श्रीगणेशपुराणे उपासनाखण्डे
पञ्चपञ्चाशत्तमोऽध्यायः
शिवपार्वती संयोग
॥ हिमवानुवाच ॥
समाप्ते तु व्रते तस्या गणेशस्य प्रसादतः ।
पाताले नागकन्यानामन्यथाऽभून्मतिस्तदा ॥ १ ॥
मोचयामास राजानं पुपूजश्च यथाविधि ।
वस्त्रैराभरणैश्चैव नानारत्नमहाधनैः ॥ २ ॥
अश्वं मनोजवं दत्त्वा विससर्जुर्नृपं तदा ।
कासाराद्बहिरागत्य बध्वा चाश्वं महाद्रुमे ॥ ३ ॥
स्नाति यावन्नागरिकैः दृष्टः कतिपयैर्नृपः ।
अपरे प्रणिपत्यैनं पप्रच्छुः को भवानिति ॥ ४ ॥
कुत्रत्यः कुत आयातः किं नामा वद नः प्रभो ।
इति तेषां वचः श्रुत्वा पप्रच्छ नृपसत्तमः ॥ ५ ॥
इन्दुमत्याः कुमारस्य कुशलं खेदसंयुतः ॥ ६ ॥
ततो बुबुधिरे ते तमालिलिङ्गुर्मुदा जनाः ॥ ७ ॥
ऊचुश्च नृप ते भार्या स्नात्वेदानीं गता गृहम् ।
उपवासव्रतवती कृशा धमनिसंयुता ॥ ८ ॥
कुमारे जीवमास्थाय जीवमात्रावशेषिता ।
केचिच्च नगरं गत्वा शुभां वार्तामघोषयन् ॥ ९ ॥
अत्याप्तजनवाक्येन श्रुत्वा सा नृपमागतम् ।
आनन्दाब्धौ निमग्नाऽभूद् ब्रह्मज्ञानीव योगवित् ॥ १० ॥
ततोऽमात्यान्पुरस्कृत्य सैन्यान्यप्रेषयच्च तम् ।
चित्रध्वजपताकाभिरशोभयत सा पुरम् ॥ ११ ॥
वीथीरासिञ्चयामास सभाः सम्पाद्य यत्नतः ।
स्वात्मानं भूषयामास वासोऽलङ्कार भूषणैः ॥ १२ ॥
गोभूहिरण्यदानाद्यैस्तोषयित्वा द्विजान् बहून ।
आरार्तिक्यं करे दत्वा पतिवत्स्त्रीजनस्य सा ॥ १३ ॥
गीतवादित्रघोषेण पुरात्सर उपागमत् ।
अमात्यास्तु पुरो गत्वा प्रणम्य नृपपुङ्गवम् ॥ १४ ॥
आलिलिङ्गुर्मुदा सर्वे प्रणेमुश्च यथाक्रमम् ।
उपविष्टे तु नृपतावुपविष्टास्तदाज्ञया ॥ १५ ॥
सर्वान् कुशलप्रश्नाद्यैस्तोषयित्वा यथाक्रमम् ।
मानयित्वा तथा लोकान्दत्वा ताम्बूलवाससी ॥ १६ ॥
स्वयं जगाम शिबिरमिन्दुमत्या नृपोत्तमः ।
कारयामास स विधिं द्वादशाब्ददृशैर्द्विजैः ॥ १७ ॥
पुण्याहवाचनं कृत्वा गणेशार्चनपूर्वकम् ।
सम्पूज्य शङ्करं सम्यग्द्विजांश्च दक्षिणादिभिः ॥ १८ ॥
बभञ्ज श्रीफलं त्यक्त्वा ततस्तत्पुरतो ययौ ।
ददर्श तत्रेन्दुमतीमिन्दोः शेषां कलामिव ॥ १९ ॥
नीराजयित्वा राजानं युवतीभिः सभर्तृभिः ।
लाजपुष्पमयीं वृष्टिं ताभिःसाऽकारयत् तदा ॥ २० ॥
प्रमृज्य नयने सम्यगानन्दाश्रुपरिप्लुते ।
हर्षशोकान्वितौ तौ तु परस्परमथोचतुः ॥ २१ ॥
परस्पर वियोगाधिं कथयामासतुः शुचा ।
अनिवार्यप्रकृतिभिः सान्त्वितौ बहुलोक्तिभिः ॥ २२ ॥
आनयित्वा तु राजानं समारोह्य महागजे ।
नानालङ्कारसंयुक्ते पताकाच्छत्रसंयुते ॥ २३ ॥
पादचारैः परिवृते चतुर्घण्टाविराजिते ।
शतं यष्टिधरास्तस्य वारयन्तो ययुः पुरः ॥ २४ ॥
अग्निशस्त्रधराश्चाश्वरथारोहा अनेकशः ।
सव्यदक्षिणतो राज्ञो गजलक्षं ययुर्लघु ॥ २५ ॥
नटा नृत्याङ्गना वाद्यवादका वन्दिनः पुरः ।
ततः पश्चाद्गजानीकाः पुरं विविशुरादरात् ॥ २६ ॥
सैन्येन रजसा व्याप्ते दिननाथे हतप्रभे ।
अलङ्कृते पुरे तस्मिन्न प्राज्ञायत किञ्चन ॥ २७ ॥
ततः परस्परं नत्वा जग्मुः स्वं स्वं निवेशनम् ।
मुख्या राजगृहं नीताः पुना राज्ञा प्रपूजिताः ॥ २८ ॥
वस्त्रताम्बूलदानेन तेनाज्ञाता गृहं ययुः ।
राजाऽथ ब्राह्मणान्भोज्य बुभुजे ज्ञातिभिः सह ॥ २९ ॥
ततो रात्रौ सुषुपतुः पर्यङ्के चारुनिर्मिते ।
परार्ध्यास्तरणोपेते परिच्छदुपधान्विते ॥ ३० ॥
ऊचतुः स्व स्व दुःखं तौ शोचन्तौ च पुनः पुनः ।
पुरोधसा सान्त्वितौ तौ शयाते स्म सुखं ततः ॥ ३१ ॥
श्रुत्वा विनायकव्रतमहिमानं नृपोत्तमः ।
पत्न्त्याऽनुभूतं सकलं स्वयं कर्तुं मनो दधे ॥ ३२ ॥
आगते श्रावणे मासि राजा चन्द्राङ्गदस्तदा ।
महोत्सवेन कृतवान् व्रतमेतच्छुभानने ॥ ३३ ॥
॥ ऋषिरुवाच ॥
एवं पितृवचः श्रुत्वा पार्वती भृशहर्षितः ।
नभोमासं समासाद्य चकार व्रतमादरात् ॥ ३४ ॥
यथोक्तविधिना मूर्तिं कृत्वा पूजां च यत्नतः ।
भक्षयन्ती पयोमात्रं ध्यायन्ती द्विरदाननम् ॥ ३५ ॥
ततश्चञ्चलतां यातं शङ्करस्यापि मानसम् ।
आससादाश्रमं तस्याः पार्वत्याः शूलभृत् स्वयम् ॥ ३६ ॥
गणेशस्य चतुर्थ्यां तु सम्पूर्णं तद्व्रते शुभे ।
पश्यति स्म हरं देवी वृषारुढं निजाश्रमे ॥ ३७ ॥
उत्थाय प्रणनामास्य पादाम्बुज युगं मुदा ।
पूजयामास विधिवच्छङ्करं लोकशङ्करम् ।
उवाच च महादेवं पार्वती प्रेमविह्वला ॥ ३८ ॥
॥ देव्युवाच ॥
कथं मां त्यज्य गतवान् किं मां विस्मृतवानसि ।
त्वद्वियोगान्निमेषोऽपि कल्पकल्पोऽभवद्विभो ॥ ३९ ॥
गणेशस्य व्रतमिदं पित्राऽऽदिष्टं कृतं मया ॥ ४० ॥
वरदस्य प्रसादेन सम्प्राप्तं दर्शनं तव ।
॥ ब्रह्मोवाच ॥
एतस्मिन्नेव काले तु हिमवानुपजग्मिवान् ।
सत्याः करं करे तस्य न्यवेदयत सादरम् ॥ ४१ ॥
ततो देवाः सगन्धर्वा द्विरदाननमादरात् ।
पूजयामासुरथ तौ शिवौ शिवकरौ सताम् ॥ ४२ ॥
देव दुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
सर्वे गजाननं नत्वा स्तुत्वा च विविधैः स्तवैः ॥ ४३ ॥
जयशब्दैः शङ्करोऽपि तुष्टाव द्विरदाननम् ॥ ४४ ॥
अर्धाङ्गे पार्वतीं कृत्वा वृषमारुह्य सत्वरः ।
ययौं कैलास शिखरं सर्वे स्वं स्वं पदं ययुः ॥ ४५ ॥
॥ ब्रह्मोवाच ॥
इति ते कथितं सर्व व्यास पृष्टं त्वया तु यत् ।
महात्म्यं गणनाथस्य व्रतस्य च महामुने ॥ ४६ ॥
इदानीं पुनरत्यञ्च कथयामि कथानकम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तः कामाँल्लभेन्नरः ॥ ४७ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे शिवपार्वतीसंयोगोनाम
पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें