श्रीगणेशपुराणे क्रीडाखण्डे नवनवतिमोऽध्यायः
मयूरेशपातालप्रयाणं
॥ ब्रह्मोवाच ॥
अद्भुतं कृतवान्वर्षे नवमेऽसौ गुणेश्वरः ।
शिखण्डिनं समारुह्य चतुरायुधभूषितः ॥ १ ॥
नानालङ्कारसंयुक्तो मृगनाभिजशोभितः ।
दिव्याम्बरधरो बालः क्रीडितुं समुपाययौ ॥ २ ॥
पूर्णचन्द्रनिभः श्रीमान् जयशब्दैरभिष्टुतः ।
केचिन्नमन्ति तं बालाः केचिच्छत्रं ध्वजं परे ॥ ३ ॥
दध्रु केचिद् द्विजयन्तस्तद्दर्शनमहोत्सवाः ।
क्रीडन्तः सरसीं याताः पञ्चयोजनविस्तृताम् ॥ ४ ॥
अगाधोदां नक्रझषकूर्ममण्डूकसंयुताम् ।
लतातरुपरीवारां नानापक्षिगणैर्युताम् ॥ ५ ॥
उड्डीय पतिताः केचित्तस्यां केचिच्छनैर्ययुः ।
चूतं तत्तीरगं दृष्ट्वा विशालं फलसंयुतम् ॥ ६ ॥
आरुरोह मयूरेशो बालाः फलजिघत्सया ।
रसालैस्ते निजघ्नुस्तानभिन्नाङ्गान्न्पलायिताः ॥ ७ ॥
बालाः स्कन्धान् दारयन्तो निपेतुः केऽपि तज्जले ।
एवं क्रीडत्सु बालेषु दैत्योऽगादश्वरूपवान् ॥ ८ ॥
यस्य पादप्रहारेण चूर्णतां यान्ति पर्वताः ।
यस्य ह्रेषितशब्देन कम्पते भुवनत्रयम् ॥ ९ ॥
पुच्छचाञ्चल्यतो जीवान् हन्ति स्कन्धं जघर्ष ह ।
यस्मिंश्चूतेऽस्य शब्देन कम्पिते पतिताऽर्भके ॥ १० ॥
केचित् पलायिता बालाः केचिद्भग्नाश्च मस्तके ।
केचिन्निपतिताश्चाशु गुणेशो पतिते जले ॥ ११ ॥
निमग्ने द्विमुहूर्तेऽस्मिन्प्रारुदन् मुनिबालकाः ।
किं वक्तव्यमुमायै च दर्शनीयं मुखं कथम् ॥ १२ ॥
शङ्करोऽपि रुषाविष्टो भस्मसान्नः करिष्यति ।
अगाधेऽस्मिन् जले मग्नं प्रवेष्टुं च न शक्नुमः ॥ १३ ॥
माता पिता पालयिता भ्राता त्राता सखा च नः ।
॥ क उवाच ॥
एवं शोचत्सु बालेषु मयूरेशो दधार तम् ॥ १४ ॥
कर्णयोर्जलमध्ये तु चकर्ष बलवान् विभुः ।
आरुरोह बलाद् दैत्यं भारेणामज्जयन् मुहुः ॥ १५ ॥
स दैत्यो निर्वमन्नेत्रान्मुखाद् बहु जलं मुहुः ।
जलपूर्णश्रुतिश्वासोऽत्यजत् प्राणान् महारवः ॥ १६ ॥
एकहस्तेन धृत्वा तं दोलयित्वा जलाद् बहिः ।
मयूरेशस्ततो बाला जहर्षुर्ननृतुर्भृशम् ॥ १७ ॥
भुवि ते शतधा जातं ददृशुर्दैत्यपुङ्गवम् ।
प्रशशंसुर्मयूरेशं महाबलपराक्रमम् ॥ १८ ॥
त ऊचुस्तं तदा देवं मृतं मत्वा रुदामहे ।
तावदेव हि दृष्टोऽसि हतदैत्यो बहिर्गतः ॥ १९ ॥
पुनस्ते जलमाविश्य प्रासिञ्चन्नञ्जलीन्मिथः ।
एकमत्या च सर्वे ते प्रासिञ्चन् गणनायकम् ॥ २० ॥
वर्षाकाले यथा मेघा धरणीं पर्वतानपि ।
षड्भुजैः परिषिञ्चन् सन्नपर्याप्तोऽभवद् यदा ॥ २१ ॥
तदाऽसङ्ख्यभुजैर्वारी चिक्षेप बालकेषु सः ।
तदाश्चर्यं तु ते दृष्ट्वा परस्परमथाब्रुवन् ॥ २२ ॥
षड्भुजोऽयं कथमभूदनन्तभुजमण्डितः ।
मन्दीभूता मुनिसुताः क्व द्विहस्ता वयं विभो ॥ २३ ॥
असङ्ख्यभुजवीर्यौजाः क्व च त्वं भुवनेश्वर ।
पुनः सर्वे सिषिञ्चुस्ते मयूरेशं रुषान्विताः ॥ २४ ॥
सोऽनन्तरूपस्तान् सर्वान् सिषेचे गणनायकः ।
एकैकस्याग्रतो भूत्वा षड्भुजो निजतेजसा ॥ २५ ॥
तावच्छिखण्डिनिष्ठोऽसौ चतुरायुधभूषितः ।
प्रणेमुस्तेऽन्जलिपुटं बध्वा देवं गुणेश्वरम् ॥ २६ ॥
पश्यन्तस्तन्मुखे विश्वं सर्वस्वर्गान्वितं तु ते ।
गन्धर्वयक्षरक्षांसि सरिदब्धिद्रुमानपि ॥ २७ ॥
सर्वं चराचरं विश्वं सदेवासुरमानुषम् ।
प्रार्थयामासुरथ ते दृष्ट्वेत्थं ते भयातुराः ॥ २८ ॥
॥ बाला ऊचुः ॥
न विदामः स्वमात्मानं परं वा नापि किञ्चन ।
एकरूपो भव विभो कृपां कृत्वाऽखिलेश्वर ॥ २९ ॥
॥ क उवाच ॥
इति तत्प्रार्थनां श्रुत्वा जातोऽसौ पूर्ववद् विभुः ।
एतस्मिन्नन्तरे तत्र चिक्रीडुर्नागकन्यकाः ॥ ३० ॥
या निरीक्ष्यावच्चाष्टनायिकानां त्रपा भृशम् ।
नेत्रे निरीक्ष्य ह्रीमन्त्यः प्रापलन् हरिणस्त्रियः ॥ ३१ ॥
अतिसुन्दरगात्रास्ताः सर्वालङ्कारभूषिताः ।
ता निरीक्ष्य मयूरेशं विह्वला मदनाग्निना ॥ ३२ ॥
ता ऊचुश्च मिथः सर्वा अयं भर्ता भवेद् यदि ।
सफलं नस्तदा जन्म जीवितं च वयोऽपि च ॥ ३३ ॥
धैर्यात् तमूचुस्ताः सर्वाः कुत आगमनं तव ।
दृष्ट्वा ते वदनं चेतो विह्वलं नोऽभिजायते ॥ ३४ ॥
विश्रान्तं कुरु चेतो नः स्वाङ्गसङ्गान्नृषूत्तम ।
॥ देव उवाच ॥
अहं शिवसुतो नाम्ना मयूरेश इति स्फुटम् ॥ ३५ ॥
विख्यातो मुनिपुत्रैस्तु मज्जितो बलवत्तरैः ।
दृष्टवान् पादकमलं भवतीनां प्रसङ्गतः ॥ ३६ ॥
॥ ता ऊचुः ॥
अस्मद्गृहे क्षणं स्थित्वा विश्रामं कर्तुमर्हसि ।
॥ देव उवाच ॥
पार्वती मद्वियोगेन परितप्येद् भृशं यतः ॥ ३७ ॥
अतो नायामि वः स्थानं गच्छन्तु नागकन्यकाः ।
॥ क उवाच ॥
एवं वदति तस्मिंस्तु धृत्वा निन्युर्गृहं तु ताः ॥ ३८ ॥
तमदृष्ट्वा पुनः शोकं व्यधुर्मुनिसुतास्तदा ।
॥ बाला ऊचुः ॥
कथं कठिनतां यातो दयालुः स गुणेश्वरः ॥ ३९ ॥
अमृतस्राविकिरणो न चन्द्र उष्णतां व्रजेत् ।
न पिता त्यजते बालानपराधायुते सति ॥ ४० ॥
क्व गतोऽसि विना त्वां हि गमिष्यन्ति हि नोऽसवः ।
॥ क उवाच ॥
केचिन्निपतिता भूमौ केचिद्भालं निजघ्निरे ॥ ४१ ॥
केचिद् ययुः स्वाश्रमं ते पथि तस्य पदाम्बुजे ।
दृष्ट्वा नेमू रुदन्तस्ते ददृशुस्ते भगासुरम् ॥ ४२ ॥
मूर्धजाघाततो यस्य भानि भूमौ निपेतिरे ।
शतयोजनपादाब्जो भूमावास्यं प्रसार्य सः ॥ ४३ ॥
तेषां मार्गे प्रसुष्वाप ततस्ते शिशवो ययुः ।
ध्यायन्तस्तं मयूरेशं शोचन्तः पथि विह्वलाः ॥ ४४ ॥
उदरे तस्य ते याता आपगा जलधीनिव ।
भ्रान्ताः परस्परं चक्रुर्वार्ता नानाविधास्ततः ॥ ४५ ॥
मयूरेशो गतः क्वापि वयं कुत्र व्रजामहे ।
न जानीमो दिशं सर्वे नो दृश्यन्ते गृहाणि च ॥ ४६ ॥
इन्द्रियाणामधिपतिर्मनो नीतं तु तेन नः ।
विना नो मनसा ज्ञानं कथमुत्पत्स्यतेऽर्भकाः ॥ ४७ ॥
क्व मातरो भ्रातरो वा पितरः क्व गुणेश्वरः ।
एवं वदत्सु बालेषु मयूरेशोऽखिलार्थकृत् ॥ ४८ ॥
आविरासीत् पुरस्तेषां चतुरायुधभूषितः ।
॥ गुणेश उवाच ॥
मा शोचन्तु भवद्दुःखं ज्ञात्वाऽहं शीघ्रमागतः ॥ ४९ ॥
भगासुरोदरगता नात्मानं विदुरर्भकाः ।
॥ क उवाच ॥
निद्रया मोहयामास मुनिपुत्रान् गुणेश्वरः ॥ ५० ॥
दैत्यदेहान्तरगतो ववृधे वामनौ यथा ।
विपाटय देहं तस्याशु शकले द्वे व्यधाद् विभुः ॥ ५१ ॥
ततोऽस्तमित आदित्ये नागतेष्वर्भकेषु च ।
मातरः पितरश्चैव चिन्तामापुः शुचान्विताः ॥ ५२ ॥
ऊचुः परस्परं ते तु शिवापुत्रो महाबलः ।
बालान् नीत्वा गतः कुत्र मृतो वा शिशुभिः सह ॥ ५३ ॥
जीवँश्चेदागतः स स्यात् सायंकाले बुभुक्षितः ।
केचित् प्राणान् विना तैस्तु तत्यजुर्मातरोऽपि च ॥ ५४ ॥
केचिदूचुरुमायै तद् वृत्तं सर्वं निवेद्य ताम् ।
केचित् तेषु वनं याता बभ्रमुर्वनपर्वतान् ॥ ५५ ॥
नापुस्तं च स्वकान् बालान् खिन्नाः प्रापुर्गृहान् पुनः ।
नानाकोलाहलं चक्रुर्जनन्यः पितृसोदराः ॥ ५६ ॥
तेषामाक्रन्दितं श्रुत्वा कृपालुः स मयूरराट् ।
तत्तद्रूपं स्वमात्मानं तत्तद्भूषासमन्वितम् ॥ ५७ ॥
तत्तद्वासः परीधानं तत्तच्छीलगुणान्वितम् ।
तत्तदङ्गं चकाराशु विवेशासौ गृहे ततः ॥ ५८ ॥
कृत्वा तत्तद्वयोवेषं तत्तन्मानयुतं शुभम् ॥
जनन्यास्ताः समुस्थाय बालानादाय सत्वराः ॥ ५९ ॥
स्तनपानं ददुः प्रीत्या परमानन्दनिर्भराः ॥
ततो ददृशिरे बालाः पितृभिर्मातृभिस्तदा ॥ ६० ॥
ता ऊचुः क्व स्थिता रोषादुषःकाले गताः कुतः ।
न स्नानं न च भुक्तं वा न चान्यद् वापि भक्षितम् ॥ ६१ ॥
मयूरेश्वरसङ्गेन नेदानीं गन्तुमर्हथ ।
॥ क उवाच ॥
एवं शिक्षाप्य तान् बालानालिङ्ग्य बुभुजुः सुखम् ॥ ६२ ॥
शिवापि पुरतोऽपश्यन्मयूरेशं समागतम् ।
आलिङ्ग्य परिपप्रच्छ किं भुक्तं वनगोचरे ॥ ६३ ॥
त्वद्वियोगजदुःखेन मया किञ्चिन्न भक्षितम् ।
स्तनौ पिब पयोवृद्धौ भोजनं च समाचर ।
ततः सर्वं चकारासौ मातृवाक्यं गुणेश्वरः ॥ ६४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे मयूरेशपातालप्रयाणं नाम
नवनवतिमोऽध्यायः ॥ ९९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें