श्रीगणेशपुराणे क्रीडाखण्डे विंशत्यधिकशततमोऽध्यायः
पितृसिन्धुसंवाद
॥ क उवाच ॥
हतशिष्टाः केऽपि वीराः स्रवद्रक्ताः सुदुःखिता ।
सिन्धुं सभागतं चेत्थं भीत भीता अथाब्रुवन् ॥ १ ॥
॥ वीरा ऊचुः ॥
धनुर्धर निबोधेदमतिदुःखकरं वचः ।
धर्माधर्मौ तव सुतौ कृत्वा युद्धं महत्तरम् ॥ २ ॥
निन्यतुर्देवसेनां तौ हत्वा हत्वा यमक्षयम् ।
ततः कोऽपि महावीरो मुखैः षड्भिर्विराजितः ॥ ३ ॥
सोऽपि ताभ्यां रणे घोरे पातितो धरणीतले ।
पुनस्तेन धृतौ वीरौ शिखायां तावुभावपि ॥ ४ ॥
भ्रामयित्वा बहुतरं पातितौ तौ धरातले ।
शतधा शीर्णदेहौ तौ गतौ तौ स्वर्गमुत्तमम् ॥ ५ ॥
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं न्यपतद्दैत्यपुङ्गवः ।
शोकसागरमग्नोऽभूद् वज्राहत इवाचलः ॥ ६ ॥
धावमानैः सुहृद्वर्गैः स आशूत्थापितो बलात् ।
मुहूर्तात्प्रकृतिं यातः शुशोच बहुदुःखितः ॥ ७ ॥
॥ सिन्धुरुवाच ॥
शक्रादयो लोकपाला जिता याभ्यां रणे पुरा ।
तौ हतौ नु कथं वीरौ षडास्येन महाबलौ ॥ ८ ॥
विहाय मृत्युलोके मां कथं स्वर्गं गतावुभौ ।
सुरसेनानिहन्तारौ कृतान्तस्यान्तकावुभौ ॥ ९ ॥
नानेष्ये शत्रुमूर्द्धानं तदाऽऽस्यं दर्शये न च ।
गमनावसरे प्रोक्तं तत्सत्यं किं कृतं त्वया ॥ १० ॥
अथ दुर्गासखीभिस्तु वृत्तान्तोऽन्तः पुरे तदा ।
कथितो विस्तरेणैव रुदतीभिः सुदुःखतः ॥ ११ ॥
॥ सख्युवाच ॥
भर्त्ता रोदिति ते सुभ्रु धर्माधमौं मृताविति ।
साथ पर्यङ्कसुगता न्यपतत् पृथिवीतले ॥ १२ ॥
रम्भेव वातनिहता कोमलारुणपल्लवा ।
सखीदुष्टवचोभिः सा बाणैरिव हृदि क्षता ।
विस्रस्तकेशाभरणा साप्यरोदीत्तदा भृशम् ॥ १३ ॥
विस्रस्तवस्त्रा विकसत् बिल्वचारूपयोधरा ।
अश्रुश्यामलगण्डा सा शोकानलहतप्रभा ॥ १४ ॥
जघ्ने मुखं सा पाणिभ्यां दन्तासृक्सिक्तभूतला ।
निरस्तदेहभावा सा का विकला विगतत्रपा ॥ १५ ॥
सभाङ्गणगताऽलुण्ठद्धठकृद् बालको यथा ।
सर्वे ततः सभ्यवरा रुरुदुर्दुःखकर्षिताः ॥ १६ ॥
प्रस्रवन्नेत्रसलिलाः प्राब्रवीत् तान् सभासदः ।
॥ राज्ञी उवाच ॥
कथं सर्वेषु वीरेषु जीवत्सु तौ सुतौ मम ॥ १७ ॥
प्रेषितौ रणभूमिं तौ मामपृष्ट्वा तु कोमलौ ।
मयाशीश्चेन्नियुक्ता स्यान्न तयोर्मरणं भवेत् ॥ १८ ॥
न हि मे वचनं धाता मिथ्या कर्तुं समीहते ।
याभ्यां जिता देवगणास्तौ कथं निधनं गतौ ॥ १९ ॥
क्व द्रक्ष्याम्यहमेतौ यौ जिग्यतुर्मदनं रुचा ।
बुद्धीना यौ सरस्वन्तौ तौ मां त्यक्त्वा कथं गतौ ॥ २० ॥
तयोः शोकाग्निना दग्धा मरिष्याम्यहमद्य वै ।
इत्युक्त्वा न्यपतद् भूमौ निघ्नती हृदये मुहुः ॥ २१ ॥
ततः सख्यो नागराश्च बोधयामासुरञ्जसा ।
न मातः कोऽपि शोकेन यो मृतः पुनरागतः ॥ २२ ॥
मृत्युलोके चिरं स्थाता नेक्षितो न श्रुतोऽपि च ।
विहाय हनुमन्तं च कृपं शारद्वतं बलिम् ॥ २३ ॥
व्यासं परशुरामं च बिभीषणमथापि च ।
द्रौणिं नान्यश्चिरं स्थायी न भूतो न भविष्यति ॥ २४ ॥
ब्रह्मादीनां भवेन् मृत्युः का तत्र गणनात्मनः ।
रोदनं तेन कर्तव्यं न स्यान् मृत्युः कदाऽस्य चेत् ॥ २५ ॥
क्षीणे ऋणानुबन्धे च स्त्री पुत्रः पशुरेव च ।
न तिष्ठति ध्रुवं तत्र कृतः शोको वृथा भवेत् ॥ २६ ॥
यथा काष्ठं काष्ठगतं पुरेणैव वियुज्यते ।
तद्वज्जन्तुर्वियोगं च योगं च प्राप्नुतेवशः ॥ २७ ॥
नानापक्षिगणा रात्रावेकवृक्षागता यथा ।
प्रातर्दशदिशो यान्ति तत्र किं परिवेदनम् ॥ २८ ॥
॥ क उवाच ॥
एवं प्रबोधिता दुर्गा सिन्धुश्च जन एव च ।
हठाच्छोकं निगृह्यासावासने संविवेश ह ॥ २९ ॥
उपहासं करिष्यन्ति सपत्ना रुदतामिति ।
दुर्गां धृत्वा बलाल्लोका निन्युरन्तःपुरं हि ताम् ॥ ३० ॥
निश्वसन्ती पपातासौ पर्यङ्के शोककर्षिता ।
स सिन्धुः क्रोधसंयुक्तो जग्राह शस्त्रसञ्चयम् ॥ ३१ ॥
पुत्रयोनिष्कृतिं कर्तुं हयारूढो ययौ रणम् ।
याते तस्मिन्महासैन्यं चतुरङ्ग रणोत्सुकम् ॥ ३२ ॥
उड्डीयोड्डीय धावन्तो ययुः पूर्वं पदातयः ।
नानावर्णा एकरूपा नानाशस्त्रास्त्रपाणयः ॥ ३३ ॥
ततो वारणसङ्घाता नानाधातुविचित्रिताः ।
घण्टाभरणशोभाढ्या दानोदकप्रवर्षिणः ॥ ३४ ॥
चीत्कारभीषितपरा महारावभयङ्कराः ।
ततोऽश्वा प्रागमन् सादियुक्ता वायुजवा रणम् ॥ ३५ ॥
खुराघाताद् विस्फुलिङ्गान् पातयन्तो धरातले ।
शुशुभुः सादिनस्तत्र खेटकुन्तासिपाणयः ॥ ३६ ॥
चन्दनागरुलिप्ताङ्गा नानामालाविभूषिताः ।
तनुत्राणभृतः सर्वे कङ्कटभ्राजिमस्तकाः ॥ ३७ ॥
ग्रसन्त इव चाकाशं नादयन्तो दिशो दश ।
रथास्ततोऽगमन्नानामहावीरैरधिष्ठिताः ॥ ३८ ॥
नानाशस्त्रास्त्रसम्पूर्णा धनुस्तूणीरसंयुताः ।
तन्मध्ये शुशुभे सिन्धुर्महामुकुटकुण्डलः ॥ ३९ ॥
नानाशस्त्रधनुः पाणिस्तूणीरकृतभूषणः ।
वीरकङ्कणशोभाढ्यः कटिसूत्राङ्गदप्रभः ॥ ४० ॥
क्रोधसंरक्तनयनो लोकत्रयबुभुक्षया ।
वाद्यस्तु सर्ववाद्येषु बन्दिषु च स्तुवत्सु च ॥ ४१ ॥
यावद् याति महावेगात् तावद् दूतस्तमब्रवीत् ।
पिता ते याति दैत्येश तं प्रतीक्षस्व सुव्रत ॥ ४२ ॥
परावृत्येक्षते यावत् तावदश्वगतं सुतम् ।
अपश्यदभ्याशगतं नमश्चक्रे स चापि तम् ॥ ४३ ॥
ददौ पिता तत्र सुतं दुर्गं कृत्वा चमूचरैः ।
उपदेशं च कृतवान् सुखायामुत्र चेह च ॥ ४४ ॥
॥ चक्रपाणिरुवाच ॥
गर्वेण वर्तसे पुत्र श्रिया मत्तो न बुध्यसे ।
अर्थज्ञाने महावृद्धाः प्रष्टव्या भूतिमिच्छता ॥ ४५ ॥
अग्रे शुभेच्छया पूर्वमशुभं न समाचरेत् ।
अल्पेन कर्मणा नाशं पुण्यमेत्य शुभेन ह ॥ ४६ ॥
अणुरग्निर्दहेत् सर्वं पुण्यं दोषस्तथा सुत ।
न लाभो दृश्यते पुत्र बद्धेषु तेषु ते क्वचित् ॥ ४७ ॥
स एव पुत्रो यो मातृपितृवाक्यकरोऽनिशम् ।
तस्य चोल्लङ्घने पुण्यं नाशमेति च जायते ॥ ४८ ॥
दोषजालं मोहजालं नानानिरयदं सुत ।
अतः शृणु हितं वाक्यं मोचयाशु सुरान् सुत ॥ ४९ ॥
मुक्तेषु तु भवेन्मित्रं मयूरेशोऽखिलार्थदः ।
न चेह द्वेषतः कश्चित् सुखं प्राप्तो धरातले ॥ ५० ॥
विनाशं प्रापिता देवैर्हिरण्याक्षादयोऽसुराः ।
॥ क उवाच ॥
इति पितृवचः श्रुत्वा चुकोपातितरां सुतः ॥ ५१ ॥
धिक्कृत्य पितरं प्राह मम भ्रान्तिरभूत् पुरा ।
चतुरस्त्वं पिता मे वै ज्ञानं सम्यक् प्रकाशितम् ॥ ५२ ॥
भाषसे मूढवत् तात कृत्वां श्यामं मुखं व्रज ।
येन मे निहता सेना परार्धगणिताः पितः ॥ ५३ ॥
तेनेदानीं कथं साम कर्त्तव्यमयशस्करम् ॥
कुशाक्षमाला धरणं राजधर्मेहि नेष्यते ॥ ५४ ॥
तस्माद् दया नरेन्द्रेण न कार्या शत्रुसञ्चये ।
निर्दयत्वमरावेव स्मृतं नीत्याऽऽमये यथा ॥ ५५ ॥
एवमुक्त्वा नमस्कृत्य पितरं सिन्धुदैत्यराट् ।
परावृत्य बलात्तं स ययौ योद्धं रणोत्सुकः ॥ ५६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे पितृसिन्धुसंवादो नाम विंशत्यधिकशततमोऽध्यायः ॥
१२० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें