श्रीगणेशपुराणे क्रीडाखण्डे त्रिंशाधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे त्रिंशाधिकशततमोऽध्यायः

गजाननाविर्भाव
॥ क उवाच ॥

ततस्तु नवमे मासि पूर्णे साऽसूत बालकम् ।
चारुचन्द्राननं पद्मशोभाजिन्नयनं शुभम् ॥ १ ॥
किरीटकेयूरधरं कोटिसूर्यसमप्रभम् ।
प्रवालाधरशोभाढ्यं चतुर्बाहुर्विराजितम् ॥ २ ॥


मुक्ताहारधरं चारुकङ्कणैरूपशोभितम् ।
परशुं कमलं माला मोदकांश्च करैर्दधत् ॥ ३ ॥
ध्वजाङ्कुशाब्जविलसत् पादपद्म समन्वितम् ।
किङ्किणीजालविलसच्चारगुल्फयुतं शुभम् ॥ ४ ॥
भालचन्द्रं कोटिचन्द्रनिभं वह्नि समप्रभम् ।
एवं दृष्ट्वा स्वरूपं सा चकम्पे हर्षनिर्भरा ॥ ५ ॥
किमिदं तेज उदितं नयनाच्छादकं महत् ।
कोऽसि त्वं वद मे चेतो नन्दयस्व कृपां कुरु ॥ ६ ॥
इत्युक्त्वा तं नमश्चक्रे स्मरन्ती पूर्वकं वचः ।
तत ऊचे महोमूर्तिर्मा मातर्विमना भव ॥ ७ ॥
गुणशोऽहमनेकानां ब्रह्माण्डानां विनायकः ।
असङ्ख्याता मेऽवतारा न ज्ञायन्तेऽमरैरपि ॥ ८ ॥
इच्छया सृष्टिसंहारपालनानि करोम्यहम् ।
त्रिधा रूपं विधायाहं विश्वस्य शिवनन्दिनि ॥ ९ ॥
त्रेतायुगेऽवतीर्णेन त्वद्गृहे लीलया पुरा ।
अनेकानि चरित्राणि कृतानि सिन्धुनाशनम् ॥ १० ॥
मयूरेश्वरनामाहं षड्भुजोऽर्जुनवर्णकः ।
तदा मया वचो दत्तं द्वापरे ते सुतः पुनः ॥ ११ ॥
भवेयं सेवकश्चाहं सिन्दूरान् मोचिता मया ।
द्विजरूपेण सहसा स्मर सर्वं शुचिस्मिते ॥ १२ ॥
तदापि तनयस्तेऽहं भवीष्यामीत्यथाब्रुवम् ।
तदिदं वचनं सत्यं मयाऽसम्पादि पार्वति ॥ १३ ॥
भूभारं च हरिष्यामि सिन्दूरं च महाबलम् ।
सेवनं च करिष्यामि तव मातर्गजाननः ॥ १४ ॥
विख्यातोऽहं भविष्यामि भक्तानां कामपूरकः ।
॥ क उवाच ॥
एवं श्रुत्वा वचो गौरी स्मृत्वा सर्वं पुरातनम् ॥ १५ ॥
नत्वा तुष्टाव देवेशं विश्वेशं विघ्ननाशकम् ।
॥ गौर्युवाच ॥
निर्विकल्पचिदानन्दघनं ब्रह्मस्वरूपिणम् ॥ १६ ॥
भक्तप्रियं निराकारं साकारं गुणभेदतः ।
नमाम्यहमति स्थूलमणुभ्योऽणुतरं विभुम् ॥ १७ ॥
अव्यक्तं व्यक्तिमापन्नं रजःसत्त्वतमोगुणम् ।
मायाविनं मायिनं च सर्वमायाविदं प्रभुम् ॥ १८ ॥
सर्वान्तर्यामिणं नित्यं सर्वाधारं परात्परम् ।
चतुर्णामपि देवानां मानसस्याप्यगोचरम् ॥ १९ ॥
महद् भाग्यं ममविभो स त्वं मे पुत्रतां गतः ।
प्रतीक्षन्त्या मम विभो प्रत्यक्षं दर्शनं गतः ॥ २० ॥
इदानीं त्वद्वियोगो मे न स्याद्देव तथा कुरु ।
एवं वदन्त्यां तस्यां तु देवो रूपान्तरं दधौ ॥ २१ ॥
चतुर्भुजं भालचन्द्र शुण्डादण्डविराजितम् ।
अनेकभूषणयुतं चिन्तामणियुतं हृदि ॥ २२ ॥
दिव्याम्बरं दिव्यगन्धं सिद्धिबुद्धियुतं तदा ।
रुरोद बालवच्चाज्ञो ददृशे गिरिजा तु तम् ॥ २३ ॥
शुशोच बहुधा तन्वी निधिः केन हृतो मम ।
न बालस्त्रिषु लोकेषु दृष्टः शुण्डाविराजितः ॥ २४ ॥
ब्रह्मादयो हसिष्यन्ति लोकाश्चेक्ष्येदृशं शिशुम् ।
एवं बहुविधं शोकं श्रुत्वाऽगाच्छङ्करो गृहम् ॥ २५ ॥
सगणस्तं शिशुं गृह्य प्राह तां शृणु मे प्रिये ।
अनादिनिधनो देवः शुण्डादण्डविराजितः ॥ २६ ॥
यत्र कुण्ठाश्चतुर्वेदाः शास्त्राणि मुनयोऽमराः (मुनयो वराः) ।
प्रपञ्चे गुम्फिता येन नानाकार्यवता प्रिये ॥ २७ ॥
सर्वान्तर्याम्यनेकानां ब्रह्माण्डानां च कारकः ।
चत्वार्यस्य च रूपाणि चतुर्षु च युगेषु च ॥ २८ ॥
कृते दशभुजो नाम्ना विनायक इति श्रुतः ।
त्रेतायुगे शुक्लवर्णः षड्भुजोऽसौ मयूरराट् ॥ २९ ॥
सिन्धुं हत्वाऽपालयत् सोऽवतीर्य स्वालये प्रिये ।
स एवायं रक्तवर्णश्चतुर्बाहुविराजितः ॥ ३० ॥
अवतीर्णो गृहे नौ हि सिन्दूरं निहनिष्यति ।
आरुह्य मूषकं देवो भूभारं च हरिष्यति ॥ ३१ ॥
नाम्ना गजानन इति त्रैलोक्ये ख्यातिमेष्यति ।
अयं कलियुगे देवि धूम्रकेतुरिति प्रथाम् ॥ ३२ ॥
चतुर्बाहुश्चारुनेत्रो यास्यते रुचिरां भुवि ।
निशम्य शिववाक्यं स उवाच बालकः स्फुटम् ॥ ३३ ॥
॥ बाल उवाच ॥
सम्यग्बुद्धं स्वरूपं मे सम्यगुक्तं त्वया शिव ।
अवतीर्णस्तव गृहे सेवा कर्तुं च सिन्दुरम् ॥ ३४ ॥
निहन्तुं च निहन्तारं देवानां सर्वभुभूजाम् ।
मर्दनं भूधराणां च त्रैलोक्यजयशालिनम् ॥ ३५ ॥
हत्वा तं विश्वसन्तोषं करिष्यामि च शङ्कर ।
भक्तानां कामपूरश्च वेदकर्मप्रवर्तकः ॥ ३६ ॥
भविष्यामि वरेण्यस्य वरदो ज्ञानदायकः ।
मयि भक्तिर्भवेत् तस्य मम ध्यानपरायणः ॥ ३७ ॥
देवद्विजातिथीनां च पूजकः पञ्चयज्ञकृत् ।
पुराणश्रवणे सक्तः स्वाचारः सत्यवान् शुचिः ॥ ३८ ॥
पुष्पिका नाम यस्यापि पत्नी धर्मपरायणः ।
पतिव्रता पतिप्राणा पतिवाक्य परायणा ॥ ३९ ॥
ताभ्यां द्वादशवर्षाणि तपस्तप्तं सुदारुणम् ।
तयोर्मया वरो दत्त एष्ये वां पुत्रतां ध्रुवम् ॥ ४० ॥
पुष्पिकायां प्रसूतायामद्यैव राक्षसैः शिशुः ।
नीतश्च त्यक्ष्यते प्राणांस्तस्मान्मां नय तत्र ह ॥ ४१ ॥
एवमाकर्ण्य तद्वाक्यं शिवो हर्षसमन्वितः ।
नानावाङ्मयपुष्पैस्तं पूजयामास भक्तितः ॥ ४२ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गजाननाविर्भावो नामत्रिंशाधिकशततमोऽध्यायः ॥ १३० ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-130

कोई टिप्पणी नहीं:

123