श्रीगणेशपुराणे उपासनाखण्डे द्वादशोऽध्यायः
गजाननदर्शनं
॥ सूत उवाच ॥
इति श्रुत्वा तु वचनं निर्गतं ब्रह्मणो मुखात् ।
हर्षेण महता युक्तो मुनिः पप्रच्छ तं पुनः ॥ १ ॥
॥ व्यास उवाच ॥
अवधानं मया प्राप्तं पीत्वा वागमृतं तव ।
इदानीं श्रोतुमिच्छामि मन्त्रराजमिमं पितः ॥ २ ॥
को जजाप कथं सिद्धिमवाप च गजाननात् ।
एतं मे संशयं छिन्धि त्वत्तोऽन्यो नास्ति मे गुरूः ॥ ३ ॥
॥ भृगुरूवाच ॥
इत्येवं मुनिना पृष्टो जगाद वदतां वरः ।
कृपयावनतं ब्रह्मा तं व्यासं राजसत्तम ॥ ४ ॥
॥ ब्रह्मोवाच ॥
साधु साधु त्वया पृष्टो पुण्यवानसि साम्प्रतम् ।
न ह्यपुण्यवतां ब्रह्मन् कथायाः श्रवणे रतिः ॥ ५ ॥
उपासनामार्गमिमं सम्यक् त्वां बोधयाम्यहम् ।
स्निग्धे प्रज्ञाधिके शिष्ये यतो गोप्यं न किञ्चन ॥ ६ ॥
ॐकाररूपी भगवानुक्तसे गणनायकः ।
यथा सर्वेषु कार्येषु पूज्यतेऽसौ विनायकः ॥ ७ ॥
निर्विघ्नकामनावद्भिर्नो चेद्विघ्नं करोति सः ।
तथोङ्कार बीजयुक्ता ॐकार पल्लवान्विताः ॥ ८ ॥
मन्त्राः सर्वागमे प्रोक्ता अन्ये ये निष्फलाश्च ते ।
सदसद् व्यक्तमव्यक्तं सर्वं हि गणनायकः ॥ ९ ॥
एवं सर्वे देवसिद्धमुनिराक्षसकिन्नराः ।
गन्धर्वाश्चारणा नागा यक्षगुह्यकमानवाः ॥ १० ॥
उपासका गणेशस्य सर्वे लोकाश्चराचराः ।
अत एव गणेशाद्धि परं किञ्चिन्न विद्यते ।
इदानीं कथयिष्यामि कथामेकां पुरातनीम् ॥ ११ ॥
मन्त्रराजजपेनायं यथा तुष्टो गजाननः ।
कदाचिद्दैवयोगेन प्रलये समुपस्थिते ॥ १२ ॥
वायुभिः पर्वता भिन्नाः पतिताः परितो दिशम् ।
तपन्ति द्वादशादित्याः शोषयित्वा जलं महत् ॥ १३ ॥
ज्वालामाली महावह्निरखिलं ज्वलयत्यपि ।
संवर्त्तका महामेघा वर्षन्ति परितो जलम् ॥ १४ ॥
हस्तिहस्तोपमाभिस्तु धाराभिर्द्विजसत्तम ।
उल्लङ्घयन्ति मर्यादां सागराः सरितोऽपि च ॥ १५ ॥
एवं सर्वे विनश्यन्ति ह्याब्रह्मस्थावरादयः ।
एवं मायामये नष्टे विकारेऽसौ गजाननः ॥ १६ ॥
अणुभ्योऽणुतरं रूपं कृत्वा क्वापि व्यवस्थितः ।
ततः काले बहुतरे गतेऽन्धतमसावृते ॥ १७ ॥
एकाक्षरं पुनर्ब्रह्म नादयुक्तमजायत ।
वैकारिकं पुनारूपं यदा नादमयं स्थितम् ॥ १८ ॥
मायाविकारमासाद्य तदेवाभूद् गजाननः ।
तत एव च सम्भूता गुणाः सत्त्वं रजस्तमः ॥ १९ ॥
ततस्त्रयः समुत्पन्ना विष्णुर्ब्रह्मा हरोऽपि च ।
मामया रचितं सर्वं त्रैलोक्यं सचराचरम् ॥ २० ॥
ततस्तन्मायया भ्रान्ता बभ्रुमुस्ते सुरास्त्रयः ।
तमेव जनकं स्वस्य द्रष्टुं प्रष्टुं समुत्सुकाः ॥ २१ ॥
किमस्याभिः कर्म कार्यमिति जिज्ञासया मुने ।
एकविंशतिस्वर्गाणि पूर्वमूर्ध्वं विलोक्यते ॥ २२ ॥
अन्तरिक्षं तया तिर्यक् पश्चात् पातालमाययुः ।
अदृष्ट्वा परमात्मानं तपश्चेरूस्ततो भृशम् ॥ २३ ॥
निराहारा जपपरा दिव्यवर्षसहस्रकम् ।
श्रान्ताः खेदमनुप्राप्तास्ततस्ते पृथिवीं पुनः ॥ २४ ॥
विचिन्वन्तो ययुर्द्रष्टं वनान्युपवनानि च ।
सरितः सागरान् शैलान् शिखराणि गुहाश्च ताः ॥ २५ ॥
ततो जलाशयं ते तु महान्तं ददृशुः सुराः ।
नानाजलचरैर्वृक्षैः पक्षिभिर्विविधैर्युतम् ॥ २६ ॥
बलाकाभिश्चक्रवाकैर्हंसैः कारण्डकैरपि ।
नादितं नलिनीजालं बिसखण्डाशने रतैः ॥ २७ ॥
स्नात्वा विश्रम्य तत्तीरे समुत्तीर्य पुरो ययुः ।
नानावीचिसमायुक्तं महान्तं तं जलाशयम् ॥ २८ ॥
सुदुस्तरतरं पुंसां झषनक्रसमाकुलम् ।
ईक्षां चक्रुः सुदुर्दर्शं प्रलयानलसन्निभम् ॥ २९ ॥
कोटिसूर्यप्रतीकाशं तेजोराशिं पुरो मुने ।
चिन्तामापुः परान्ते तु तेजसा हृतदृष्टयः ॥ ३० ॥
ततो गगनमार्गेण तेजोमध्याद् विनिर्गताः ।
क्षुधातृषापरिश्रान्ता निश्वसन्तो मुहुर्मुहुः ॥ ३१ ॥
निन्दन्तश्च शपन्तश्च स्वात्मानं जातसाध्वसाः ।
ततोऽति करूणाविष्टो लोकाध्यक्षोऽखिलार्थवित् ॥ ३२ ॥
दर्शयामास तान् रूपं मनोनयननन्दनम् ।
पादाङ्गुलीनखश्रीर्भिजितरक्ताब्जकेसरम् ॥ ३३ ॥
रक्ताम्बरप्रभावात्तु जितसन्ध्यार्कमण्डलम् ।
कटिसूत्रप्रभाजालैर्जितहेमाद्रिशेखरम् ॥ ३४ ॥
खङ्गखेटधनुःशक्तिशोभि चारूचतुर्भुजम् ।
सुवासं पूर्णिमाचन्द्रजितकान्ति मुखाम्बुजम् ॥ ३५ ॥
अहर्निशं प्रभायुक्तं पद्मचारुसुलोचनम् ।
अनेकसूर्यशोभाजिन्मुकुटभ्राजिमस्तकम् ॥ ३६ ॥
नानाताराङ्कितव्योमकान्तिजिदुत्तरीयकम् ।
वराहदंष्ट्राशोभाजिदेकदन्तविराजितम् ॥ ३७ ॥
ऐरावतादि (दिक्पाल)दिङ्नागभयकारि सुपुष्करम् ।
दृष्ट्वैव सहसा देवं प्रणेमुस्ते मुदा मुने ।
पादाम्बुजमुपस्पृश्य ततः स्तोतुं प्रचक्रमुः ॥ ३८ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे गजाननदर्शनन्नाम
द्वादशोऽध्यायः ॥ १२ ॥


कोई टिप्पणी नहीं:
एक टिप्पणी भेजें