्य नानेन सदृशं क्षितौ ।
॥ स्कन्द उवाच ॥
तात कस्मिन् भवेन्मासि व्रतमेतन्महोत्तमम् ॥ १७ ॥
विधानं कीदृशं चास्य केन वाऽऽचरितं पुरा ।
सर्वमेतन्ममाचक्ष्व यद्यस्ति करुणा मयि ॥ १८ ॥
॥ शिव उवाच ॥
नभः शुक्ल चतुर्थ्यान्तु स्नात्वा गुरुगृहं व्रजेत् ।
प्रणम्य तं गुरुं पश्चात्पूजयित्वा यथाविधि ॥ १९ ॥
पाद्याचमनवस्त्राद्यैर्भूषणश्च महत्तरैः ।
तोषयित्वा तु तं सम्यगाज्ञया प्रारभेद् व्रतम् ॥ २० ॥
सर्वसिद्धिकरं तात व्रतं गाणेश्वरं गुरो ।
त्वमेव श्रीगणेशोऽसि दिश कामप्रदं प्रभो ॥ २१ ॥
उपदिष्टे व्रते तेन सार्धं गङ्गातटं व्रजेत् ।
तडागं वा देवखातं तत्र स्नायाद् यथाविधि ॥ २२ ॥
श्वेतसर्षपयुक्तेन तिलकल्केन षण्मुख ।
स्नात्वा धात्रीयुतेनेह कृत्वा नित्यं गृहं व्रजेत् ॥ २३ ॥
उपविश्यासने शुद्धे पूजयित्वा गणाधिपम् ।
गुरुपदिष्टमार्गेण व्रतं पश्चात् समारभेत् ॥ २४ ॥
मृदा मूर्तिं गणेशस्य चतुर्थ्यां श्रावणस्य तु ।
प्रत्यहं पूजयेत्कृवा यावद्भाद्रचतुर्थिका ॥ २५ ॥
ब्रह्मचर्यव्रते स्थित्वा कर्तव्यं व्रतमुत्तमम् ।
उपवासैक भक्ताभ्यां नक्तेनायाचितेन वा ॥ २६ ॥
चतुर्थकाले भुञ्जीत हविष्यान्नं समाहितः ।
अक्षारं मधुरं भुञ्जन् भक्तिमानाचरेद्व्रतम् ॥ २७ ॥
जपन् गाणेश्वरीं विद्यां षडानन षडक्षरीम् ।
द्विचतुरक्षरां वापि तथैवैकाक्षरामपि ॥ २८ ॥
दशाक्षरामथ स्कन्द द्वादशार्णामथापि वा ।
नियुतं वाऽयुतं वापि प्रत्यहं जप इष्यते ॥ २९ ॥
तदर्धं वा तदर्धं वा दशांशं होममाचरेत् ।
ध्यायन् गजाननं देव महोरात्रमतन्द्रितः ॥ ३० ॥
प्राप्ते प्रोष्ठपदे मासि चतुर्थ्यां तु गजाननम् ।
सौवर्णपलमानेन तदर्धार्धेन वा पुनः ॥ ३१ ॥
मयूरवाहनं कुर्यादथवाऽऽखुगतं शुभम् ।
कृत्वा मण्डपिकां तत्र धान्यराशिं प्रकल्पयेत् ॥ ३२ ॥
सौवर्णं राजतं ताम्रं कलशं स्थापयेत् ततः ।
तस्योपरि न्यसेत्पात्रं रुक्मराजतताम्रकम् ॥ ३३ ॥
वस्त्रयुग्मेन संवेष्ट्य सपात्रं कलशं ततः ।
पञ्चपल्लव संयुक्तं पञ्चरत्नसमन्वितम् ॥ ३४ ॥
पीठपूजां पुरा कृत्वा स्थापयेत्तत्र तं विभुम् ।
मूलमन्त्रैश्च वेदोक्तैः पूर्वोक्तैरपि षण्मुख ॥ ३५ ॥
ध्यात्वा गजाननं देवमावाह्य परया मुदा ।
आसनं च तथा पाद्यं दद्यादाचमनीयकम् ॥ ३६ ॥
अर्घ्यं रत्नयुतं स्कन्द स्नानं पञ्चामृतैः शुभम् ।
सुवासिताभिरद्भिश्च स्नापयेत् परमेश्वरम् ॥ ३७ ॥
रक्तवस्त्रयुगं दद्यादुपवीतं तथोत्तमम् ।
नानाविधैराभरणैर्भूषयेत् परमेश्वरम् ॥ ३८ ॥
गन्धाक्षतैर्धूपदीपैर्नैवेद्येर्विविधैरपि ।
वटकापूपलड्डूकशाल्यन्नपायसादिभिः ॥ ३९ ॥
पञ्चामृतैर्व्यञ्जनैश्च भोजयेत् परमेश्वरम् ।
उद्वर्तनं करे दद्यात् फलं ताम्बूलमेव च ॥ ४० ॥
काञ्चनीं दक्षिणां दद्याच्छत्रं व्यञ्जनचामरे ॥ ४१ ॥
नीराजनं मन्त्रपुष्पं दत्वा स्तोत्राण्युदीरयेत् ।
सहस्रनामभिः स्तुत्वा ब्राह्मणान् पूजयेत्ततः ॥ ४२ ॥
रात्रौ जागरणं कृत्वा गीतनृत्यादि मङ्गलैः ॥ ४३ ॥
प्रभाते विमले स्नात्वा नित्यं कृत्वा यथाविधि ।
पूजयेत्पूर्ववद्देवं ततो होमं समाचरेत् ॥ ४४ ॥
द्रव्यैर्नानाविधैर्हुत्वा कुर्यादाचार्यपूजनम् ।
गोभूतिलहिरण्याद्यं गुरवे तन्निवेदयेत् ॥ ४५ ॥
अन्येभ्यो ब्राह्मणेभ्यश्च प्रदद्याद् भूरि दक्षिणाम् ।
ब्राह्मणान् भोजयेत् पश्चाच्छतमष्टोत्तरं तथा ॥ ४६ ॥
अधिकान् यदि शक्तिश्चेदथवाऽप्येकविंशतिम् ।
दीनान्धकृपणेभ्यश्च दद्यादन्नं सपायसम् ॥ ४७ ॥
पुनश्च दक्षिणां दद्यात् प्रगृह्याशिषमुत्तमाम् ।
सुहृद्बन्धुयुतो मौनी स्वयं भुञ्जीत सादरम् ॥ ४८ ॥
॥ शिव उवाच ॥
एवं ते कथितं स्कन्द वरदस्य व्रतं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वकामफलप्रदम् ॥ ४९ ॥
पुरातनमितिहासास्मिन्नर्थे वदामि ते ॥ ५० ॥
महाधर्मपरो राजा पुराऽभूत् कर्दमाभिधः ।
पालयामास वसुधां सागरान्तां स्वतेजसा ॥ ५१ ॥
गुणैर्यस्य हृता देवा नित्यं यत्सदसि स्थिताः ॥ ५२ ॥
कदाचिद् दैवयोगेन भृगुस्तस्य गृहं ययौ ।
तत उत्थाय राजा स बहुमान पुरःसरम् ॥ ५३ ॥
उपविश्यासने श्रेष्ठे पूजितो गुरुवत् ततः ।
भुक्त्वा स्थितं मुनिवरं राजा वचनमब्रवीत् ॥ ५४ ॥
॥ राजोवाच ॥
भगवन् सर्वतत्त्वज्ञ किञ्चित् पृच्छामि तद् वद ।
पूर्वजन्मनि कश्चाहं किं मया सुकृतं कृतम् ॥ ५५ ॥
येनेदृशं मया राज्यं प्राप्तं निहतकण्टकम् ।
प्राप्तं नैव नृपैरन्यैर्न च प्राप्स्यन्ति चापरे ॥ ५६ ॥
देवानामपि पूज्योऽहं गन्धर्वोरगराक्षसाम् ।
कुबेरसम्पदा तुल्यां सम्पदं पश्य मे मुने ॥ ५७ ॥
त्रिलोक्यां रत्नभूतं यत् तदानीतं स्वतेजसा ।
यं यं पदार्थमिच्छामि तं तं पश्यामि वेश्मनि ॥ ५८ ॥
केनेत्थं कर्मणा प्राप्तं तद् वदस्व मम प्रभो ।
कामये तत्पुनः कर्तुं पुण्यं पुण्यवतां वर ॥ ५९ ॥
॥ भृगुरुचाव ॥
कथयामि नृपश्रेष्ठ प्रणिधानबलादहम् ।
त्वमासीः पूर्वजनुषि क्षत्रियो दुर्बलः शुचिः ॥ ६० ॥
कुटुम्बभरणार्थं त्वं नानाकर्माण्यथाकरोः ।
क्रियमाणं च तत्कर्म न चासीत् फलदं तव ॥ ६१ ॥
अत्यन्तनिष्ठुरैर्वाक्यैर्दारापत्यैश्च पीडितः ।
अपृष्ट्वा पुत्रदारांस्त्वं गतवान् गहनं वनम् ॥ ६२ ॥
विभ्रमन् दिक्षु सर्वासु दृष्टवानसि सौभरिम् ।
सिद्धासने समासीनं सेवितं मुनिपुङ्गवैः ॥ ६३ ॥
कथयन्त महाविद्यां शिष्येभ्यो दुःखनाशिनीम् ।
दृष्ट्वा तं सौभरिं दिव्यमन्यांश्चर्षिगणान्नृप ॥ ६४ ॥
दण्डवत् पतितोऽसि त्वं भुवि तैश्चाभिनन्दितः ।
उपविष्टः स्वासने च मुनिना तेन दर्शिते ॥ ६५ ॥
पृष्टवानसि तं दिव्यं लब्ध्वाऽवसरमादृतः ।
॥ क्षत्रिय उवाच ॥
स्वामिन् संसारदुःखेन बहुधा क्लेशितो मुने ॥ ६६ ॥
दारापत्यसुहृद्भिश्च वाग्बाणैर्भृशताडितः ।
न वैराग्यं मनो याति निष्ठुरेषु सुहृत्सु च ॥ ६७ ॥
शीतोष्णक्षुत्पिपासाभिः पीडितोऽपि भृशं मुने ।
उपायं वद मे किञ्चिद्दुःखसागरतारकम् ॥ ६८ ॥
॥ शिव उवाच ॥
इति श्रुत्वा वचस्तस्य सौभरिः कृपया युतः ।
उपायं चिन्तयामास नृपदुःखविनाशनम् ॥ ६९ ॥
ततस्तं क्षत्रियं प्राह सर्वपापविमोचनम् ।
॥ ऋषिरुवाच ॥
व्रतं यत्कथयिष्यामि कुरु निश्चितमानसः ॥ ७० ॥
यस्यानुष्ठानमात्रेण सर्वदुःखलयो भवेत् ।
ब्राह्मणैः क्षत्रियैर्वैश्यैस्तथा ब्रह्मर्षिभिः कृतम् ॥ ७१ ॥
मुक्तास्ते सर्वदुःखेभ्यः प्राप्ताः सिद्धिमनुत्ताम् ।
वरदस्य गणेशस्य धर्मार्थकाममोक्षदाम् ॥ ७२ ॥
॥ क्षत्रिय उवाच ॥
कोऽसौ गणेशः किं शीलः किं रुपः किस्वभाववान् ।
किं कर्मा कथमुत्पन्नस्तत्सर्वं कथयस्व मे ।
यदि मे श्रवणायालं यद्यनुग्राहयता मयि ॥ ७३ ॥
॥ ऋषिरुवाच ॥
यद्ब्रह्म नित्यं विरजं विशोकं ज्ञानस्वरूपं परमार्थभूतम् ।
अनादिमध्यान्तमनन्तपारं गणाधिपं तं प्रवदन्ति सन्तः ॥ ७४ ॥
यस्मादोङ्कारसम्भूतिर्यतो वेदा यतो जगत् ।
येन सर्वमिदं व्याप्तं तं विद्धि गणनायकम् ॥ ७५ ॥
जगत्सर्जनकामेन ब्रह्मणा यस्य तुष्टये ।
अब्दानां तु शतं पूर्णं तपस्तप्तं सुदुष्करम् ॥ ७६ ॥
ततो हृष्टमना वेधाः प्रसन्नं तमपूजयत् ।
नानाविधोपचारैश्च दिव्यरत्नैः फलैस्तथा ॥ ७७ ॥
सिद्धिबुद्धी उभे कन्ये मनसा कल्पिते ददौ ।
तुष्टो देवो ददौ तस्मै विद्यामेकाक्षरीं विभुः ॥ ७८ ॥
ततो लब्धावरो ब्रह्मा चकार सकलं जगत् ।
षडक्षरेण मन्त्रेण विष्णुना तोषितः पुरा ॥ ७९ ॥
कृत्वा मूर्तिं गणेशस्य पूर्वोक्तविधिना व्रतम् ।
अव्यङ्गं वर्षमेकं तु नियमान् कृतवान् हरिः ॥ ८० ॥
वरं लब्ध्वा गणेशात् तु पालयामास वै जगत् ।
एवं विधं विजानीहि गणेशं भुवि संस्तुतम् ॥ ८१ ॥
विश्वरुपमनादिं च सर्वकारणकारणम् ।
तमाराधय यत्नेन सर्वदुःखाद् वियुङ्क्ष्यसे ॥ ८२ ॥
॥ क्षत्रिय उवाच ॥
कस्मिन्काले प्रकर्तव्यमेतद् व्रतमनुत्तमम् ।
विधिना केन मे ब्रूहि साम्प्रतं मुनिसत्तम ।
करिष्ये वचनात् तेऽहं सर्वदुःख प्रशान्तये ॥ ८३ ॥
॥ मुनिरुवाच ॥
श्रावणेऽबहुले पक्षे चतुर्थ्यामारभेद् व्रतम् ।
कुर्वीत परया भक्त्या यावद् भाद्रचतुर्थिका ॥ ८४ ॥
उपचारैः षोडशभिः पार्थिवं गणनायकम् ।
प्रत्यहं पूजयेद् भक्त्या ब्राह्मणान् भोजयेत् ततः ॥ ८५ ॥
त्वमेतत् कुरु भूपाल सर्वान् कामानवाप्स्यसि ।
इति श्रुत्वा व्रतं तस्मात् कृतवानसि सुव्रत ॥ ८६ ॥
समाप्ते तु व्रते तत्र सौभर्याश्रममण्डले ।
तावत् तस्य गृहं दिव्यं गणेशस्य प्रसादतः ॥ ८७ ॥
दिव्यनारीनरयुतं दासीदाससमन्वितम् ।
वेदघोषसमायुक्तं जातं गोधनसङ्कुलम् ॥ ८८ ॥
दिव्यवस्त्रसमायुक्ता नानालङ्कारसंयुता ।
अपत्यैस्तादृशैर्युक्ता विस्मिताऽऽसीत् प्रतीक्षती ॥ ८९ ॥
आयास्यति कदा भर्तेत्येवं चिन्ता पराऽभवत् ।
तावत्त्वं मुनिमामन्त्र्य गतोऽसि निजमालयम् ॥ ९० ॥
दिव्यं तच्छरणं हित्वा स्वगृहं परिमार्गयन् ।
तावद् भार्याप्रेषितास्त्वां निन्युस्तद्भवनं नराः ॥ ९१ ॥
ततस्त्वयाऽपि विज्ञातः प्रभावो वरदस्य सः ।
तद् व्रतस्य प्रभावेण राज्यभागिहजन्मनि ॥ ९२ ॥
॥ शिव उवाच ॥
इति श्रुत्वा भृगोर्वाक्यं कर्दमो हर्षनिर्भरः ।
चकार सकलं राजा भृगुणा यत्समीरितम् ॥ ९३ ॥
व्रतस्यास्य प्रभावेण ज्ञानवैराग्यवान्नृपः ।
भुक्त्वा भोगान् यथाकामं स्थाप्य पुत्रान् निजे पदे ॥ ९४ ॥
गतो गाणेश्वरं धाम यतो नावर्तते पुनः ।
सर्वार्थमाधकं स्कन्द व्रतानां व्रतमुत्तमम् ॥ ९५ ॥
नैतादृशं व्रतं दानं श्रुतमन्यत्कदाचन ।
सर्वार्थसाधकं स्कन्द व्रतं कुरु यदीच्छसि ॥ ९६ ॥
देवदानवगन्धर्वैः ऋषिभिर्मनुजैः कृतम् ।
दमयन्त्या नलेनापि राज्ञा चन्द्राङ्गदेन च ।
सम्प्राताः सर्वकामांस्ते गता गाणेश्वरं पदम् ॥ ९७ ॥
॥ गिरिरुवाच ॥
इति ते कथितं सर्वं सेतिहासं व्रतं महत् ।
कुरु त्वं मनसा ध्यात्वा वरदं गणनायकम् ॥ ९८ ॥
व्रतमेतन्महाभागे शङ्करं प्राप्स्यसे ततः ।
स्नेहेन कथितं तेऽद्य प्रकाशं कुरु मा व्रतम् ॥ ९९ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे हिमवत्पार्वती संवादो
नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें