श्रीगणेशपुराणे क्रीडाखण्डे शततमोऽध्यायः
भगासुरवध
॥ क उवाच ॥
अनेकरूपवान् देवो मयूरेशोऽखिलेश्वरः ।
अतिसुन्दरदेहः सन्नागकन्याभिराहृतः ॥ १ ॥
गृहं स्वकीयं क्रीडार्थं पूजितो बहुविस्तरात् ।
सुगन्धतैलोद्वर्तनैः स्नाप्योष्णैरपि तं जलैः ॥ २ ॥
दिव्यवस्त्रैरलङ्कारैश्चन्दनैरपि पूज्य च ।
धूपदीपैश्च नैवेद्यैः फलताम्बुलकाञ्चनैः ॥ ३ ॥
ऊचुः करपुटं बद्ध्वा वयं धन्यतमा विभो ।
यद् दृष्टन्ते पदं देव ब्रह्माद्यैरपि काङ्क्षितम् ॥ ४ ॥
नागलोको धन्यतमो जीवितं नः सुजीवितम् ।
आनन्दहृदमग्नं नो मानसं तापमत्यजत् ॥ ५ ॥
यद्यत्ते ईप्सितं देव तत्तदत्रापि गृह्यताम् ।
अत्र स्थित्वा कति दिनं पश्चात् त्वं गन्तुमर्हसि ॥ ६ ॥
॥ मयूरेश उवाच ॥
वाञ्च्छितं वो विधास्येऽहं गिरिजा मां प्रतीक्षते ।
मद्वियोगेन तप्ता सा न भक्षयति किञ्चन ॥ ७ ॥
यूयं कस्यात्मजास्तस्य दर्शनं चेद् भवेन्मम ।
॥ क उवाच ॥
तत ऊचुर्नागकन्या वासुकेः पुत्रिका वयम् ॥ ८ ॥
ब्रह्माद्या मुनयो देवा यान्ति यस्य गृहं सदा ।
यस्य विषभवा ज्वाला दहत् त्रिभुवनं विभो ॥ ९ ॥
॥ क उवाच ॥
इत्युक्त्वा तं पुरस्कृत्य पितरं प्रापुरङ्गनाः ।
रत्नसिंहासने दीप्ते तिष्ठन्तं पन्नगैर्युतम् ॥ १० ॥
सूर्यकोटिनिभं रत्नमालया शोभितं तदा ।
मूर्धस्थरत्नकिरणैर्भासयन्तं दिशोऽखिलाः ॥ ११ ॥
तं दृष्ट्वा वासुकिं देवो गर्वितं बलवत्तरम् ।
उड्डीय तत्फणासंस्थं मणिं जग्राह सत्वरम् ॥ १२ ॥
येन पातालविवरे नान्धकारोऽभवत् किल ।
आन्दोलयामास शिरः कम्पयन् सप्तपर्वतान् ॥ १३ ॥
उदधीन् सप्तस्वर्गांश्च पातालानि रसातलम् ।
हस्तेनैकेन तं गृह्य मयूरेशः स्वलीलया ॥ १४ ॥
वासुकिं निजकण्ठे तं बबन्ध सर्पभूषणः ।
विख्यातः स्वर्गलोकेऽभूज्जगर्जानन्दतो विभुः ॥ १५ ॥
तद् गर्जितं समाकर्ण्य चुक्षुभे भुवनत्रयम ।
ततः सर्पगणाः शेषं नीतुं वासुकिमब्रुवन् ॥ १६ ॥
स च क्रोधसमाविष्टो विस्तार्य निखिलान् फणान् ।
विषाग्निमुत्सृजन्दग्धुं त्रैलोक्यमुपचक्रमे ॥ १७ ॥
उवाच कः क्षमो जेतुं मम बन्धुं तु वासुकिम् ।
आवेशेन ययौ रोषाद् दावानल इव ज्वलन् ॥ १८ ॥
शीघ्रं यातो मयूरेशं तिष्ठ तिष्ठेति चाब्रवीत् ।
ततो नागकुलान्याशु तं शेषमन्वयुस्तदा ॥ १९ ॥
ततः पन्नगवृन्दं तं दृष्ट्वा देवो व्यतिष्ठत ।
शिखण्डिमस्तके हस्तं न्यधाद् युद्धाय पन्नगैः ॥ २० ॥
स ययौ तं नमस्कृत्य ग्रसन्निव महाद्भुतः ।
दुधाव पक्षौ तद्वाताद् भ्रामयन् भुजगोत्तमान् ॥ २१ ॥
काँश्चित् स भक्षयामास चुचूर्ण चापरानपि ।
मारयामास कांश्चित्स भुजगान्बलवत्तरान् ॥ २२ ॥
निरीक्ष्य तं मृताः केचित् पन्नगा भयविह्वलाः ।
दृष्ट्वा पराक्रमं तस्य शेषः श्वासमपासृजत् ॥ २३ ॥
शिखण्डी पतितस्तेन मूर्च्छितो धरणीतले ।
मयूरेशं ततः शेषो ययौ क्रोधाद् दहन्निव ॥ २४ ॥
त्रैलोक्यं विषवह्निस्थं समालोक्य गुणेश्वरः ।
विराट्रूपं समास्थाय रुरोह तत्फणोपरि ॥ २५ ॥
उड्डीय बालभावेन गर्जन् मेघ इवापरः ।
ननर्त करतालेन पादाघातेन मर्दयन् ॥ २६ ॥
अनन्तकोटिब्रह्माण्डभारेण परिपीडितः ।
एकब्रह्माण्डवाही स कथं तद्भारमावहेत् ॥ २७ ॥
बबन्ध शेषं हि कटौ रज्जुं बालो यथा रमन् ।
ततस्ते भुजगाः सर्वे योद्धु कामास्तमन्वयुः ॥ २८ ॥
हुङ्कारेणैव तान् सर्वान् पातयामास विघ्नराट् ।
अबध्नान्मस्तके कांश्चित्कांश्चिच्च कर्णयोर्विभुः ॥ २९ ॥
परिश्रान्तस्तदा शेषस्तं नुनाव गुणेश्वरम् ।
॥ शेष उवाच ॥
न स्वरूपं विदुर्देवा ब्रह्माद्या मुनयोऽपि च ॥ ३० ॥
त्वमेव सृजसे विश्वं पासि हंसि त्वमेव हि ।
नानावतारकर्ता त्वं नानादैत्यविमर्दनः ॥ ३१ ॥
त्वमेव साक्षी सर्वस्य सर्वान्तर्यामितां दधत् ।
सर्वत्रकारणं त्वं हि कारणानां च कारणम् ॥ ३२ ॥
अज्ञानादभिमानेन योद्धुकामान् क्षमस्व नः ।
॥ क उवाच ॥
सम्पातिञ्च जटायुं च श्येनमानीय सर्पराट् ॥ ३३ ॥
निवेद्य च नमस्कृत्य शेषस्तूष्णीं बभूव ह ।
तेऽपि तं प्रणिपत्याहुर्दीननाथ प्रसादतः ॥ ३४ ॥
बन्धान्मुक्ताः सर्पकृतान्नमस्ते परमेश्वर ।
॥ क उवाच ॥
एवमुक्त्वा मयूरेश बन्धुं तं शिखिनं त्रयः ॥ ३५ ॥
आलिलिङ्गुर्मुदा युक्तास्तदा गद्गदभाषिणः ।
पप्रच्छुः कुशलं मात्रे ते च क्षेममथाब्रुवन् ॥ ३६ ॥
ततः शिखण्डिनं सोऽथ रुरोह गणनायकः ।
पातालाद् धरणीं प्रायात् स्त्रीभिश्च संयुतो वशी ॥ ३७ ॥
भगासुरं ददर्शार्द्धमार्गे शिशुहरं च तम् ।
उद्यम्य परशुं दीप्तं शशिसूर्यनिभं विभु ॥ ३८ ॥
तत्याज कण्ठे तं तस्य पशुमारममारयत् ।
तच्छिरः परिबभ्राम शृङ्गं वज्राहतं यथा ॥ ३९ ॥
ततस्तदुत्थिता बाला योगमायाविमोहिताः ।
मयूरेशः क्व चास्तीति प्राकोशन् सर्व एव ते ॥ ४० ॥
आसने क्रीडने स्वापे जागृतौ भोजनेऽपि च ।
तमेव ध्यायमानास्ते तन्मुखाद्बहिराययुः ॥ ४१ ॥
गर्भवासादिवोत्तीर्णा ददृशुस्तं गुणेश्वरम् ।
दृष्ट्वा ते रुरुदुः स्नेहादालिलिङ्गुर्मुदाखिलाः ॥ ४२ ॥
॥ ते ऊचुः ॥
त्यक्त्वाऽस्मान्दैत्यजठरे मृतान् क्वास्ति गतो भवान् ।
त्वत्स्मृतेस्तस्य जठरे जीविता निर्गतास्ततः ॥ ४३ ॥
॥ मयुरेश उवाच ॥
सर्वव्यापी सर्वगतः सर्ववेत्ताऽखिलेश्वरः ।
न त्यक्त्वान् कदाचिद् वो मा चिन्तां कर्तुमर्हथ ॥ ४४ ॥
॥ क उवाच ॥
ततो ययौ मयूरेशो बालकैः परिवेष्टितः ।
केचिद् धावन्ति पुरतो नानाशब्दकरा भृशम् ॥ ४५ ॥
केचिच्छत्रधराः केचिद् दण्डचामरधारिणः ।
धूलिध्वजं समालोक्य ययुर्मुनिगणा बहिः ॥ ४६ ॥
शिख्यारूढं मयूरेशं बालकैः परिवेष्टितम् ।
ऊचुः परस्परं सर्वे मुनयो विस्मयान्विताः ॥ ४७ ॥
गृहेऽस्मिन् शिशवश्चामी कुतोऽन्येऽस्य समीपतः ।
तांश्च तान् मीलिताः सर्वेऽपश्यन् ते देवरूपिणः ॥ ४८ ॥
विचारेण च तान् सर्वे परब्रह्मस्वरूपिणः ।
आनन्दहृदमग्नास्ते न विदुः स्वपरं पुनः ॥ ४९ ॥
नापश्यँस्ते पुनस्ताँस्तान्भ्रान्ता इव व्यलोकयन् ।
मायया मोहिताः सर्वे स्वान् स्वान् बालान् व्यलोकयन् ॥ ५० ॥
कश्चित् पितरमासाद्य पठति स्म यथा पुरा ।
कश्चिन्मातरमासाद्य पिबति स्म स्तनं मुदा ॥ ५१ ॥
आलिलिङ्गाथ जननीं पितरं वापि कश्चन ।
भ्रातरं ताडयित्वाऽन्यो रुरोद ताडनादिव ॥ ५२ ॥
उमापि तनयं दृष्ट्वालिङ्ग्य प्रादात् स्तनं मुदा ।
कथं चिरतरं यात इति क्रोधादभाषत ॥ ५३ ॥
आदाय हस्ते गिरिजा मयूरेशं गृहं ययौ ।
सर्वे ते मुनयो जग्मुः शिशुभिः स्वं स्वमाश्रमम् ॥ ५४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे भगासुरवधो नाम
शततमोऽध्यायः ॥ १०० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें