श्रीगणेशपुराणे उपासनाखण्डे नवमोऽध्यायः
राजोपदेशज्ञानोपदेशकथनं
॥ सूत उवाच ॥
ततो भृगुः क्षणं ध्यात्वां पुनस्तं प्राह भूपतिम् ।
अत्यन्त विह्वलो दुःखं वीक्ष्य तत्पूर्वकर्मजम् ॥ १ ॥
॥ भृगुरूवाच ॥
क्व पापनिकरास्ते तु क्वोपायाः कथिता मया ।
तथाऽप्येकं ब्रवीमि त्वामुपायमघनाशनम् ॥ २ ॥
गणेशस्य पुराणं त्वं श्रोष्यसे यदि सत्वरम् ।
तदैव मोक्ष्यसे दुःखसागरान् नात्र संशयः ॥ ३ ॥
इत्युक्त्वां तं गणेशस्य नामाष्टशतमुत्तम् ।
जप्त्वा जलं मन्त्रयित्वा सिषेच नृपतिं तदा ॥ ४ ॥
सिक्तमात्रे जले तेन तन्नासारन्ध्रतो लघुः ।
कृष्णास्यः प्राप तद्भूमौ ववृधे तत्क्षणादसौ ॥ ५ ॥
सप्ततालप्रमाणोऽभूद् व्यादितास्यो भयङ्करः ।
करालजिह्वो रक्ताक्षो दीर्घबाहुर्जटाधरः ॥ ६ ॥
मुखादुरू वमन्नग्निं क्षणाच्च पूयशोणिते ।
नेत्राणामन्धतां कुर्वन्नन्धकार इवापरः ॥ ७ ॥
आलोक्य दुद्रुवुः सर्वे तदाश्रमनिवासिनः ।
दंष्ट्रारावैर्दशदिशः पूरयन्तं तमद्भुतम् ॥ ८ ॥
अपृच्छत् तं द्विजवरस्तत्समक्षं तु पूरुषम् ।
विद्वानपीति कोऽसित्वं नाम ते किं वदस्व मे ॥ ९ ॥
प्रत्युवाच मुनिं तं तु परिपृष्टो द्विजेन सः ।
प्राणिमात्रशरीरस्थो नाम्नाऽहं पापपूरुषः ॥ १० ॥
त्वन्मन्त्रजलपातेन नि।सृतो राजदेहतः ।
क्षुधातुरो भक्ष्यमीहे देहि मह्यं न चेत् तदा ॥ ११ ॥
भक्षयिष्ये मुने लोकान् सोमकान्त तवाग्रतः ।
वद मे वसतिं रम्यामितो निःसारितस्य च ॥ १२ ॥
ततस्तु बहिरभ्येत्य तमुवाच मुनिः पुनः ।
अस्मिन् रसाले सरले विरसे वस कोटरे ॥ १३ ॥
गलितानि च पत्राणि भक्षयस्व ममाज्ञया ।
नोचेत् त्वां भस्मसात् कुर्यां नानृतं मे वचोऽधम ॥ १४ ॥
॥ सूत उवाच ॥
इति तन्मुनि वाक्यान्ते शुष्कं स वृक्षमस्पृशत् ।
भस्मसादभवद् वृक्षो द्विजास्तत्स्पर्शमात्रतः ॥ १५ ॥
मुनेः सन्दर्शनाद्भीतस्तस्मिन् भस्मन्यलीयतः ।
तस्मिन् विलीने स मुनिः सोमकान्तं पुनर्जगौ ॥ १६ ॥
॥ भृगुरूवाच ॥
पुराणश्रवणाद् यत्ते जातं पुण्यं नृपोत्तम ।
अयं यावच्चूततरूरत्र चोत्तिष्ठते पुनः ॥ १७ ॥
तावत्सम्पादयस्मिंस्तद्भस्मन्येव दिने दिने ।
विवृद्धेऽस्मिंस्तरौ राजन्निष्पापस्त्वं भविष्यसि ॥ १८ ॥
॥ राजोवाच ॥
गणेशस्य पुराणं यन्नदृष्टं न च वै श्रुतम् ।
कुत्र तल्लभ्यते ब्रह्मन् ! व्याकर्ता तस्य वा मुने ॥ १९ ॥
॥ मुनिरुवाच ॥
ब्रह्मणा कथितं पूर्वं वेदव्यासाय धीमते ।
व्यासाच्च विदितं मह्यं पुराणं पापनाशनम् ॥ २० ॥
अहं ते च प्रवक्ष्यामि तीर्थे स्नानं समाचर ।
श्रोष्ये पुराणमिति च सङ्कल्पं कुरू सुव्रत ॥ २१ ॥
॥ सूत उवाच ॥
भृगुणानोदितः स्नात्वा भृगुतीर्थेऽति विश्रुते ।
सोमकान्तो मुदा युक्तस्ततः सङ्कल्पमाचरत् ॥ २२ ॥
गणेशस्य पुराणं यत् तच्छ्रोष्येऽद्य प्रभृत्यहम् ।
सङ्कल्पमात्रे तु कृते बभौ राजा निरामयः ॥ २३ ॥
भृगुप्रसादान्नीरक्तः कृमिक्षतविसर्जितः ।
गृहीत्वा तं भृगुरगाद्विस्मितं हर्षितं नृपम् ॥ २४ ॥
उपविश्यासने स्वीयेऽदापयत्तस्य चासनम् ।
उपविष्टो बभाषे तं दिव्यकान्तिर्नृपोत्तमः ॥ २५ ॥
॥ राजोवाच ॥
भवत्प्रसादात्सकला गरिष्ठा सङ्कल्पमात्रेण गता व्यथा मे ।
आश्चर्यभूतं सकलं वदस्व पुराणमेतद् द्विरदाननस्य ॥ २६ ॥
॥ भगुरुवाच ॥
शृणुष्वावहितो भूत्वा तत्पुराणं वदाम्यहम् ।
अनन्तपुण्यनिचयैर्यस्य श्रवणगोचरा ॥ २७ ॥
मतिरुत्पद्यते पुसां नान्यथा पापकारिणाम् ।
यस्याकर्णनमात्रेण सप्तजन्मार्जितान्यपि ॥ २८ ॥
लघुशुष्कार्दस्थूलानि पापानिच महान्त्यपि ।
तत्क्षणाद् विलयं यान्ति गणेशस्य प्रसादतः ॥ २९ ॥
अव्ययस्याऽप्रमेयस्य निर्गुणस्य निराकृतेः ।
मनोवागनिरुप्यस्य केवलानन्दरूपिणः ॥ ३० ॥
यस्य स्वरूपं न विद्रुर्ब्रह्मेशानादयः सुराः ।
सहस्रवदनो यस्य महिमानं न च क्षमः ॥ ३१ ॥
यावद् विशेषविदपि प्रवक्तुं राजसत्तम ।
मया यथा श्रुतं पूर्वं तत्पुराणं सुपुण्यदम् ॥ ३२ ॥
अतीन्द्रियज्ञानवतो व्यासाच्चाऽमिततेजसः ।
यज्ञविध्वंसशोकार्तो दक्षः सुश्राव मुद्गलात् ॥ ३३ ॥
यस्य भक्तिर्दृढा राजन् गणेशे सर्वसिद्धिदे ।
स एतच्छृणुयान्नित्यं न वाच्यं तादृशेतरे ॥ ३४ ॥
यदि सर्वेऽपि कुर्वीरन् विघ्नराजस्य सेवनम् ।
क्व तदा विघ्ननिचया विहरेयुर्यथासुखम् ॥ ३५ ॥
दुःखान्यनुभवेयुः के नानाविरहजान्युत ।
चकारेदं पुरा व्यासो भूतभव्यभविष्यवित् ॥ ३६ ॥
वेदार्थज्ञानरहितान् वेदाध्ययनवर्जितान् ।
वर्णाश्रमाचारशून्यान् जातिसङ्करकारिणः ॥ ३७ ॥
कलौ विलोक्य तु जनान् कुटिलान् पापकारिणः ।
अष्टादशपुराणानि कृतवान् धर्मगुप्तये ॥ ३८ ॥
तावन्त्युपपुराणानि ततोऽर्थान् बुबुधुर्जनाः ।
तत एव गणेशस्य रूपं जानन्त्यमी जनाः ॥ ३९ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे राजोपदेशज्ञानोपदेशकथनं
नाम नवमोऽध्यायः ॥ ९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें