श्रीगणेशपुराणे उपासनाखण्डे
पञ्चाशत्तमोऽध्यायः
हिमवद्गिरिजा संवादे चतुर्थीव्रत कथनं
॥ पार्वत्युवाच ॥
अहं मन्त्रे न जानामि गिरीन्द्र मे वद स्वयम् ।
अनुग्रहं गणेशस्य यामि यामि शिवं शिवम् ॥ १ ॥
॥ हिमावानुवाच ॥
मन्त्रा नानाविधा देवि नानासिद्धि प्रदायकाः ।
असङ्ख्याता गणेशस्य कांश्चित् तेषु वदामि ते ॥ २ ॥
कृत्वा पद्मासनं सम्यक् नियम्य खानि सर्वशः ।
कृत न्यासविधिः पश्चाज्जपं कुर्यानिजेच्छया ॥ ३ ॥
एकाक्षरस्य मन्त्रस्य लक्षं लक्षार्धमेव च ।
षडक्षरस्य मन्त्रस्य नियुतं चायुतं तथा ॥ ४ ॥
तथा पञ्चाक्षरस्यापि दशाष्टाक्षरयोरपि ।
अष्टाविंशद्वर्णमन्त्रो जप्तव्योऽयुतसङ्ख्यया ॥ ५ ॥
एवं नानाविधान्मन्त्रान् जपन्ति स्वेष्टसिद्धये ।
त्वं तु पार्वति मे वाक्यं शृणुष्वैकाग्रमानसा ॥ ६ ॥
एकाक्षरं षडर्णञ्च गृहाण मन्त्रमुत्तमम् ।
नभः शुक्ल चतुर्थ्यां त्वमारम्भं कुरु सुव्रते ॥ ७ ॥
अनुष्ठानं मासमानं कुरु कार्यं भविष्यति ।
शिवं प्राप्स्यसि सुव्यक्तमन्यद्यच्चापि वाञ्छितम् ॥ ८ ॥
पार्थिवी पूजिता मूर्तिः स्त्रिया वा पुरुषेण वा ।
एका ददाति सा काम्यं धनपुत्रपशूनपि ॥ ९ ॥
असाध्यं साधयेन्मर्त्यो मूर्तिद्वयप्रपूजनात् ।
त्रिमूर्तिपूजनाद् राज्यं रत्नानि सर्वसम्पदः ॥ १० ॥
चतुमूर्तेः पूजयेद्यो धर्मार्थकाममोक्षभाक् ।
सार्वभौमो भवेद्राजा पञ्चमूर्तिप्रपूजनात् ॥ ११ ॥
षण्मूर्तिपूजया सृष्टिस्थितिप्रलयकृद् भवेत् ।
सप्ताष्टनवमूर्तिनां पूजया सर्वविद् भवेत् ॥ १२ ॥
भूतं भव्यं भविष्यं च वेत्ति देवप्रसादतः ।
त्रयस्त्रिंशत्कोटिदेवा वह्नीन्द्रशिवविष्णवः ॥ १३ ॥
सनकाद्या मुनिगणाः सेवन्ते दशपूजनात् ।
एकादशार्चनादेव दशरुद्राधिपो भवेत् ॥ १४ ॥
द्वादशादित्य राज्यं च लभेच्च द्वादशार्चनात् ।
अतिसङ्कटवेलासु कुर्याद् वृद्ध्या प्रपूजनम् ॥ १५ ॥
अष्टोत्तरशतं यावत् तावत् तत्तदवाप्नुयात् ।
महामुक्तिमवाप्नोति लक्षपूजनतोऽन्वहम् ॥ १६ ॥
कारागृहान्मुक्तिकामः कारयेन्मूर्तिपञ्चकम् ।
त्रिःसप्तरात्रान्मुच्येत गणेशानुग्रहान्मुने ॥ १७ ॥
सप्तमूर्तिः प्रकुरर्वीत प्रत्यहं पञ्चवत्सरम् ।
महापापात् प्रमुच्येत गणेशे भक्तिमान्नरः ॥ १८ ॥
आजन्ममरणादेकां पूजयेत् पार्थिवीं नरः ।
गणेशः स तु विज्ञेयो दर्शनाद् विघ्ननाशनः ॥ १९ ॥
तमेव सर्वकामेषु पूजयेन्न गणाधिपम् ।
तस्यैव पूजया प्रीतो न देवः स्यात्तथा स्वयम् ॥ २० ॥
सर्वरोग प्रपीडासु मूर्तीनां त्रयमुत्तमम् ।
नवाहं पूजयेद्यस्तु सर्वपीडां व्यपोहति ॥ २१ ॥
सौवर्णी राजती ताम्रीरीतिकांस्य समुद्भवा ।
मौक्तिकी च प्रवाली च सर्वमेतत् प्रयच्छति ॥ २२ ॥
एवं कृते व्रते देवि सर्वान् कामानवाप्स्यसि ।
यावद् भाद्रपदे मासि चतुर्थी परिलभ्यते ॥ २३ ॥
तस्यां महोत्सवः कार्यो यथा विभवमादरात् ।
रात्रौ जागरणं कार्यं तत्कथावाद्यगायनैः ॥ २४ ॥
प्रभाते विमले स्नात्वा पूर्ववत् पूजयेद् विभुम् ।
गणेशं वरदं देवं ततो होमं समारभेत् ॥ २५ ॥
कुण्डे साङ्गे स्थण्डिले वा हूयाज्जपदशांशतः ।
पूर्णाहुतिं ततः कुर्याद् बलिदानपुरः सरम् ॥ २६ ॥
आचार्यं पूजयेत् पश्चात् गोभूवासोधनादिभिः ।
ब्राह्मणां स्तोषयेत् पश्चाद्धोमशेषं समापयेत् ॥ २७ ॥
तर्पयेत्तद्दशांशेन तद्दशांशेन भोजयेत् ।
ब्राह्मणान् वेदविदुषः सपत्नीकांश्च कांश्चन ॥ २८ ॥
तेभ्यो भूषणवासांसि दद्याच्छक्त्या च दक्षिणाम् ।
दद्यात् स्त्रीणामलङ्कारान् योषिद्भ्यश्च सकञ्चुकान् ॥ २९ ॥
तुष्टये गणनाथस्य सिद्धिबुद्धियुतस्य ह ।
वित्तशाठयं न कुर्वीत यथाविभवमाचरेत् ॥ ३० ॥
ततः सुहृज्जनयुतः स्वयं भुञ्जीत सादरम् ।
अपरस्मिन्दिने मूर्तिं नृयाने स्थापयेन्मुदा ॥ ३१ ॥
छत्रध्वजपताकाभिश्चामरैरूपशोभिताम् ।
किशोरैर्दण्डयुद्धेन युध्यद्भिश्च पुरःसरम् ॥ ३२ ॥
महाजलाशयं गत्वा विसृज्य निनयेज्जले ।
वाद्यगीतध्वनियुतो निजमन्दिरमाव्रजेत् ॥ ३३ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे हिमवद्गिरिजासंवादे
चतुर्थीव्रतकथनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें