श्रीगणेशपुराणे क्रीडाखण्डे षण्णवतितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे षण्णवतितमोऽध्यायः

गौर्य्यादित्योश्च संवादः
॥ क उवाच ॥
ततः कदाचिद्गिरिजा प्रसन्नं प्राह शङ्करम् ।
॥ पार्वत्युवाच ॥
देवेश सप्तमं वर्षं प्रवृत्तं साम्प्रतं शिशोः ॥ १ ॥
क्रियतां व्रतबन्धोऽस्य सुमुहूर्ते महोत्सवात् ।
॥ शिव उवाच ॥
सम्यगुक्तं त्वया भद्रे ज्ञात्वा चेतोगतं मम ॥ २ ॥


सम्पादयिष्ये साध्वस्य व्रतबन्धं यथाविधि ।
॥ क उवाच ॥
इत्युक्ता गिरिजां देवः समाकार्य च गौतमम् ॥ ३ ॥
विचार्य सुदिने लग्नं सामग्री समपादयत् ।
मण्डपं च सुविस्तीर्णं सर्वान् ऋषिगणान् मुनीन् ॥ ४ ॥
आकार्य परिपूज्यैतांस्तदाज्ञावशगो हरः ।
यथाविधि चकारास्य व्रतबन्धं मुदा तदा ॥ ५ ॥
उपायनानि सर्वे ते शिवयोर्बालकस्य च ।
अष्टाशीतिसहस्रेभ्यो नमस्कृत्य हरोऽपि च ॥ ६ ॥
सम्पूज्य विधिवत् प्रादान्नानोपायनसञ्चयान् ।
त्रिंशस्त्रिकोटिदेवेभ्यो यक्षेभ्योऽपि तथैव च ॥ ७ ॥
किन्नरेभ्यश्चारणेभ्यो वाद्यघोष नदत्यपि ।
गायत्सु किन्नरेष्वाशु नर्तकीनां गणेषु च ॥ ८ ॥
नृत्यत्सु सर्वलोकेषु पश्यत्सु सुमहोत्सवम् ।
उपायनानि दानानि ददौ हर्षात् सदाशिवः ॥ ९ ॥
देवतास्थापनं कृत्वा भोजयामास चाखिलान् ।
प्रातःकाले बटुं स्नाप्य चौलकर्म समाप्य च ॥ १० ॥
चतुर्भिर्ब्राह्मणैः सार्धं तं भोज्य संस्नाप्य वै पुनः ।
वेदिकायामन्तरा दु धृत्वा पटमनुत्तमम् ॥ ११ ॥
मुहूर्तं साधयामास मुनिभिर्मन्त्रवादिभिः ।
एतस्मिन्नन्तरे दैत्यौ कृतान्तकालसंज्ञकौ ॥ १२ ॥
गजरूपधरौ मत्तौ मदोदस्राविणौ दृढौ ।
तीक्ष्णदन्तौ दीर्घशुण्डौ गगनस्पर्धिपुष्करौ ॥ १३ ॥
चीत्कारभीषितजनौ सिन्दूरारुणमस्तकौ ।
कम्पते पादघातेन ययोराशु वसुन्धरा ॥ १४ ॥
दन्ताघातेन युध्यन्तौ रजसाच्छाद्य रोदसी ।
सभाद्वारगतं शक्रकरिणं समुपागतौ ॥ १५ ॥
दन्तप्रहारैस्तद्गण्डं भिन्दन्तौ बलवत्तरम् ।
स्रवद्रक्तः पपातोर्व्यां मूर्च्छितो गजराट् क्षणात् ॥ १६ ॥
ऐरावतः पपालाशु मुहूर्तात्प्राप्य चेतनाम् ।
करिणौ पृष्ठलग्नौ तौ दन्ताघातैर्निजघ्नतुः ॥ १७ ॥
ततस्तौ मत्तमातङ्गौ सभामध्यं समीयतुः ।
शुण्डाभ्यां मण्डपं तौ तु ताडयामासतुस्तदा ॥ १८ ॥
उत्तस्थुः सर्वलोकास्ते श्रुत्वा कोलाहलं तयोः ।
यतो यतो गच्छतः स्म ततो देवाः पलायिताः ॥ १९ ॥
मुनयश्च तयोर्भीत्या दशदिक्षु पलायिताः ।
शिवं तत्र समाचख्युर्विघ्नमेतदुपस्थितम् ॥ २० ॥
॥ गणा ऊचुः ॥
सेन्द्रा सभा मुनियुता विध्वस्ता गजभीतितः ।
ततः पलायिता गौरी सखीभिर्गृहमागता ॥ २१ ॥
बालस्ततो निरीक्ष्यतौ दन्तिनौ बलवत्तरौ ।
जगर्ज घनवच्छीघ्रं तयोः शुण्डे दधार ह ॥ २२ ॥
उभाभ्यामपि हस्ताभ्यां चीत्कारं तौ प्रचक्रतुः ।
भ्रामयित्वास्फालयत् स एकस्मिन्नपरं गजम् ॥ २३ ॥
उभौ तौ शतधा जातौ पतितौ धरणीतले ।
धरा च कम्पे वृक्षाश्च निपेतुश्चूर्णिता भुवि ॥ २४ ॥
ततः खण्डानि तान्याशू दूरतश्चिक्षिपुर्गणाः ।
बटुं जग्राह जननी शीघ्रमागत्य स्वे कटौ ॥ २५ ॥
सर्वे पलायिता देवा मुनयोऽनेन दानवौ ।
बालेन निहतौ शीघ्रमित्युवाच शिवां सखी ॥ २६ ॥
ततस्ते मीलिता देवा इन्द्राद्या मुनयोऽपि च ।
ऊचुर्गुणेशं ते सर्वे स्वामिन् सर्वगुणाकर ॥ २७ ॥
सर्वप्राणहरौ दैत्यो कापटयाद्गजरूपिणौ ।
निहतौ लीलया देव मायिनौ बलवत्तरौ ॥ २८ ॥
इत्युक्त्वा शक्रमुनयो देवाश्च विविशुः सभाम् ।
उपविष्टेषु सर्वेषु ननृतुश्चाप्सरोगणाः ॥ २९ ॥
ततो वाद्यान्यवाद्यन्त ब्रह्मा रुद्रसमीपगः ।
दत्त्वा परस्परं प्रैषं बबन्ध मेखलां शिशोः ॥ ३० ॥
यज्ञोपवीतमजिनं होमं च समिधामपि ।
कारयामास विधिवत् सावित्रीवाचनं ततः ॥ ३१ ॥
ततो माता ददौ भिक्षामंशुके भूषणानि च ।
उत्तरीयं च रत्नानि मुक्ताफलयुतानि च ॥ ३२ ॥
लड्डूकान् भक्ष्यखाद्यानि त्रिशूलं शशिनं शिवः ।
ददौ नाम चकारास्य भालचन्द्र इति स्फुटम् ॥ ३३ ॥
शूलपाणिरिति परं ततश्चक्रं हरिर्ददौ ।
शोचिष्केशेति नामास्य चक्रे सम्यङमहात्मनः ॥ ३४ ॥
ततः पुरन्दरः पूज्य कण्ठे चिन्तामणिं ददौ ।
नाम चिन्तामणिरिति चक्रे सर्वार्थदं शुभम् ॥ ३५ ॥
ददौ तदैव कमलमभ्यर्च्य कमलासनः ।
विधातेति च नामास्य स्थापयामास संसदि ॥ ३६ ॥
ततः सर्वे सुरगणाः समभ्यर्च्य गुणेश्वरम् ।
नानाविधानि नामानि चक्रुः स्वस्वेच्छया सुराः ॥ ३७ ॥
अदितिः कश्यपश्चाथ तं पुपूजतुरादरात् ।
दर्शयामास देवोऽपि पूर्वरूपं तयोश्शुभम् ॥ ३८ ॥
भालचन्द्रं दशभुजं मुकुटेन विराजितम् ।
दिव्याम्बरं दिव्यगन्धं दिव्याभरणभूषितम् ॥ ३९ ॥
सिंहारूढं विराजन्तमुरगोदरबन्धनम् ।
दृष्ट्वेत्थमदितिर्हृष्टाऽऽलिलिङ्ग स्नेहनिर्भरा ॥ ४० ॥
रोमाञ्चितशरीरा सा प्रेमगद्गदनिःस्वना ।
विस्मयं परमं प्राप्ता स्रवदश्रुजलाविला ॥ ४१ ॥
परमानन्दमग्नाऽभूत्स्नेहस्नुतपयोधरा ।
तथैव कश्यपो देहभावं तत्याज तत्क्षणात् ॥ ४२ ॥
ऊचतुस्तौ सुतस्नेहाद् वत्सावां ते वियोगतः ।
कृशतां गमितौ तेऽद्य दर्शनात् पुष्टतां गतौ ॥ ४३ ॥
नावां त्यज सुतेदानीं दीनौ त्वच्चरणे रतौ ।
॥ गजानन उवाच ॥
प्रतिश्रुतं मया मातर्दास्ये दर्शनमेकदा ॥ ४४ ॥
तदिदानीं मया दत्तं न शोकं कर्तुमर्हसि ।
सर्वान्तर्यामिणो मे वै वियोगो न कदाचन ॥ ४५ ॥
॥ क उवाच ॥
एवं तु वदतोरेव पार्वती समुपागता ।
उवाच परमप्रीता दृष्ट्वा स्नेहं तयोः शिशौ ॥ ४६ ॥
अदिते देहि मे पुत्रं गृहीतं चिरकालतः ।
नायं तव सुतः सुभ्रु सम्यक् पश्य शुचिस्मिते ॥ ४७ ॥
साऽपश्यत् पुनरेवैनं स्वस्यैव तनयं विभुम् ।
॥ अदितिरुवाच ॥
त्वमेव गौरि पश्याशु तनयं मे पुरः स्थितम् ॥ ४८ ॥
साऽपश्यत् पुनरेर्वेनं गुणेशं तनयं स्वकम् ।
अदितिस्तां ममेत्याह पार्वती तां ममेति च ॥ ४९ ॥
एवं विवदमाने तु प्राहुर्देवाः सुविस्मिताः ।
अनादिनिधनो देवः सृष्टिस्थित्यन्तकारकः ॥ ५० ॥
अनन्तरूपोऽनन्तश्रीरनेकशक्तिसंयुतः ।
कस्या अयं भवेत् पुत्र उभे भ्रान्तेऽस्य मायया ॥ ५१ ॥
॥ ते ऊचतुः ॥
यस्या अयं भवेत्पुत्रस्तस्या हस्ते प्रदीयताम् ।
॥ क उवाच ॥
ततो देवा निरीक्षैनं नानारूपिणमीश्वरम् ॥ ५२ ॥
कश्चिदाह विधाताऽयं कश्चिद्विष्णुं चतुर्भुजम् ।
कश्चित्त्रिलोचनं प्राह वरुणं विस्मिताः सुराः ॥ ५३ ॥
ऊचुस्ते निश्चयोऽस्माभिर्विधातुं नैव शक्यते ॥ ५४ ॥
भवतीभ्यां विवेकेन ग्राह्योऽयं परमः पुमान् ॥ ५५ ॥
ततो गौरी गृहाणाशु तं विभुं तनयं स्वकम् । (ततो गौर्यगृह्णादाशु?)
स्तनपानं ददौ स्नेहाददितिर्नीरसाऽभवत् ॥ ५६ ॥
ममचेद्बालकोऽयं स्यात्कथं यायात्परं प्रति ।
अहं भ्रान्त्याऽभवं सक्ता परस्य तनये वृथा ॥ ५७ ॥
मुनयः कश्यपश्चैनं पुपूजुस्ते गुणेश्वरम् ।
नमस्कृत्याभ्यनुज्ञाप्य ययुः स्वं स्वं निवेशनम् ॥ ५८ ॥
भवानी च गृहं याता पुत्रमादाय हर्षिता
ततः समागताः सर्वे प्रागमन्निलयान्स्वकान् ॥ ५९ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गौर्यादितिविवादो नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-96

कोई टिप्पणी नहीं:

123