श्रीगणेशपुराणे क्रीडाखण्डे सप्तनवतितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे सप्तनवतितमोऽध्यायः

कद्रूविनिताकलहप्रसङ्गे कश्यपद्वारा विनतायां गर्भाधान
॥ मुनिरुवाच ॥

त्वया विनायको देवो मयूरेश्वरसंज्ञितः ।
ततो गुणेशनाम्ना मे महिमाऽयं निरूपितः ॥ १ ॥
स कथं प्राप तन्नाम किं च तेन कृतं महत् ।
कर्म तन्मे समाचक्ष्व साम्प्रतं विश्वसृग् विभो ॥ २ ॥


॥ क उवाच ॥
यथा तेन कृतं कर्म मयूरेश्वरनाम च ।
प्रापद्विनायको देवो निरूपिष्येऽखिलं तव ॥ ३ ॥
पातालभवने शेषः सभामध्यगतोऽभवत् ।
वासुकिप्रमुखैः सर्वेः समन्तात्परिवारितः ॥ ४ ॥
तत्तः कद्रूः समायाता तेजोरूपा सुरूपिणी ।
मुक्तामणियुतं चारु बिभ्रती कञ्चुकं शुभम् ॥ ५ ॥
बिम्बोष्ठी चन्द्रवदना दिव्यभूषाम्बरावृता ।
तां दृष्ट्वा जननीं शेषो वासुकिप्रमुखाश्च ये ॥ ६ ॥
नेमुर्मातर्बहुदिनैरभवद् दर्शनं तव ।
काङ्क्षन्ते दर्शनं सर्वे त्वं तु निष्ठुरतां गता ॥ ७ ॥
इत्यूचुस्तां करे धृत्वाऽस्थापयन् पैत्र्य आसने ।
पुपूजुः परया भक्त्या ततः शेषोऽब्रवीत्तु ताम् ॥ ८ ॥
॥ शेष उवाच ॥
त्वं मातः कश्यपस्यापि पत्नी चारुतरा सती ।
सर्वविद्यानिधानस्य सृष्टिस्थित्यन्तकारिणः ॥ ९ ॥
ब्रह्मादयो देवगणास्तत्त्वं यस्य न वै विदुः ।
त्वं चापि सहसा शापानुग्रहे च क्षमा ह्यसि ॥ १० ॥
तव पुत्रा वयं मातस्त्रैलोक्यग्राससाहसाः ।
सा कथं त्वमिहायाता किमुद्दिश्य प्रयोजनम् ॥ ११ ॥
॥ कद्रूरुवाच ॥
विना प्रयोजनं पुत्र कोऽपि नायाति किञ्चन ।
तच्च ते कथयिष्येऽहं शृणु सादरमात्मज ॥ १२ ॥
विनता मे सपत्नी या जननी पुत्र ! पक्षिणाम् ।
तस्या दर्शनकाङ्क्षा मे कदाचित्सम्बभूव ह ॥ १३ ॥
अनादृता तयाऽहन्तु तद्गृहं सहसा गता ।
नासनं न च सत्कारं स्वागतं न च साऽकरोत् ॥ १४ ॥
पूर्ववैरं स्मरन्ती सा जटायुं पुत्रमादिशत् ।
तेन चाकर्षिता वेणी विवस्त्राऽहं कृता क्षणात् ॥ १५ ॥
मामुवाच महादुष्टे ! नावलोक्यं मुखं तव ।
मम मातुस्तु दासी त्वं पूर्वमासीः कृतं त्वया ॥ १६ ॥
तदा न करुणालेशो धृतो मनसि कर्हिचित् ।
इतो गच्छ न चेत् प्राणान् गृहीष्यामि महाखले !॥ १७ ॥
श्रुत्वा तदीयवाक्यानि दुःखिताऽहं फणीश्वर ।
आक्रन्दं परमं प्राप्ता प्राणत्यागे तु निश्चिता ॥ १८ ॥
आगताऽहं ततो युष्मद्दर्शनार्थं सुदुःखिताः ।
यदि वो मयि भक्तिः स्यात् साहाय्यं क्रियतां मम ॥ १९ ॥
सत्पुत्रा यदि मान्याऽहं तदा तस्या विनाशनम् ।
कर्तव्यं च सपत्न्या मे ततो हृदि सुखं भवेत् ॥ २० ॥
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं शेषो रोषसमन्वितः ।
जज्वालसहसा वह्निर्घृतेनेव प्रदीपितः ॥ २१ ॥
मम मातुः कृता पीडा विनतातनयैर्यदि ।
तदाऽहं तत्प्रतीकारं करिष्यामि न संशयः ॥ २२ ॥
एवमुक्त्वा स शेषोऽथ वासुकिप्रमुखैर्युतः ।
तत्र गन्तुं मनश्चक्रे यत्र सा विनताऽभवत् ॥ २३ ॥
॥ वासुकिरुवाच ॥
अहमेव गमिष्यामि कोटिलागैर्युतोऽनघ ।
विनतामानयिष्यामि तिष्ठ त्वं भुजगाधिप ॥ २४ ॥
॥ क उवाच ॥
एवमुक्त्वा ययौ शीघ्रं वासुकिर्विनताश्रमम् ।
असङ्ख्यानुरगान् दृष्ट्वा बिभाय विनता तदा ॥ २५ ॥
तदैव वेष्टिता सर्पैः क्रूरैर्दुष्टस्वभावकैः ।
निन्युस्ते शेषनिकटं सा च तानब्रवीत् तदा ॥ २६ ॥
॥ विनतोवाच ॥
किमर्थं बन्धनं कृत्वा मम नेतुं समुद्यताः ।
अपराधविहिनायाः पापिष्ठा गदताशु मे ॥ २७ ॥
मम पुत्रस्यानुभवो ज्ञातोऽस्ति सर्वपन्नगैः ।
अतो मुञ्चन्तु मां नो चेत्स संहारं करिष्यति ॥ २८ ॥
॥ क उवाच ॥
धार्ष्टयं तेषां समीक्ष्यैव सस्मार गरुडं तु सा ।
सोऽपि ज्ञात्वा स्मृतिं तस्या आगतः पक्षिभिः सह ॥ २९ ॥
श्येनः सम्पातिरथ च जटायुः पक्षिपुङ्गवः ।
येषां पक्षसमीरेण च कम्पे भुवनत्रयम् ॥ ३० ॥
भुजगास्ते तु सर्वेऽपि वमद्विषकणाभवन् (बभुः) ।
युद्धमासीन्महाघोरं भुजगेन्द्रपतत्त्रिणाम् ॥ ३१ ॥
ततो जटायुं सम्पातिं श्येनं बद्ध्वानयंस्तु ते ।
मातुः स्मृते तु सम्प्राप्तो गरुडः पक्षघाततः ॥ ३२ ॥
कम्पयञ्जगतीं सर्वा पातयन् द्रुमपर्वतान् ।
तद्गन्धं भुजगा घ्रात्वा पलायनपरा ययुः ॥ ३३ ॥
पक्षवातेन गगने बभ्रमुर्भुजगाः परे ।
मुक्ता तु विनता बन्धात् स्वस्थानं गन्तुमुद्यता ॥ ३४ ॥
तां दृष्ट्वा वासुकिः कुद्धो दहन् व्योम वमन् विषम् ।
पक्षाघातेन गरुडोऽपातयद् भूतले च तम् ॥ ३५ ॥
विनता तु गता वेगात् स्वस्था स्वस्थानमुत्तमम् ।
प्रतापं वासुकेर्दृष्ट्वा गरुडः सूक्ष्मरूपधृक् ॥ ३६ ॥
विनतां रक्षितुं यातो याते तस्मिंश्चुकोप ह ।
वासुकिर्विषमत्यन्तमसृजज्जगतीं दहन् ॥ ३७ ॥
नागलोकं निनायाशु बद्ध्वा तान् विवरेऽक्षिपत् ।
पिधाय द्वारं शिलया ततो मातरमभ्यगात् ॥ ३८ ॥
उदन्तं सर्वमाचख्यौ मात्रे शेषाय चारुधिः ।
शुशोच विनता श्रुत्वा बद्ध्वा नीतान् सुतांस्तु तान् ॥ ३९ ॥
प्रययौ कश्यपं शीघ्रं नमस्कृत्याब्रवीदिदम् ।
विपरीतमिदं जातं प्रत्यक् सूर्योदयो यथा ॥ ४० ॥
गृहे स्थितां मामनयत् सहसा वासुकी रिपुः ।
पृष्ठतोऽनुययौ श्येनो जटायुर्मोचितुं च माम् ॥ ४१ ॥
सम्पातिः सर्पसङ्घांस्ते मारयामासुरोजसा ।
पराजितेषु तेष्वाशु भुजगैबहुभिर्मुने ॥ ४२ ॥
गरुडं चास्मरं तेन जित्वा सर्पगणाँस्तु तान् ।
मोचिता चाणुरूपेण तेनाप्यागमनं कृतम् ॥ ४३ ॥
जटायुस्तेन सम्पातिः श्येनो वासुकिना बलात् ।
नीताः पातालविवरे पिधाय स्थापिता दृढम् ॥ ४४ ॥
गमिष्यन्ति मम प्राणास्तान् विना निश्चितं मुने ।
एतावद्दुःखतप्ताऽहं त्वयि नाथे सति प्रभो ॥ ४५ ॥
॥ क उवाच ॥
इति श्रुत्वा प्रिया वाक्यं प्राह तां कश्यपो मुनिः ।
॥ मुनिरुवाच ॥
मा चिन्तां कुरु भद्रे त्वं व्यतु ते मानसो ज्वरः ॥ ४६ ॥
ऋतुं तेऽहं प्रदास्यामि पुत्रस्तेऽन्यो भविष्यति ।
अभेद्यमण्डं वज्रेण पार्वत्या यदि बालकः ॥ ४७ ॥
क्रीडन् भेत्स्यति पादाभ्यां ततः पुत्रो भवेत् तव ।
स नीलकण्ठो बलवान् नीलकण्ठ इवापरः ॥ ४८ ॥
श्रवणात् तस्य शब्दस्य भुजगास्ते पराभवम् ।
यास्यन्ति च गुणेशोऽपि तमारुह्य भुवो भरम् ॥ ४९ ॥
हरिष्यति तदा पुत्राः मोक्ष्यन्ते नागबन्धनात् ।
एवमुक्त्वा मुनिस्तस्यै रहो नीत्वा ऋतुं ददौ ॥ ५० ॥
विनताथ ययौ हर्षात् काननं जन्तुवर्जितम् ।
कालेन सुषुवे चाण्डमभेद्यं वज्रपर्वतैः ॥ ५१ ॥
मृद्भाण्डे वल्कलैर्वेष्टय निक्षिप्याण्डं स्थिराऽभवत् ।
यथा भूमिगतं द्रव्यं भुजगो बलवत्तरः ॥ ५२ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे कद्रूविनिताकलहप्रसङ्गे कश्यपद्वारा विनतायां गर्भाधानं नाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-97

कोई टिप्पणी नहीं:

123