श्रीगणेशपुराणे क्रीडाखण्डे अष्टनवतितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे अष्टनवतितमोऽध्यायः

शिखण्डिवरप्रदानं
॥ क उवाच ॥

एवं गतं सप्तमेऽब्दे त्वष्टमे स गुणेश्वरः ।
उषःस्नात्वा स्थितो ब्रह्म जपन् वेदचतुष्टयम् ॥ १ ॥
कस्तूरीतिलको नानाभूषणैः सुविराजितः ।
दिव्याम्बरधरो दिव्यगन्धमालाविभूषितः ॥ २ ॥


ततस्ते तापससुता आगतास्तं गुणेश्वरम् ।
तद्दीप्त्या भासिताः सर्वेऽरुणदीप्त्या यथा घनाः ॥ ३ ॥
तान्दृष्ट्वाऽध्ययने बुद्धिर्जाता तस्यार्भकैः सह ।
सर्वेषां मस्तके हस्तं न्यधात् तत्समये विभुः ॥ ४ ॥
त्रिचतुः पञ्चवर्षाणां वेदस्फूर्तिस्ततोऽभवत् ।
विना तु चेतनां शब्दो नभोवाण्या हि श्रूयते ॥ ५ ॥
चतुर्णामपि वेदानां सर्वे पारायणं व्यधुः ।
नाभक्षयन् पशुगणा ग्रासं मुखगतं तदा ॥ ६ ॥
श्रवणे तत्परा जाताः शब्दानां वेदचारिणाम् ।
समाप्ते वेदद्वितये सामगानमथारभन् ॥ ७ ॥
हरिणाः सिंहशार्दूला भुजगाः पक्षिजातयः ।
गानस्य श्रवणे सक्ता अश्रुपातान् प्रसुस्रुवुः ॥ ८ ॥
अष्टाशीतिसहस्राणि मुनयः श्रवणे रताः ।
आनन्दहृदसम्मग्नाः शेरते स्म यथा निशि ॥ ९ ॥
प्रमथाद्या गणाः सर्वे शिवाद्या हर्ष निर्भराः ।
अस्रवच्चामृतं चन्द्रः शिवभालस्थितस्तदा ॥ १० ॥
तत्संसर्गाद्रुण्डमालारुण्डानि पुरूषा बभुः ।
लज्जिताः किन्नराः सर्वे गन्धर्वाश्चास्य गानतः ॥ ११ ॥
स्मरतप्ताः स्त्रियः शान्ता आरार्तिक्यं व्यधुस्तदा ।
तत्राजगाम सहसा दैत्यश्चाभिनवाकृतिः ॥ १२ ॥
यस्य शब्देन दीर्णास्ता मन्दराद्रिगुहास्तदा ।
हलदन्तो वापिनासस्तडागनयनोऽरिहा ॥ १३ ॥
स तु श्वापदरूपेण बभ्राम तत्र तत्र ह ।
पञ्चनेत्रश्चतुःशृङ्गो वसुपादश्चतुः श्रुतिः ॥ १४ ॥
त्रिमुखश्च द्विपुच्छोऽसौ जहासोच्चैर्निरीक्ष्य तम् ।
पश्यन्तु कौतुकं बालाः प्रोवाचेति शिशुन् विभुः ॥ १५ ॥
अत्यद्भुतं दृष्टमिदमित्यूचुस्ते गुणेश्वरम् ।
ततो दैत्यो ननर्तोच्चैरुड्डीय न्यपतद् भुवि ॥ १६ ॥
क्षणं लीनः क्षणं तिष्ठन् दृश्यादृश्यस्वरूपधृक् ।
ध्रीयता ध्रीयतामेष इत्युवाच शिशून्विभुः ॥ १७ ॥
इत्युक्त्वा दैत्यमगमद्वेगेन च गुणेश्वरः ।
पलायति महादैत्यो याति पृष्ठे स बालकैः ॥ १८ ॥
महारण्यं गताः सर्वे यत्र वायुर्न सर्पति ।
गर्जन्तिसिंहशार्दूला गजसूकरवानराः ॥ १९ ॥
तं धर्तुं तत्र यातोऽसावुड्डीय दैत्यपुङ्गवः ।
क्वापि यातो दूरदेशं ततः खिन्नो गजाननः ॥ २० ॥
क्रोधसंरक्तनयनो मुमोच पाशमुल्बणम् ।
चकम्पे धरणी व्योम भ्रमन्मेघमभूत्तदा ॥ २१ ॥
न्यपतन् भानि खात् पृथ्वीं ककुभो व्यनदन्स्वनात् ।
स पाशो दैत्यमाक्रम्य क्षणेनायाद्गुणेश्वरम् ॥ २२ ॥
श्वासरोधात् पपातोर्व्यां लुण्ठन्पादौ भुजौ मुखम् ।
नेत्रद्वारा गताः प्राणाः पश्यत्सु बालकेष्वपि ॥ २३ ॥
पतितो रूपमास्थाय चतुर्विंशतियोजनन् ।
सपाशकण्ठं तं केचिद् विचकर्षुरितस्ततः ॥ २४ ॥
गुदे काष्ठं मुखे धूलिं प्राक्षिपन्चपरेऽर्भकाः ।
केचिन्मूत्रं पुरीषं च चक्रुस्तन्मस्तकेऽर्भकाः ॥ २५ ॥
गुणेशनिकटे याताः सर्वे बालाः क्षुधातुराः ।
रसालानि बभक्षुस्ते केच्चित्तन्मस्तके गताः ॥ २६ ॥
आजघ्नुः फलघातेन भूमिस्था उपरि स्थितान् ।
पतितान्यपरे खादन् ददृशुर्विनतां ततः ॥ २७ ॥
अण्डमाच्छाद्य तिष्ठन्ती साऽधावद् बालकान् प्रति ।
पलायमानाँस्तान् दृष्ट्वा विनता पृष्ठतो ययौ ॥ २८ ॥
निघ्नती पक्षवातेन श्वापदानि द्रुमानपि ।
गुणेशस्तत्समालोक्य लीनो वृक्षस्य कोटरे ॥ २९ ॥
ददर्शाण्डं श्वेततरं मण्डलं शशिनो यथा ।
दधार हस्ते सहसा गुणेशो बलवत्तरम् ॥ ३० ॥
अस्फुटत् तत्र ददृशे पतत्त्री नीलकण्ठवान् ।
दीर्घपक्षो विशालाक्षो वमन् ज्वालाकणान्मुखात् ॥ ३१ ॥
व्याधूनयदुभौ पक्षौ कम्पयन् जगतीतलम् ।
चेलुवेलामतिक्रम्य समुद्रास्तस्य शब्दतः ॥ ३२ ॥
चचाल मण्डलं भानोरर्भकास्ते पलायिताः ।
पृष्ठतोऽनुययौ सोऽथ पक्षघातेन ताडयन् ॥ ३३ ॥
तद् दृष्ट्वा कदनं तेषां योद्धुकामो गुणेश्वरः ।
जग्राह पक्षे तं क्रूरं ततो युद्धमवर्तत ॥ ३४ ॥
पक्षघातैश्चञ्चुपुटैर्जघान पक्षिपुङ्गवः ।
आरक्तनयनः सोऽपि तं जघ्ने मुष्टिघाततः ॥ ३५ ॥
अतिदार्ढ्यं तस्य दृष्ट्वा चतुर्भिरप्यथायुधैः ।
गुणेशस्तं जघानाशु तानि पेतुर्धरातले ॥ ३६ ॥
उड्डीय स पपालाशु बालानादाय सत्वरः ।
गुणेशस्तान् समुन्मुच्य समारूढोऽण्डजे ततः ॥ ३७ ॥
वशे तमण्डजं कृत्वा चारुरोह गुणेश्वरः ।
ततस्तमाययुर्बाला विनतापि समाययौ ॥ ३८ ॥
तुष्टाव परमात्मानं गुणेशं तं धिया स्वया ।
त्वं सृष्टिकर्ता रजसा ब्रह्मा सत्त्वेन पालकः ॥ ३९ ॥
विष्णुस्त्वमसि तमसा संहरन् शङ्करोऽपि च ।
न देवा नर्षयस्तत्त्वं विदुस्ते सगुणस्य ह ॥ ४० ॥
निर्गुणस्य तु को वेद चराचरगुरोरपि ।
एवं स्तुत्वाऽवदत् सा तं प्रणता भक्तितत्परा ॥ ४१ ॥
कश्यपस्य मुनेर्भार्यां विनतां विद्धि मामिह ।
तस्य पुत्रः शिखण्डी च सेवकस्ते भविष्यति ॥ ४२ ॥
मुनिना पूर्वमुक्तं मे योऽण्डमेतद् भिनत्ति च ।
सोऽस्य स्वामी न सन्देहो मोचयिष्याति ते सुतान् ॥ ४३ ॥
प्रतीक्षन्त्या मया दृष्टं पादपद्मं चिरं तव ।
जटायुः श्येनसम्पाती नीता कद्रूसुतैस्त्रयः ॥ ४४ ॥
तान्मोचय जगन्नाथ शीघ्रं दर्शय मे सुतान् ।
॥ गणेश उवाच ॥
मा चिन्तां कुरु मातस्त्वं दर्शयिष्ये सुताँस्तव ॥ ४५ ॥
॥ क उवाच ॥
एवमुक्त्वा तु विनतां बहुहर्षसमन्वितः ।
शिखिनं च ततः प्राह वरं मत्तो वृणीष्व ह ॥ ४६ ॥
॥ मयूर उवाच ॥
यदि मे त्वं प्रसन्नोऽसि यदि देयो वरो मम ।
तदा मन्नामपूर्वं ते नामाख्यातं भवेद् भुवि ॥ ४७ ॥
एतत्मे देहि सर्वेश तव भक्तिं दृढां तथा ।
॥ देव उवाच ॥
साधु साधु त्वया प्रोक्तं निर्लोभेनान्तरात्मना ॥ ४८ ॥
त्वन्नामपूर्वं मन्नाम मयूरेश्वर इत्यथ ।
विख्यातं त्रिषु लोकेषु भक्तिर्मयि दृढा भवेत् ॥ ४९ ॥
॥ क उवाच ॥
एवमाकर्ण्य सा सर्वं विनता स्वाश्रमं ययौ ।
शिखण्डिनं समारूढो मयूरेशो निजं गृहम् ॥ ५० ॥
मयूरेश मयूरेश मयूरेशेति चासकृत् ।
गृह्णद्भिर्मुनिबालैस्तैरन्वितः शोभयन् दिशः ॥ ५१ ॥
मातरं प्रणिपत्याह वृत्तान्तं सर्वमञ्जसा ।
वर्णयन्तो मयूरेशं मुनिपुत्रा गृहान् ययुः ।
इत्थं मयूरेशनाम प्राप चासौ गुणेश्वरः ॥ ५२ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-98

कोई टिप्पणी नहीं:

123