श्रीगणेशपुराणे उपासनाखण्डे पञ्चदशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे पञ्चदशोऽध्यायः

 गजानन पूजा निरूपणं
 ॥ भृगुरुवाच ॥
 व्यासायाकथयच्चाग्रे ब्रह्मा लोकपितामहः ।
 सोमकान्त प्रवक्ष्यामि तां कथां श‍ृणु सादरम् ॥ १ ॥
 ॥ ब्रह्मोवाच ॥
 ततोऽहं सुमहत्स्वप्नं ददर्श मुनिसत्तम ।
 भ्रमता भ्रमता व्योमजले दृष्टो वटो महान् ॥ २ ॥
 महावातातपाद्भिस्तु नष्टे स्थावरजङ्गमे ।
 अवशिष्टः कशमयमेकएव वटो महान् ॥ ३ ॥
 एवं संशयमापन्नस्तत्पत्रे बालकं लघुम् ।
 चतुर्बाहुं सुमुकुटं कुण्डलाभ्यां विराजितम् ॥ ४ ॥

श्रीगणेशपुराणे उपासनाखण्डे चतुर्दशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे चतुर्दशोऽध्यायः

 ब्रह्मचिन्तावर्णनं
 ॥ राजोवाच ॥
 ततः किमकरोद् ब्रह्मा वीक्ष्याण्डानि सहस्रशः ।
 कथञ्च सृष्टिमकरोदाज्ञां प्राप्य गजाननात् ॥ १ ॥
 ॥ भृगुरुवाच ॥
 अभवद् गर्वसम्पन्नः स्वात्मन्येवं विचारयत् ।
 वेद्मि शास्त्राणि वेदाँश्च पुराणान्यागमानपि ॥ २ ॥
 ज्ञानविज्ञानसम्पन्नः शापानुग्रहशक्तिमान् ।
 ब्रह्माण्डानि च दृष्टानि सृष्टीनां रचनास्तथा ॥ ३ ॥
 इदानीं सृष्टिकरणेऽशक्यं मे नैव किञ्चन ।
 इत्येवं सर्वसम्पन्ने सृष्टयर्थं कमलोद्भवे ॥ ४ ॥

श्रीगणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्यायः

 ब्रह्मस्तुतिवर्णनं
 ॥ व्यास उवाच ॥
 पञ्चास्यश्चतुरास्यश्च सहस्रमस्तकोऽपि च ।
 गजास्यं वरदं देवं कथमेते प्रतुष्ठुवुः ॥ १ ॥
 ॥ ब्रह्मोवाच ॥
 प्रसादोन्मुखविघ्नेशकृपापाङ्गनिरीक्षणात् ।
 प्राप्तबुद्धिप्रसादास्ते केशास्तं नुनुवुस्तदा ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे द्वादशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे द्वादशोऽध्यायः

 गजाननदर्शनं
 ॥ सूत उवाच ॥
 इति श्रुत्वा तु वचनं निर्गतं ब्रह्मणो मुखात् ।
 हर्षेण महता युक्तो मुनिः पप्रच्छ तं पुनः ॥ १ ॥
 ॥ व्यास उवाच ॥
 अवधानं मया प्राप्तं पीत्वा वागमृतं तव ।
 इदानीं श्रोतुमिच्छामि मन्त्रराजमिमं पितः ॥ २ ॥
 को जजाप कथं सिद्धिमवाप च गजाननात् ।
 एतं मे संशयं छिन्धि त्वत्तोऽन्यो नास्ति मे गुरूः ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकादशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकादशोऽध्यायः

मन्त्रकथनं
॥ भृगुरूवाच ॥
जगादभूयश्चतुराननस्तमेवं कृतप्रश्नविवक्षयाऽथ ।
क्रमेण सर्वं कथयामि तेऽहं गणेशमन्त्रान् बहुधा विचार्य ॥ १ ॥
॥ ब्रह्मोवाच ॥
अनन्ता हि मुने मन्त्रा गणेशस्य महात्मनः ।
उपासनं वदिष्यामि शीघ्रं सिद्धिकरस्य ते ॥ २ ॥
सप्तकोटिमहामन्त्रा गणेशस्यागमे स्थिताः ।
तद्रहस्यं शिवो वेद किञ्चित् किञ्चिदहं मुने ॥ ३ ॥
षडक्षरैकाक्षरयोः श्रेष्ठत्वं तेषु विद्यते ।
ययोः स्मरणमात्रेण सर्वसिद्धिः करे भवेत् ॥ ४ ॥
जीवनमुक्ता भवन्त्येव यदुपासनया मुने ।
त एव धन्यास्ते पूज्यास्ते नमस्याः सुरैरपि ॥ ५ ॥

श्रीगणेशपुराणे उपासनाखण्डे दशमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे दशमोऽध्यायः

व्यास प्रश्न वर्णनं
॥ भृगुरूवाच ॥
नारायणांशसम्भूतः पाराशर्यो महामुनिः ।
अतीतानागतज्ञानी वेदशास्त्रार्थतत्त्ववित् ॥ १ ॥
कृत्वा वेदं चतुर्भागं तदर्थज्ञानसिद्धये ।
स विद्यामदगर्वेण पुराणं कर्तुमारभत् ॥ २ ॥
समाप्तिसाधनं नैव कृतवान्मङ्गलं पुरा ।
गणेशस्य नतिं वापि स्तुतिं वा तस्य वा क्वचित् ॥ ३ ॥
ततो विघ्नाभिभूतः सन्नर्थं कञ्चन नास्मरत् ।
भ्रान्तिरेवाभवत्तस्य लौकिकेऽलौकिके पथि ॥ ४ ॥
नित्ये नैमित्तिके काम्ये श्रौते स्मार्ते च कर्मणि ।
व्याख्यातुर्वेदशास्त्राणां सर्वज्ञस्य सतोऽपि हि ॥ ५ ॥

श्रीगणेशपुराणे उपासनाखण्डे नवमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे नवमोऽध्यायः

राजोपदेशज्ञानोपदेशकथनं
॥ सूत उवाच ॥
ततो भृगुः क्षणं ध्यात्वां पुनस्तं प्राह भूपतिम् ।
अत्यन्त विह्वलो दुःखं वीक्ष्य तत्पूर्वकर्मजम् ॥ १ ॥
॥ भृगुरूवाच ॥
क्व पापनिकरास्ते तु क्वोपायाः कथिता मया ।
तथाऽप्येकं ब्रवीमि त्वामुपायमघनाशनम् ॥ २ ॥
गणेशस्य पुराणं त्वं श्रोष्यसे यदि सत्वरम् ।
तदैव मोक्ष्यसे दुःखसागरान् नात्र संशयः ॥ ३ ॥
इत्युक्त्वां तं गणेशस्य नामाष्टशतमुत्तम् ।
जप्त्वा जलं मन्त्रयित्वा सिषेच नृपतिं तदा ॥ ४ ॥
सिक्तमात्रे जले तेन तन्नासारन्ध्रतो लघुः ।
कृष्णास्यः प्राप तद्भूमौ ववृधे तत्क्षणादसौ ॥ ५ ॥

123