श्रीगणेशपुराणे उपासनाखण्डे एकादशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकादशोऽध्यायः

मन्त्रकथनं
॥ भृगुरूवाच ॥
जगादभूयश्चतुराननस्तमेवं कृतप्रश्नविवक्षयाऽथ ।
क्रमेण सर्वं कथयामि तेऽहं गणेशमन्त्रान् बहुधा विचार्य ॥ १ ॥
॥ ब्रह्मोवाच ॥
अनन्ता हि मुने मन्त्रा गणेशस्य महात्मनः ।
उपासनं वदिष्यामि शीघ्रं सिद्धिकरस्य ते ॥ २ ॥
सप्तकोटिमहामन्त्रा गणेशस्यागमे स्थिताः ।
तद्रहस्यं शिवो वेद किञ्चित् किञ्चिदहं मुने ॥ ३ ॥
षडक्षरैकाक्षरयोः श्रेष्ठत्वं तेषु विद्यते ।
ययोः स्मरणमात्रेण सर्वसिद्धिः करे भवेत् ॥ ४ ॥
जीवनमुक्ता भवन्त्येव यदुपासनया मुने ।
त एव धन्यास्ते पूज्यास्ते नमस्याः सुरैरपि ॥ ५ ॥


यदुपासनया दास्यं येषां कुर्वन्ति सिद्धयः ।
इच्छाविहाराः सर्वज्ञा नानारूपा भवन्ति ते ॥ ६ ॥
ये कुर्वन्ति गणेशस्य भक्तिं भावसमन्विताः ।
न येषां भक्तिलेशोऽपि तेषां जन्म निरर्थकम् ॥ ७ ॥
नालोकयन्मुखं तेषां विमुखा ये गजानने ।
तेषां दर्शनमात्रेण विघ्नानि स्युः पदे पदे ॥ ८ ॥
विघ्नान्युपशमं यान्ति तदुपासकदर्शनात् ।
नमस्यन्ति च भूतानि स्थावराणि चराणि च ॥ ९ ॥
अतस्तेऽहं प्रवक्ष्यामि मन्त्रमेकाक्षरं शुभम् ।
तदनुष्ठानमात्रेण वाञ्छितं समवाप्स्यसि ॥ १० ॥
अनुष्ठानं प्रवक्ष्यामि यथोक्तं शम्भुना मम ।
स्नानं कृत्वा धौतवस्त्रे परिधाय शुचिर्नरः ॥ ११ ॥
चैलाजिनं कुशैः कृत्वा स्वासनं साधकः सुधीः ।
तस्मिन् स्थित्वा भूतशुद्धिं प्राणानां स्थापनं तथा ॥ १२ ॥
अन्तर्बहिर्मातृकाणां न्यासं कृत्वा त्वतन्द्रितः ।
प्राणायामं ततः कृत्वा मूलमन्त्रं जपन् हृदि ॥ १३ ॥
मन्त्रसन्ध्यामुपासीत आगमोक्तां यथाविधि ।
आपादमस्तकं देवं ध्यात्वा निश्चलचेतसा ॥ १४ ॥
मानसैरूपचारैस्तं पूजयेत् सुसमाहितः ।
ततो जपेद् यथाशक्ति पुरश्चरणमार्गतः ॥ १५ ॥
अनुकूलो भवेद् यावद् वरं दातुं गजाननः ।
स्वरूपं दर्शयेद् यावत् तावज्जपपरो भवेत् ॥ १६ ॥
॥ भृगुरूवाच ॥
एवमुक्त्वा मुनिं ब्रह्मा विलोक्य शुभवासरम् ।
एकाक्षरं मन्त्रराजमेकार्णं गणपस्य च ॥ १७ ॥
अशिक्षयत् तदा सर्वं सम्भ्रान्तं मुनिसत्तमम् ।
॥ ब्रह्मोवाच ॥
सूर्यकोटिप्रतीकाशं वरं दातुं समागमत् ॥ १८ ॥
यदा द्रक्ष्यसि तं देवं तदा चित्तं स्थिरीकुरु ।
ममैव हृदये नित्यं स्थिरो भव गजानन ॥ १९ ॥
वृणीष्वेति वरं तस्मात् स ते दास्यत्यसंशयम् ।
हृदि स्थिते तत्र देवे दिव्यं ज्ञानमवाप्स्यसि ॥ २० ॥
भूतं भावि भवच्चैव ज्ञास्यसि त्वमशेषतः ।
हित्वा भ्रान्तिं दृढां वत्स ! नानाग्रन्थान् करिष्यसि ॥ २१ ॥
॥ व्यास उवाच ॥
गता भ्रान्तिर्मम पितरुपदेशे कृते त्वया ।
अनुष्ठानं करिष्यामि पितामह तवाज्ञया ॥ २२ ॥
॥ ब्रह्मोवाच ॥
एकान्ते निर्जने देशे व्यग्रताहेतुवर्जिते ।
अनुष्ठानं कुरू विभो गजाननमनुस्मरन् ॥ २३ ॥
नास्तिके निन्दके क्रूरेऽनाचारे च खले शठे ।
न वक्तव्यो मन्त्रराजस्तादृशे शरणागते ॥ २४ ॥
दृढभक्तौ श्रद्दधाने विनीते वेदवादिनि ।
साकाङ्क्षे निरनुक्रोशे शास्त्रज्ञे च प्रकाशय ॥ २५ ॥
प्रापयत्येव नरकान् दशपूर्वान् दशापरान् ।
मन्त्रराजस्तु वक्तारमप्रकाश्ये प्रकाशितः ॥ २६ ॥
यो जपेद् भक्तिपूर्वं तु स लभेदीप्सितं फलम् ।
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ॥ २७ ॥
एकदन्तप्रभावेण लब्ध्वा ज्ञानं सुनिर्मलम् ।
इह भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्नुयात् ॥ २८ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रकथनं नामैकादशोऽध्यायः ॥ ११ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-11

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...