श्रीगणेशपुराणे क्रीडाखण्डे त्रिनवतितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे त्रिनवतितमोऽध्यायः

चञ्चलवध
॥ क उवाच ॥

ततस्तु पञ्चमे वर्षे प्रवृत्ते मुनिबालकाः ।
उषःकाले गुणेशस्य समागम्य गृहं प्रति ॥ १ ॥
प्रातःकाले कथं शेषे प्रोत्तिष्ठोत्तिष्ठ हे सखे ।
उत्थापय निजं बालमित्यूचुस्ते शिवामपि ॥ २ ॥


तानुवाच शिवा वाक्यं निद्रा वो न समागता ।
क्रीडायामेव सक्तानां चपलानां दिवानिशम् ॥ ३ ॥
कथं याहीत्यनुदिते निर्लज्जा मूढभावतः ।
॥ त ऊचुः ॥
मातर्न तव वाक्येन कोपो नो जायते क्वचित् ॥ ४ ॥
वयं ते बालकाः किं न त्वं वा नो जननी न किम् ।
अस्मिंस्तव शिशौ सक्तं सर्वेषां मानसं सदा ॥ ५ ॥
एनं पश्माम पुरतो दिवानक्तं निरन्तरम् ।
विनैनं च समाधानं न नश्चेतसि जायते ॥ ६ ॥
श्रुत्वा वाक्यानि तेषां तु प्रोदतिष्ठत् तदा शिशुः ।
लिलिङ्ग बहिरागत्य गुणेशस्तैः परस्परम् ॥ ७ ॥
ययुर्बहिर्मुदा युक्ता धृत्वा हस्तान् परस्परम् ।
द्विभागीभूय चिक्रीडुर्नानायुद्धविचेष्टितैः ॥ ८ ॥
मस्तकं मस्तकेनैव वक्षसा वक्ष एव च ।
बाहुभ्यां चैव बाहू च निजघ्नुस्ते परस्परम् ॥ ९ ॥
जलेन रजसा चैव कन्दुकैर्मुष्टिभिस्तथा ।
कर्दमैर्गोमयैः केचिदान्दोलनविकर्षणैः ॥ १० ॥
कोलाहलं प्रकुर्वन्तः शृङ्गवंशरवानपि ।
दैत्यभूता जयं प्रापुर्देवभूताः पराजयम् ॥ ११ ॥
एवं युध्यत्सु तेष्येवं खड्गनामा महासुरः ।
आययौ वृषरूपेण विशालेन नभस्पृशा ॥ १२ ॥
पुच्छवातेन महता पतिता वृक्षसञ्चयाः ।
शूलदन्तो ललज्जिह्वः पादेनामर्दयन्दिशः ॥ १३ ॥
स महान्तं रवं कृत्वा तमधावद्गुणेश्वरम् ।
प्रतिशब्देन सहसा नादयन्विदिशो दिशः ॥ १४ ॥
तं दृष्ट्वा विद्रुताः सर्वे मुनिपुत्रा भयातुराः ।
धाव धावेति तं बालं चुक्रुशः केचिदर्भकाः ॥ १५ ॥
तेषामाक्रन्दितं श्रुत्वा सहसा स गुणेश्वरः ।
कृत्वा महत्तरं रूपमुड्डीय तं जघान ह ॥ १६ ॥
मुष्टिघातेन शिरसि वज्रणेव महाचलम् ।
स भिन्नहृदयो दुष्टो वमन्रक्तं मुखाद्बहु ॥ १७ ॥
कृत्वा घोरं महाशब्दं पतितो धरणीतले ।
विचाल्य चरणान् ग्रीवामाक्रन्द्य च पुनः पुनः ॥ १८ ॥
स्वीयं देहं समास्थाय तत्याज जीवितं क्षणात् ।
दशाष्टयोजनायामः पातयन् वृक्षसञ्चयान् ॥ १९ ॥
उद्द्धूल रजो भौमं गगनं प्रावृतं क्षणात् ।
तद्देहपातात्पतिता जन्तवोऽथ पतत्रिणः ॥ २० ॥
तं तथा पतितं दृष्ट्वा सर्व एव कुमारकाः ।
साधु साधु शिवापुत्र महादैत्यो निपातितः ॥ २१ ॥
दृष्ट्वा महान्तं तं दैत्यं वयं भीत्या पलायिताः ।
कथं त्वया महादैत्यः पौरुषेण कनीयसा ॥ २२ ॥
हतोऽयं विस्मितः सर्वे पुनस्तं समुपागताः ।
इत्युक्त्वा ते पुनः क्रीडां चक्रुः सर्वे यथा पुरा ॥ २३ ॥
कर्षयन्तोऽङ्घ्रिकमले धृत्वा केचित्परस्परम् ।
ततस्तस्य सखा प्रायान्मृतप्रतिकृतीच्छया ॥ २४ ॥
छायारूपं समास्थाय महाबलपराक्रमः ।
पादाघातेन तस्याशु चकम्पे शेषविग्रहः ॥ २५ ॥
व्योमस्पृङ्मस्तको दुष्टो गुणेशपृष्ठतो ययौ ।
छायां तदीयामाविश्य पातयामास तं तदा ॥ २६ ॥
इतरेषामदृश्योऽसौ मायावी बलवत्तरः ।
यथा यथा नृत्यते स तथा दैत्योऽपि नृत्यति ॥ २७ ॥
तं पतन्तं गुणेशं ते निरीक्ष्य मुनिबालकाः ।
ऊचुस्तं धाविताः केचित् केचिच्च दुःखिता भृशम् ॥ २८ ॥
कथंवा पतसे नाथ क्व सामर्थ्यं गतं तव ।
वारं वारं स्खलसि किं प्रियेषु च सखिष्वपि ॥ २९ ॥
ततो बालो ददर्शाशु दशदिक्षु समन्ततः ।
सामर्थ्यादग्रतो यातुमियेष नाशकच्च सः ॥ ३० ॥
पुनश्च प्रणिधानेन समन्तादवलोकयन् ।
छायाप्रविष्टं तं दैत्यं ज्ञातवान् स गुणेश्वरः ॥ ३१ ॥
गण्डशैलं समादाय प्राक्षिपच्चोदरेऽस्य ह ।
उपरिष्टान्ननर्त्तासौ स मृतश्चूर्णतां गतः ॥ ३२ ॥
अन्तकाले महद्रूपं समास्थाय निजं खलः ।
चूर्णयामास वृक्षान् सपर्वतान्प्राणिसञ्चयान् ॥ ३३ ॥
तन्मेदसा च रक्तेन धरणी च गुणेश्वरः ।
रक्ततां समनुप्राप्तौ वसन्ते किंशुकाविव ॥ ३४ ॥
एवं तं विनिहत्त्याशु गुणेशो लीलयाऽरमत् ।
तत एको वृषस्कन्धः सूकरास्यो गजोदरः ॥ ३५ ॥
गण्डशैला रज इव श्वासासस्य चलन्ति च ।
चञ्चलाख्यो महादैत्यो बालरूपधरोऽविशत् ॥ ३६ ॥
तेषु नानाविधाः क्रीडा दर्शयामास लाघवात् ।
महाबलो महामायः पोधयामास कांश्चन ॥ ३७ ॥
चरणं कस्यचिद् धृत्वा चकर्ष मुनिबालकम् ॥
उभौ करौ विधृत्वैव कस्यचिन्मस्तकेऽहनत् ॥ ३८ ॥
यस्य नृत्ये धरा सर्वा कम्पते स्म स पर्वता ॥
ते धर्मे मृत्तिकां सर्वे चर्चयन्ति स्वविग्रहे ॥ ३९ ॥
सोऽपि चर्चयते स्वाङ्गं चन्दनेनेव भाग्यवान् ।
ततस्ते कन्दुकं कृत्वा तेन क्रीडामथारभन् ॥ ४० ॥
कन्दुको व्योममार्गस्थो बालत्यक्तोऽस्पृशत्करम् ।
कृत्वाश्ववच्च तं बालमारोहेत् स सकन्दुकः ॥ ४१ ॥
आरोहको बलाद्भूमौ निक्षिपेत्तं च कन्दुकम् ।
अपरो धारयेदूर्ध्वमागतं सोऽपि वा पुनः ॥ ४२ ॥
यद्धस्ते कन्दुकः सोऽथ बालमारुह्य तं त्यजेत ।
भूमौ निपतितं बालमादाय तेन ताडयेत् ॥ ४३ ॥
तेषु मध्ये पलायत्सु यस्य लग्नः स कन्दुकः ।
तेनापि व्योममार्गस्थः कार्यो यस्य करं स्पृशेत् ॥ ४४ ॥
हस्ते नायाति चेत् सोऽपि व्योमगं तं तु कारयेत् ।
येन हस्ते धृतः सोऽमुमारुह्य् पूर्ववत् क्षिपेत् ॥ ४५ ॥
कदाचित् कन्दुकः क्षिप्तो गुणेशेन च व्योमनि ।
चञ्चलेन धृतो हस्ते तमारूढस्तदाऽसुरः ॥ ४६ ॥
भारेणाक्रम्य तं देवमुवाच दुष्टदानवः ।
सहस्व भारं मे दुष्ट वल्गसेऽर्भकसञ्चये ॥ ४७ ॥
त्यक्तं त्यक्तं कन्दुकं स गृह्णाति स्वकरे पुनः ।
मुहुर्तद्वयमेवं हि चिक्रीडे दुष्टदानवः ॥ ४८ ॥
प्राहसन्मुनिबालास्ते गुणेशं तं तथागतम् ।
ततो गुणेशो दैत्यं तमारूढो दृढविक्रमः ॥ ४९ ॥
चञ्चलश्चञ्चलो जातो नेतुं दूरे मुदान्वितः ।
व्योममार्गेण सहसा बाला भूमिगता ययुः ॥ ५० ॥
विमानवत्पक्षिवच्च स जगाम त्वरान्वितः ।
ततो निवृत्तास्ते बालाः शोचमाना ययुर्गृहान् ॥ ५१ ॥
स्थितास्तत्रैव केचिच्च प्रतीक्षन्तो गुणेश्वरम् ।
ततो गुणेशस्तं ज्ञात्वा मनसा दुष्टदानवम् ॥ ५२ ॥
हिमवत्सदृशं भारं चकार सहसा विभुः ।
भारेण पतितो दैत्यः प्रावदत् तं गुणेश्वरम् ॥ ५३ ॥
उत्तरस्व महाभारं गमिष्यन्ति ममासवः ।
दयां कुरुष्व दीने त्वं प्रपन्ने शरणं तव ॥ ५४ ॥
एवं वदन् मुमूर्च्छाऽसौ ततो बालो दधार तम् ।
भ्रामयामास बहुशो गरुडो भुजगं यथा ।
तत्याज दूरदेशे तं चञ्चलं दुष्टदानवम् ॥ ५५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे खङ्ग-चञ्चलवधोनाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-93

कोई टिप्पणी नहीं:

123