श्रीगणेशपुराणे क्रीडाखण्डे अष्टाविंशत्युत्तरशततमोऽध्यायः
गजाननदर्शनं
॥ क उवाच ॥
स ददर्श समासीनं नारायणमनामयम् ।
रत्नकाञ्चनविलसत् पद्मासनगतं विभुम् ॥ १ ॥
सोऽपि तं पुरतो वीक्ष्य विवर्णवदनं तदा ।
तत्पृष्ठतो महादैत्यं गगनस्पर्धिमस्तकम् ॥ २ ॥
उदतिष्ठत वेगेन दयालुः कमलापतिः ।
धृत्वा करं समालिङ्ग्य स्वासने कं न्यवेशयत् ॥ ३ ॥
सम्पूज्य परिपप्रच्छ किं ते कार्यमुपस्थितम् ।
कथं च म्लानवदनः श्वासवांश्च हतप्रभः ॥ ४ ॥
मम खेदः समुत्पन्नो दृष्ट्वैव त्वां पितामह ।
इति तद्वचनं श्रुत्वा जगाद कमलासनः ॥ ५ ॥
॥ क उवाच ॥
प्रबोधितः शिवेनाहं प्रतिसुप्तो निजालये ।
ततो मे जृम्भतो वक्त्रान्निर्गतः पुरुषो महान् ॥ ६ ॥
पतन्ति भूतले भानि यन्मस्तकविधानतः ।
तस्य सौरभगन्धेन सर्व देवा विसिस्मिरे ॥ ७ ॥
यस्य लावण्यमीक्ष्यैव लज्जितो मदनोऽभवत् ।
यस्य क्रन्दितशब्देन च कम्पे भुवनत्रयम् ॥ ८ ॥
स नमस्कृत्य मां देव विनीतः पुरतः स्थितः ।
ततस्तस्मै वरा दत्ताः पुत्रस्नेहेन माधव ॥ ९ ॥
यं यं त्वमालिङ्ग्यसि स स मृत्युमुपैष्यति ।
कालोऽपि न रणे स्थातुं तव शक्तो भविष्यति ॥ १० ॥
स्थानं च स्वेच्छया तस्य दत्तं देव मया ततः ।
नमस्कृत्य गतो दूरं वितर्कात् पुनरागतः ॥ ११ ॥
मामेवालिङ्गितुं यातोऽपलमस्माद् भयादहम् ।
हंसमारुह्य सहसा वेगेन त्वामुपागतः ॥ १२ ॥
दृष्ट्वा दृष्ट्वा पृष्ठगतं कम्पः श्वासश्च मेऽभवत् ।
विना त्वां शरणं कं वा यामि सर्वेश्वरेश्वर ॥ १३ ॥
ततोऽब्रवीन् महाविष्णुर्ब्रह्माणं शरणागतम् ।
॥ देव उवाच ॥
पूर्वं दत्वा वरान् देव सङ्कटं प्राप्य बुद्धितः ॥ १४ ॥
इदानीं चिन्तया किं स्याद् यद् भाव्यं तद् भविष्यति ।
स पीडां त्रिषु लोकेषु विधातुमुद्यतो भवेत् ॥ १५ ॥
॥ ब्रह्मोवाच ॥
यावत्तौ चिन्तयाविष्टौ स्थितौ ब्रह्महरी तदा ।
तावत् स पुरतोऽतिष्ठद् दृष्ट्वा ताभ्यां महासुरः ॥ १६ ॥
जगर्ज गर्जयामास त्रैलोक्यं बलवत्तरम् ।
ब्रह्माण्ड कम्पयामास ब्रह्माणं च तदा खलः ॥ १७ ॥
सोऽवदद् रक्ष रक्षेति विष्णुं त्रैलोक्यरक्षकम् ।
ततो विष्णुर्जगौ दैत्यं वाचा मधुरया तदा ॥ १८ ॥
॥ देव उवाच ॥
न त्वया वरदानेज मत्तेन योद्धुमुत्सहे ।
अहं सत्त्वगुणोपेतः पालने निरतः सदा ॥ १९ ॥
अयं च ब्राह्मणो ब्रह्मा तेन योद्धुं न चार्हसि ।
तव युद्धप्रदो देवः ख्यातोऽसौ मदनान्तकः ॥ २० ॥
तेन युद्ध्यस्व ते कीर्तिर्महती स्यात् त्रिलोकगा ।
॥ क उवाच ॥
इत्याकर्ण्य वचस्तस्य जहृषे दैत्यपुङ्गवः ॥ २१ ॥
उड्डीय प्रययौ सद्यः कम्पयन् भुवनत्रयम् ।
पातयन् पर्वतान् वृक्षांश्चूर्णयन् सहसा बहून् ॥ २२ ॥
दिग्गजाश्चलिताः सर्वे सञ्जग्मुर्विदिशो दिशः ।
एवमुपत्यकां यातः कैलासस्य महागिरेः ॥ २३ ॥
ददर्शाधित्यकायां स ध्यानस्थं गिरिशं खलः ।
नन्दिभृङ्गिगणाकीर्णं पार्वत्या सेवितं विभुम् ॥ २४ ॥
व्याघ्रचर्मपरीधानमर्धचन्द्रविभूषणम् ।
भस्माङ्गरागशोभाढ्यं करिचर्मोत्तरीयकम् ॥ २५ ॥
दृष्ट्वा देवं तदा दैत्यो निनिन्द सहसा हरम् ।
अनेन किं मया युद्धं कर्त्यव्यं तापसेन ह ॥ २६ ॥
एतस्य सुन्दरीं भार्यां नीत्वा यामि यदृच्छया ।
एवं निश्चित्य मनसा गौरीमन्तिकमाययौ ॥ २७ ॥
तदा च कम्पे गिरिजा कल्पान्ते जगती यथा ।
निमील्य नयने मूर्छामापाशु भयविह्वला ॥ २८ ॥
दधार तां केशपाशे स दैत्यो दुष्टमानसः ।
उड्डीय चलितो वेगाच्छुशोच गिरिजा तदा ॥ २९ ॥
रावणेन नीयमाना यथा सा धरणीसुता ।
॥ गिरिजोवाच ॥
औदासीन्यं कथं यातो मयि देवोऽखिलार्थवित् ॥ ३० ॥
ध्यानं कथं गतोऽस्यर्धे ह्रीयमाणे त्वदङ्गके ।
नाकारि दास्यं न्यूनं ते येन काठिन्यमागतः ॥ ३१ ॥
कः सखा मोचयेन्मां हि प्राणदाता भवेच्च कः ।
पुनर्मे शङ्करं को नु दर्शयेद् बलवत्तरः ॥ ३२ ॥
॥ क उवाच ॥
ततः शोकाकुलां वीक्ष्य तां गणाः प्राबुवँस्तदा ।
अनेन योद्धुं शक्तिर्नो त्रैलोक्यनाशिनाऽधुना ॥ ३३ ॥
शिवश्च ध्याननिष्ठोऽभूद् दैवादस्यानुकूलता ।
नीता नो जननी विश्वसृष्टिस्थित्यन्तकारिणी ॥ ३४ ॥
मोहिनी सर्वदेवानां सर्व दुःखविनाशनी ।
लावण्यलहरी नीता सर्वयोषिद्वरा शुभा ॥ ३५ ॥
रत्नभूता कथं नीता कथं सा पुनरेष्यति ।
ध्यानस्थे शङ्करे सर्वनाशनं नेत्रवह्नितः ॥ ३६ ॥
तस्मिन् यास्यति लोभेन पुत्रानिव जनन्यथ ।
एवं शोकं प्रकुर्वत्सु हाहाकारै रुदत्सु च ।
गणेषु विससर्जाशु ध्यानं क्रोधान् महेश्वरः ॥३७ ॥
क्रोधानलेन ब्रह्माण्डं दहन्निव दिशो दश ।
पप्रच्छ तान् गणान् शम्भुः सङ्कटं किमुपस्थितम् ॥ ३८ ॥
भस्मसात् तं करिष्यामि येन वः कदनं कृतम ।
इति तद्वचनं श्रुत्वा प्रोचुस्तं ते गणास्तदा ॥ ३९ ॥
त्वयि ध्यानस्थित देव मन्दराचलसन्निभः ।
कृतान्तसमरूपः सन्नागतो दैत्यपुङ्गवः ॥ ४० ॥
यस्य श्वासानिलहता अचलाश्चलतां गताः ।
सम्मोहं प्रापिता देवा दर्शनादेव शङ्कर ॥ ४१ ॥
ततः स गिरिजां धृत्वा केशपाशे महाबलः ॥
निनाय सत्वरं व्योममार्गेण जननीं हि नः ॥ ४२ ॥
नीयमाना शिवा प्राह धाव धावेति सत्वरम् ।
मूर्च्छिता पतिता भूमौ वयं सर्वे विमूर्च्छिताः ॥ ४३ ॥
तथाविधां समादाय ययौ स दुष्टमानसः ॥
श्रुत्वा तेषां वचः शम्भुर्जज्वाल परमं रुषा ॥ ४४ ॥
कुर्वन् भस्मेव लोकानामारुहो वृषं निजम् ॥
त्रिशूलादीनि शस्त्राणि दधानो दशभिर्भुजैः ॥ ४५ ॥
नभोमार्गेण प्रययौ गर्जयन् विदिशो दिशः ।
यत्रासीत् सिन्दुरो दैत्यस्तं देशमगमत् क्षणात् ॥ ४६ ॥
अहनत् पृष्ठदेशे तं तस्थौ स सम्मुखं तदा ।
मुञ्च भार्यां महादुष्ट दृष्टः सन् क्व गमिष्यसि ॥ ४७ ॥
इत्युक्तः स रुषाविष्टस्त्रिलोकीं भस्मतां नयन् ।
बाहुभ्यां मारयन्नेव प्रययौ शिवसन्निधौ ॥ ४८ ॥
उवाच च महादैत्यो गर्वेण परिमोहितः ।
नाहं मशकवाक्येन बिभेमि भुवनाधिपः ॥ ४९ ॥
यस्य श्वासानिलेनाशु कम्पते मेरुपर्वतः ।
तस्य मे गणना नास्ति मुखं मां मा प्रदर्शय ॥ ५० ॥
यदि शक्तिर्मया सार्धं युद्धं कर्तुं तदा कुरु ।
नो चेदन्यां परिणिय ततः सौख्यमवाप्स्यसि ॥ ५१ ॥
किं मया सह योद्धव्यं मशकेन त्वया लघो ।
एवमुक्त्वा बाहुयुद्धं कर्तुं शङ्करमाययौ ॥ ५२ ॥
दुर्गा देवी तु संस्मार मयूरेशं स्वचेतसि ।
द्विजरूपधरो देवो मयूरेशस्ततस्तयोः ॥ ५३ ॥
अन्तराले प्रादुरासीत् कोटिसूर्यनिभः क्षणात् ।
सर्वाङ्गसुन्दरो नानाभूषणैरूपशोभितः ॥ ५४ ॥
परशुं मध्यतः कृत्वा वारयामास दैत्यपम् ।
उवाचश्लक्ष्णया वाचा सिन्दूरं तं द्विजोत्तमः ॥ ५५ ॥
त्रैलोक्यजननीं गौरीं स्थापयाशु ममान्तिके ।
युध्यस्व शङ्करेण त्वं यावज्जयपराजयौ ॥ ५६ ॥
जयो यस्य भवेत्तेन ग्राह्येति नान्यथा वचः ।
॥ क उवाच ॥
द्विजवाक्यं समाकर्ण्य सिन्दूरो हृष्टमानसः ॥ ५७ ॥
स्थापयामास गिरिजां युद्धाय बहुलालसः ।
तयोस्तु पश्यतोरेव तावुभावप्य युध्यताम् ॥ ५८ ॥
सिन्दूरश्च महेशश्च नानायुद्धविशारदौ ।
क्रोधसंरक्तनयनौ तुल्यतेजः पराक्रमौ ॥ ५९ ॥
बाहुभ्यां वेष्टितुं यावदियेष सोऽसुरो हरम् ।
अदृश्य एव परशुरस्य जघ्ने बलादुरः ॥ ६० ॥
क्षीणशक्तिं ततो दैत्यं त्रिशूलेनाहनद्धरः ।
ततोऽशक्तं द्विजवरो वदति स्म हितं वचः ॥ ६१ ॥
त्रैलोक्यनायकेन त्वं न युद्धं कर्तुमर्हसि ।
गिरिजाशां विहायाशु व्रजस्व निजमन्दिरम् ॥ ६२ ॥
नो चेदयं शिवो भस्म करिष्यति तवाधुना ।
एवमुक्तो द्विजेनाऽसौ वाञ्छां त्यक्त्वा भुवं ययौ ॥ ६३ ॥
ततः सा पार्वती प्राह द्विजं प्राप्ते जयं शिवे ।
कोऽसि त्वं मुनिशार्दूल येनाहं मोचिता खलात् ॥ ६४ ॥
निजं में दर्शय स्वीयं रूपं नेदं स्वभावजम् ।
ममप्राणाधिकोऽसि त्वं सखा प्राणप्रदो यतः ॥ ६५ ॥
न भवेदुपकारस्ते प्राणे त्यक्ते द्विजोत्तम् ।
एवमाश्रुत्य तां वाचमुवाच स मुनीश्वरः ॥ ६६ ॥
न च मातर्मयाकारि किञ्चिदत्र महेश्वरः ।
अजयत् सिन्दुरं दैत्यं मोचिता त्वं शिवेन ह ॥ ६७ ॥
इत्युक्त्वा पूर्वरूपं स आविश्चक्रे विनायकः ।
दशदोर्दण्डरुचिरं कर्णकुण्डलमण्डितम् ॥ ६८ ॥
कस्तूरीतिलकं रत्नमुक्तामालाविभूषितम् ।
नानालङ्कार रुचिरं शेषकण्ठमणिप्रभम् ॥ ६९ ॥
दृष्ट्वैवं परमात्मानं ननन्द गिरिजा तदा ।
ननाम पादयोस्तस्य स उत्थाप्य च तां जगौ ॥ ७० ॥
॥ विनायक उवाच ॥
त्रेतायुगे प्राब्रुवं त्वां दास्यामि दर्शनं पुनः ।
अवतीर्य द्वापरे ते गृहे नाम्ना गजाननः ॥ ७१ ॥
भविष्यामि हनिष्यामि सिन्दूरं दैत्यमोजसा ।
॥ क उवाच ॥
मुनिरूपधरो देव उक्त्वा चान्तरधीयत ॥ ७२ ॥
ततः शुशोच गिरिजा मूर्छां सा परमां ययौ ।
तत ऊचे विश्वनाथो मनः स्वस्थं कुरु प्रिये ॥ ७३ ॥
पश्य त्वं हृदि तं देवं विनायकमनामयम् ।
न मिथ्या भाषितं तस्य यदुक्तं तत्करिष्यति ॥ ७४ ॥
एवमुक्त्वा महादेवो वृषारूढस्तया सह ।
आययौ परमं प्रीतः कैलासं पर्वतेश्वरम् ॥ ७५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गजाननदर्शनं नामाऽष्टाविंशत्युत्तरशततमोऽध्यायः ॥
१२८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें