श्रीगणेशपुराणे क्रीडाखण्डे चतुर्नवतितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे चतुर्नवतितमोऽध्यायः

गौतमभोजनहरणं
॥ क उवाच ॥

ततो मुनिसुता याताः प्रतीक्षन्तः स्थिताश्च ये ।
तेषां जयरवैर्व्योम गर्जितं च दिगन्तरम् ॥ १ ॥
चिक्रीडुस्ते पुनस्तत्र नानानृत्यैश्च गायनैः ।
एवं रमत्सु बालेषु सार्द्धयामे दिवाकरे ॥ २ ॥


पितरौ तानदृष्ट्वैव ग्राममध्ये क्वचिद्गृहे ।
प्रत्येकं यष्टिमादाय ययुः सर्वे शिशून्प्रति ॥ ३ ॥
रमन्तो विविधाः क्रीडा मध्ये कृत्वा गुणेश्वरम् ।
नृत्यन्तं नर्तयन्तं च तं च ते निरभर्त्सयन् ॥ ४ ॥
॥ पितर ऊचुः ॥
त्वया विना नो बालाश्च नाचरन् स्नानभोजने ।
आचाराध्ययने चापि ब्राह्मण्यं विनयं तथा ॥ ५ ॥
ततः परस्परं प्राहुर्गतक्रोधा निरीक्ष्य तम् ।
एतस्य ताडने बुद्धिर्गतैनं वीक्ष्य नः कुतः ॥ ६ ॥
कथयामो यदि शिवौ तावस्य किं करिष्यतः ।
अनेके निहता दैत्या बालेनैव महाबलाः ॥ ७ ॥
वयं देशान्तरं यामो भीत्या तव गुणेश्वर ।
॥ क उवाच ॥
एवं वदत्सु लोकेषु पिदधे स गुणेश्वरः ।
आविरासीद् दूरदेशे ततो बाला व्यलोकयन् ॥ ८ ॥
धावयित्वा पितॄंस्त्यक्त्वा गुणेशं ते ययुः पुनः ।
क्रीडन्तस्ते ययुः शीघ्रं गौतमाश्रममु त्तमम् ॥ ९ ॥
ध्यानस्थं तं मुनिं वीक्ष्य पचन्ती तत्स्त्रियं च ते ।
गुणेशोऽगान् मध्यदेशं जग्राहौदनपात्रकम् ॥ १० ॥
ददौ तेभ्यो विभज्यान्नं प्रार्थयामास सादरम् ॥ ११ ॥
मत्सङ्गेन चिरङ्कालं यूयं सर्वे बुभुक्षिताः ।
सावकाशं प्रभुञ्जध्वं ततः क्रीडामहे पुनः ॥ १२ ॥
अहल्या तं चुकोपाशु ममान्नं स्पृष्टवान् कथम् ।
न कृतो वैश्वदेवो वा नैवेद्यं चपलार्भकाः ॥ १३ ॥
विसृज्य ध्यानं किं कुर्याद् गौतमो मुनिसत्तमः ।
उत्थापयामास तदा ध्यानस्थं मुनिसत्तमम् ॥ १४ ॥
स उत्थाय ददर्शाऽथ गौतमः सकलार्भकान् ।
जक्षतोऽन्नं क्षुधा युक्तान् बभाषे च गुणेश्वरम् ॥ १५ ॥
॥ गौतम उवाच ॥
महतोः पुत्रतां प्राप्य कथमन्यायकृद् भवान् ।
अत्यद्भुतानि कर्माणि श्रुत्वा ते त्वां वयं पुरा ॥ १६ ॥
परात्परतरं देवं परब्रह्मस्वरूपिणम् ।
मन्यामहे बालभावं कुरुषे त्वं गुणेश्वर ॥ १७ ॥
॥ क उवाच ॥
धृत्वा करं स च मुनिः पावत्या गृहमागमत् ।
करे धृत्वाऽन्नसहितं तत्पात्रं निजमन्दिरात् ॥ १८ ॥
उवाच मातस्ते बालो नित्यमन्यायकृन्मम ।
अद्य त्वां कथितुं यातः किं कार्यं गौर्यतः परम् ॥ १९ ॥
इतो वा गमनं दूरे मन्यसे यदि तद्वद ।
॥ क उवाच ॥
ततो रुषो समायुक्ता श्रुत्वा वाक्यं मुनीरितम् ॥ २० ॥
ताडयामास यष्ट्या तं वमन्ती नेत्रतोऽनलम् ।
उवाच च मुनिं गौरी प्रणता क्रोधसंयुता ॥ २१ ॥
ममापि च मुने त्रासो जायतो जन्मतोऽस्य ह ।
द्रष्टव्या राक्षसकृताः कियन्तो विघ्नसञ्चयाः ॥ २२ ॥
स्त्रियः प्रवक्तुं कुत्रापि नायान्ति मुनिपुङ्गवाः ।
अयं तु सर्वतो दुष्टो मुनिपुत्रविभेदकः ॥ २३ ॥
ममात्मज इति जनो नैनं शापं प्रयच्छति ।
बद्ध्वैनं हस्तपादेषु तत्समक्षं शिवा सुतम् ॥ २४ ॥
गृहमध्ये तु संस्थाप्य तद्गृहं पिदधे दृढम् ।
मैवं मैवं वदन्यातो गौतमः स्वाश्रमं प्रति ॥ २५ ॥
ततस्ते बालकाः सर्वे शोचन्तस्तं गुणेश्वरम् ।
कथं नो दर्शनं चास्य भविष्यति कदा नु वा ॥ २६ ॥
द्वार दत्त्वा दृढं मध्ये स्थापितो गिरिकन्यया ।
एवं तेषु वदत्सेव तन्मध्ये स ययौ क्षणात् ॥ २७ ॥
जनन्याः कटिदेशेऽपि दृश्यते तद्गृहेऽपि च ।
ऊचुस्तां गौरि पुत्रस्ते निःसृतो गृहमध्यतः ॥ २८ ॥
पश्यति स्म गेहमध्ये बद्धमेव गुणेश्वरम् ।
बहिस्तान मुनिपुत्रान् सा तत्स्वरूपानपश्यत ॥ २९ ॥
यं कञ्चित्स्तनपानाय जुहाव विह्वला शिवा ।
निषिद्धा सा सुतैस्तैस्तु गृहमध्ये शिवे स्थितः ॥ ३० ॥
उद्घाट्य द्वारं सा बालं मुक्त्वा स्तन्यं ददौ मुदा ।
गौतमः स्वाश्रमं यातो देवतार्चनमारभत् ॥ ३१ ॥
गुणेशरूपान्सोऽपश्यत् तृप्तान्देवांस्तथाऽखिलान् ।
पुरः प्रकीर्णमन्नं च ततो विस्मितमानसः ॥ ३२ ॥
चिन्तयामास मनसि दुर्बुद्धिस्तु कृता मया ।
उमायै कथितं सर्वमन्नपात्रं प्रदर्शितम् ॥ ३३ ॥
तया स ताडितो बद्धोऽव्यक्तो व्यक्तस्य कारणम् ।
परात्परतरो देवो यस्मिंस्तृप्ते महाफलम् ॥ ३४ ॥
आगत्य बुभुजे बालैः सार्द्धन्तु मुनिसम्भवैः ॥
मोहितो मायया चास्यऽपूर्वज्ञासिषं न तम् ॥ ३५ ॥
॥ क उवाच ॥
अहल्यापि पुनः पाकं चकाराद्भुतमानसा ।
सोऽपि ध्यानस्थितो भूत्वा नित्यकर्म समापयत् ॥ ३६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गौतमभोजनहरणं नाम चतुर्नवतितमोऽध्यायः ॥ ९४ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-94

कोई टिप्पणी नहीं:

123