श्रीगणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्यायः

 ब्रह्मस्तुतिवर्णनं
 ॥ व्यास उवाच ॥
 पञ्चास्यश्चतुरास्यश्च सहस्रमस्तकोऽपि च ।
 गजास्यं वरदं देवं कथमेते प्रतुष्ठुवुः ॥ १ ॥
 ॥ ब्रह्मोवाच ॥
 प्रसादोन्मुखविघ्नेशकृपापाङ्गनिरीक्षणात् ।
 प्राप्तबुद्धिप्रसादास्ते केशास्तं नुनुवुस्तदा ॥ २ ॥


 ॥ ब्रह्मविष्णुमहेश्वरा ऊचुः ॥
 अजनिर्विकल्पं निराकारमेकम् निरालम्ब (निरानन्द)मद्वैतमानन्दपूर्णम् ।
 परं निर्गुणं निर्विशेषं निरीहं परं ब्रह्मरूपं गणेशं भजेम् ॥ ३ ॥
 गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
 मुनिध्येयमाकाशरूपं परेशं परं ब्रह्मरूपं गणेशं भजेम ॥ ४ ॥
 जगत्कारणं कारणज्ञानहीनं (रूपं) सुरादिं सुखादिं युगादिं गणेशम् ।
 जगद्व्यापिनं विश्ववन्द्यं सुरेशं परं ब्रह्मरूपं गणेशं भजेम् ॥ ५ ॥
 रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाचिन्त्यरूपम् ।
 जगत्कारकं सर्वविद्यानिधानं सदा ब्रह्मरूपं गणेशं नताः स्मः ॥ ६ ॥
 सदासत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगन्पालयन्तम् ।
 अनेकावतारं निजाज्ञानहारं सदा विष्णु रूपं गणेशं नताः स्मः ॥ ७ ॥
 तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
 अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नताः स्मः ॥ ८ ॥
 तमस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् (पारम्) ।
 मुनिज्ञानकारं विदूरे विकारं सदा ब्रध्नरुपं (ब्रह्मरूपं) गणेशं नताः स्मः ॥ ९ ॥
 निजैरौषधीस्तर्पयन्तं करौघैः सुरौघान् कलाभिः सुधास्राविणीभिः ।
 दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नताः स्मः ॥ १० ॥
 प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् ।
 अनेकक्रियाऽनेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नताः स्मः ॥ ११ ॥
 प्रधानस्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपम् ।
 असत्सत्स्वरूपं जगद्धेतुभूतं सदा विश्वरूपं गणेशं नताः स्मः ॥ १२ ॥
 त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनोविघ्नसङ्घान्न पीडां लभेत ।
 लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वान्तबाधां (पीडां) कथं वा लभेत ॥ १३ ॥
 वयं भ्रामिताः सर्वथाऽज्ञानयोगाद्लब्ध्वा तवाङ्घ्रिं बहुन् वर्षपूगान् ।
 इदानीमवाप्तास्तवैव प्रसादात् प्रपन्नान् सदा पाहि विश्वम्भराद्य ॥ १४ ॥
 ॥ ब्रह्मोवाच ॥
 एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने ।
 कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १५ ॥
 ॥ श्रीमद्गणेश उवाच ॥
 यदर्थं क्लेशिता यूयं यदर्थमिह चागताः ।
 प्रीतोऽहमनया स्तुत्या वरं मत्तो वृणीत तम् ॥ १६ ॥
 कृतं च मम यत् स्तोत्र भवद्धिर्भावितात्मभिः ।
 स्तोत्रराजमितिख्यातं भविष्यति मदाज्ञया ॥ १७ ॥
 इदं यः पठेत् प्रातरुत्थाय धीमान् त्रिसन्ध्यं सदा भक्तिर्युक्तो विशुद्धः ।
 स पुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदन्तकाले ॥ १८ ॥
 ॥ ब्रह्मोवाच ॥
 इति तद्वचनं श्रुत्वा सन्तुष्टास्ते तमब्रुवन् ।
 तदीक्षया रजः सत्त्वतमोगुणसमुद्भवाः ॥ १९ ॥
 ॥ त्रय ऊचुः ॥
 यदि तुष्टोऽसि देवेश ! सृष्टिसंहारकारक ।
 तवाङ्घ्रिकमले नोऽस्तु भक्तिरव्यभिचारिणी ॥ २० ॥
 किं चास्माभिः प्रकर्तव्यमाज्ञापयतु नो भवान् ।
 अयमेव वरोऽस्माकं वाञ्छितो द्विरदानन ॥ २१ ॥
 इति श्रुत्वा वचस्तेषां पुनः प्राह गजाननः ।
 भविष्यति महाभागा मयिभक्तिर्दृढा हि वः ॥ २२ ॥
 सङ्कष्टानि यथा यूयं तरिष्यथ महान्त्यपि ।
 भवत्ख्यात्यै प्रवक्ष्यामि कार्याणिच पृथक् पृथक् ॥ २३ ॥
 सृष्टिकर्ता भव ब्रह्मन् रजोगुणसमुद्भवः ।
 पालनं कुरु विष्णो ! त्वं व्यापकः सत्त्वसंश्रयः ॥ २४ ॥
 हर संहर सर्वं त्वं तमोगुणसमुद्भवः ।
 ॥ ब्रह्मोवाच ॥
 वेदशास्त्रपुराणानि सृष्टिसामर्थ्यमेव च ॥ २५ ॥
 गणेशो दत्तवान् विद्यां ब्रह्मणे मह्यमादरात् । (पाठान्तर - ददौ गणशोन्यां विद्यां ब्रह्मणे मत्द्यमादरात् ।)
 विष्णवे भगवान् प्रादात् योगात् स्वच्छन्दरूपताम् ॥ २६ ॥
 एकाक्षरं षडर्णं च मन्त्रं सर्वागमाँस्तथा ।
 हराय भगवान् प्रादाच्छक्तिं संहरणेऽपि च ॥ २७ ॥
 ततश्चाहं दीनमनास्त्रैलोक्येशं जगद्गुरुम् ।
 उवाच प्राञ्जलीर्भूत्वा वरदं तमिभाननम् ॥ २८ ॥
 ॥ ब्रह्मोवाच ॥
 यथागृहीतशक्तिस्तु वाच्यावाच्यं वेवेक्तिन ।
 तथाऽनेकविधां सृष्टिमद्दष्ट्वा क्वापि किञ्चन ॥ २९ ॥
 कर्तुं वापि विभोराज्ञाविभेदं कथमुत्सहे ।
 इतः कूप इतो वापीत्येवं प्राप्तं मया कथम् ॥ ३० ॥
 ततो गजाननः प्राह दिव्यं चक्षुः प्रदाय तम् ।
 ब्रह्माणं वेदशास्त्रज्ञं तथा व्याकुलितं प्रभुः ॥ ३१ ॥
 ॥ गजानन उवाच ॥
 बहिरन्तः शरीरे मे सङ्ख्यातीतानि पद्मज ।
 ब्रह्माण्डानि त्वमद्यैव विभ्रमन्ति विलोकय ॥ ३२ ॥
 ॥ ब्रह्मोवाच ॥
 ततो गजाननेनाऽहं स्वोदरे श्वासवायुना ।
 नीतो ददर्श धाताऽपि ब्रह्माण्डानि त्वनेकशः ।
 औदुम्बराणीव तरौ तेषु वा मशकानिव ॥ ३३ ॥
 भेदयामास तत्रैकं परमेण स्वतेजसा ।
 तदन्तः सकलां सृष्टिं ददर्शाऽथ पुनः पुनः ॥ ३४ ॥
 ब्रह्माणं चापरं तत्र विष्णुमिन्द्रं प्रजापतिम् ।
 शङ्करं भास्करं वायुं वनानि सरितोऽम्बुपम् ॥ ३५ ॥
 सागरान् यक्षगन्धर्वानप्सरःकिन्नरोरगान् ।
 ऋषीन् पुण्यजनान् साध्यान् मनुष्यान् पर्वतान् द्रुमान् ॥ ३६ ॥
 उद्भिज्जान् जारजान् जन्तून स्वेदजानण्डजानपि ।
 पृथ्वीञ्च सप्तपातालान्यव्ययान्येकविंशतिम् ॥ ३७ ॥
 ददर्श विश्वं चाहं वै भावाभावं चराचरम् ॥ ३८ ॥
 यद् यच्चाहं भेदयामास चाण्डं तस्मिन्स्तस्मिन् सर्वमेवं ददर्श ।
 दृष्ट्वा भ्रान्तिं पूर्ववत् सम्प्रपेदे तेषामन्तं सर्वथा नाध्यगच्छम् ॥ ३९ ॥
 न स्थातुं नैव वा गन्तुं शशाक कमलासनः ।
 उपविश्य ततो ब्रह्मन् तुष्टाव द्विरदाननम् ॥ ४० ॥
 ॥ ब्रह्मोवाच ॥
 वन्दे देवं देवदेवं गणेशं ब्रह्माण्डानां नैव सङ्ख्या यदङ्गे ।
 अभ्रोडुनां सागरे वा झषाणां कः सङ्ख्याता शर्कराणां च तीरे ॥ ४१ ॥
 लज्जा न मे त्राऽस्ति सुरेन्द्रवन्द्य पादारविन्दं तव यद्विलोक्य ।
 भ्रान्तोऽभवं ज्ञाननिधौ प्रसन्ने मोक्षोऽपि तुच्छः किमुताऽन्यवार्ता ॥ ४२ ॥
 दृष्टं च नानार्थयुतं सुरेश ब्रह्माण्डकूटं जठरे त्वदीये ।
 स्थातुं बहिर्गन्तुमपीह नेशस्त्वदन्यदेवं शरणं न चैमि ॥ ४३ ॥
 ततः प्रसन्नो भगवाननन्तो वै गजाननः ।
 बहिर्निष्कासयामास तदा मां खिन्नमानसम् ॥ ४४ ॥
 नासिकारन्ध्रमार्गेण हरिं मदनुयायिनम् ।
 तामसं च हरं देवं विष्णुना सह सङ्गतम् ॥ ४५ ॥
 निःसारयामास विभुः श्रुतिरन्ध्राद् गजाननः ।
 शयाते स्म तदङ्गे तावुभौ हरिहरौ सुखम् ॥ ४६ ॥
 ॥ इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मस्तुतिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-13



कोई टिप्पणी नहीं:

123