श्रीगणेशपुराणे उपासनाखण्डे पञ्चदशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे पञ्चदशोऽध्यायः

 गजानन पूजा निरूपणं
 ॥ भृगुरुवाच ॥
 व्यासायाकथयच्चाग्रे ब्रह्मा लोकपितामहः ।
 सोमकान्त प्रवक्ष्यामि तां कथां श‍ृणु सादरम् ॥ १ ॥
 ॥ ब्रह्मोवाच ॥
 ततोऽहं सुमहत्स्वप्नं ददर्श मुनिसत्तम ।
 भ्रमता भ्रमता व्योमजले दृष्टो वटो महान् ॥ २ ॥
 महावातातपाद्भिस्तु नष्टे स्थावरजङ्गमे ।
 अवशिष्टः कशमयमेकएव वटो महान् ॥ ३ ॥
 एवं संशयमापन्नस्तत्पत्रे बालकं लघुम् ।
 चतुर्बाहुं सुमुकुटं कुण्डलाभ्यां विराजितम् ॥ ४ ॥


 मणिमुक्तामयं दाम विभ्रत् कण्ठे सुशोभितम् ।
 अर्धचन्द्रं रक्तवस्त्रं कटिसूत्रं तथैव च ॥ ५ ॥
 एकदन्तं नरवपुर्गजास्यं तेजसा ज्वलत् ।
 दृष्ट्वैवं तर्कयामास बालकं कथमत्र वै ॥ ६ ॥
 पुष्करेण च बालोऽसौ जलं मन्मस्तकेऽक्षिपत् ।
 ततोऽहमाजहासोच्चैश्चिन्तानन्दसमन्वितः ॥ ७ ॥
 मय्याहसति बालः स उत्ततार वटात्ततः ।
 स ममाङ्कं समागत्य मञ्जुवाक्यं जगाद ह ॥ ८ ॥
 ॥ बाल उवाच ॥
 लघोर्लघुतरोऽसि त्वं वृथा वृद्धोऽपि मूढधीः ।
 विघ्नैरभिहतोऽसि त्वं सृष्टिचिन्तासमावृतः ॥ ९ ॥
 तपश्चिन्तापरो नित्यं विभ्रमञ्जलमध्यगः ।
 सर्वचिन्ता हरं तेऽमुमुपायं चतुरानन ॥ १० ॥
 उपादिशामि ते मन्त्रमेकाक्षरमिमं मम ।
 पुरश्चरणमार्गेण दशलक्षं जपस्व तम् ॥ ११ ॥
 ततः प्रत्यक्षतां यास्ये दास्ये सामर्थ्यमुत्तमम् ।
 ॥ ब्रह्मोवाच ॥
 दृष्ट्वैवं स्वप्नमाश्चर्यं प्रतिबुद्धोऽभवं ह्यहम् ॥ १२ ॥
 शुशोच च कदा मे स्याद्दर्शनं परमेशितुः ।
 दृष्टस्वप्नोऽभवं मग्न आनन्दमयसागरे ॥ १३ ॥
 ततः स्नात्वा परं मन्त्रं जजाप बहुवासरम् ।
 एकपादेन कमले तिष्ठन् ध्यायन् गजाननम् ॥ १४ ॥
 जितेन्द्रियो जिताहारः काष्ठपाषाणवत् स्थिरः ।
 दिव्यवर्षसहस्रं स तपस्तेपे परं महत् ॥ १५ ॥
 ततो मन्मुखतो ज्वालाः प्रादुरासन् दुरासदाः ।
 ताभिः सर्वाणि भूतानि पीडामापुः सुदारुणाम् ॥ १६ ॥
 ततो गजाननो दृष्ट्वा तां निष्ठां मम सुदृढाम् ।
 तुतोष परया भक्त्या प्रादुरासीत्ततः पुरः ॥ १७ ॥
 कोटिसूर्यसमानश्रीर्ज्वालामालीव हव्यभुक् ।
 दहन्निव त्रिलोकीं स संहरन्निव रोदसी ॥ १८ ॥
 परशुकमलधारी दिव्यमायाविभूषः सकलदुरितहारी सर्वसौन्दर्यकोशः ।
 करिवरमुखशोभी भक्तवाञ्छाप्रपोषः सुरमनुजमुनीनां सर्वविघ्नैकनाशः ॥ १९ ॥
 तेजोराशिमहं दृष्ट्वा कम्पे व्यास सन्मुने ।
 चिन्तामवाप परमां व्यग्रचित्तो जपाच्च्युतः ॥ २० ॥
 आच्छादितानीक्षणानि स्मृतिश्च विलयं गता ।
 दृष्ट्वेदृशीमवस्थां तां शीघ्रं प्राहाऽथ विघ्नराट् ॥ २१ ॥
 ॥ गणेश उवाच ॥
 न भयं कुरू लोकेश ! स एवाहं समागतः ।
 येन ते मन्त्र आदेशि स्वप्न एकाक्षरः शुभः ॥ २२ ॥
 तेन सिद्धिरनुप्राप्ता वरं दातुं समागतः ।
 सौम्यभावं प्रपन्नोऽस्मि वरं वरय सुव्रत ॥ २३ ॥
 दास्यामि ते प्रसन्नोऽहं यत् ते हृदि वर्तते ।
 मयि प्रसन्ने सर्वं तद् भविता नात्र संशयः ॥ २४ ॥
 ॥ मुनिरुवाच ॥
 इत्थं निशम्य गणनाथ वचो विशुद्धं ब्रह्मा जहर्ष परमं प्रसमीक्षमाणः ।
 नत्वा चराचरगुरूं सकलैः शिरोभिः प्राह प्रसन्नहृदयः सफलं जनुर्मे ॥ २५ ॥
 ॥ ब्रह्मोवाच ॥
 यो वेदानां सशास्त्राणां ज्ञानिनां योगिनामपि ।
 सर्वोपनिषदां चैव गोचरो न कदाचन ॥ २६ ॥
 स पुण्यनिचयैर्मैऽद्य यातः प्रत्यक्षतां विभुः ।
 अनादिनिधनोऽनन्तोऽप्रमेयो निर्गुणोऽपि च ॥ २७ ॥
 यदि प्रसन्नो देवेश विघ्नेश करूणाकर ।
 तव भक्तिं दृढां देहि यया दुःखं न नःस्पृशेत् ॥ २८ ॥
 इदानीं देहि सामर्थ्यं नाना निर्माणने मम ।
 विघ्नानि च शमं यान्तु यदि तुष्टोऽसि मे प्रभो ॥ २९ ॥
 स्मृतमात्रः सदा मे त्वं सर्वं कार्यं समापय ।
 अन्ते मुक्तिं स्थिरां देहि ज्ञानञ्च विमलं मम ॥ ३० ॥
 ॥ गजानन उवाच ॥
 एवमस्तु कुरुष्व त्वं सृष्टिं नानाविधां बहुम ।
 मां स्मृत्वा सर्वविघ्नानि नाशं यास्यन्ति सर्वतः ॥ ३१ ॥
 दृढा भक्तिः शुभं ज्ञानं मत्प्रसादाद्भविष्यति ।
 निःशङ्कं कुरू कार्याणि सर्वाणि चतुरानन ॥ ३२ ॥
 ॥ मुनिरूवाच ॥
 एवं लब्धवरो ब्रह्मा पूजयामास तं विभुम् ।
 यद् यच्चितेऽचिन्तयत् स तत् तदेवोपतिष्ठते ॥ ३३ ॥
 पूजार्थं देवदेवस्य गणेशस्य प्रसादतः ।
 दक्षिणावसरे द्वे तु कन्यके समुपस्थिते ॥ ३४ ॥
 चारुप्रसन्ननयनवदनैः सुविराजते ।
 अनेकरत्नखचितनानालङ्कारशोभिते ॥ ३५ ॥
 दिव्यगन्धयुते दिव्यवस्त्रमालाविभूषते ।
 ते तस्मै दक्षिणार्थं स कल्पयामास पद्मभूः ॥ ३६ ॥
 रम्भागर्भेण नीराज्य दिव्यं पुष्पाञ्जलिं ददौ ।
 सहस्रनामभिः स्तुत्वा प्रदक्षिणमथाकरोत् ॥ ३७ ॥
 नमस्य प्रार्थयामास दीनानां शङ्करो भव ।
 एवं सम्पूजितस्तेन ब्रह्मणा परमेष्ठिना ॥ ३८ ॥
 ततः प्रसन्नो भगवान् विघ्नहर्ता गजाननः ।
 सिद्धिबुद्धी गृहीत्वा ते ह्यन्तर्धानमगाद् विभुः ॥ ३९ ॥
 कस्ततः कारयामास सृष्टिं पूर्ववदायताम् ।
 आज्ञया परमेशस्य प्रसादाच्च प्रसन्नधीः ॥ ४० ॥
 ॥ इति श्रीगणेशपुराणे उपासनाखण्डे गजानन पूजा निरूपणनाम पञ्चदशोऽध्यायः ॥ १५ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-15

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...