श्रीगणेशपुराणे क्रीडाखण्डे पञ्चनवतितमोऽध्यायः
वृकासुरवध
॥ क उवाच ॥
षष्ठे वर्षे प्रवृत्ते तु क्वचिद्यातो बहिः शिशुः ।
उमाया बालकैः सार्द्धं चिक्रीडानेकधा पुनः ॥ १ ॥
तं दिदृक्षुर्विश्वकर्मा ययावन्तर्गृहं प्रति ।
पार्वती बहिरागत्य मानयामास तं बहु ॥ २ ॥
चित्रासने समावेश्य पूजयामास सादरम् ।
प्रक्षाल्य चरणौ प्रादाद् गन्धं ताम्बूलमेव च ॥ ३ ॥
ततस्तदादरं दृष्ट्वा विश्वकर्मा तुतोष ह ।
तुष्टाव परया भक्त्या प्रणिपत्य शिवां मुदा ॥ ४ ॥
॥ विश्वकर्मकृता जगन्मातास्तुतिः ॥
॥ विश्वकर्मोवाच ॥
नमामि विश्वेश्वरि विश्वरूपे ब्रह्मेन्द्ररुद्रार्यमविष्णुरूपे ।
त्वया ततं विश्वमनन्तशक्ते ब्रह्मादिदेवैरभिनन्द्यरूपे ॥ ५ ॥
त्वमेव विश्वं रजसा विधत्से सत्त्वेन मातः परिपासि तच्च ।
त्वमेव सर्वं तमसाऽथ हंसि त्रैगुण्यमेतत्तव नित्यरूपम् ॥ ६ ॥
त्वया हता दैत्यगणा विमुक्तिं ब्रह्मर्षयो ज्ञानबलात् प्रपन्नाः ।
त्वमेव विष्णोरतुलाऽसि शक्तिः सर्वस्य हेतुः परमाऽसि माया ॥ ७ ॥
सतोऽसतो यापि परासि शक्तिश्चराचरं त्वं विदधासि विश्वम् ।
सम्मोह्य लोकान्सकलान्सुरेशान्काष्ठाकलाभिश्च ददासि भोगम् ॥ ८ ॥
ये त्वां प्रपन्ना न भयं तु तेषां मृत्योस्तस्था दैत्यकृतं कदाचित् ।
त्वमेव लक्ष्मीः सुकृतामलक्ष्मीर्दुष्टात्मनां त्वं प्रमदास्वरूपा ॥ ९ ॥
विद्यास्वरूपासि जगत्त्रये त्वं प्रभास्वरूपा शशिसूर्ययोत्स्वम् ।
य आश्रितास्ते जगदाश्रयास्ते विपत्तिलेशो न च तेषु मातः ॥ १० ॥
त्वमेव विश्वेश्वरि ! विश्वमेतद्धरस्यथाप्यायसि वारिरूपा ।
अनादिमध्याऽनिधनाप्यगम्या हरीशलोकेशसुरेश्वराणाम् ॥ ११ ॥
तेऽनुग्रहात्त्वाप्रभजन्ति भक्ता आनन्दरूपा निवसन्ति नाके ।
अभक्तिकामान् विनिहंसि रुष्टा त्वामेव मातः शरणं प्रपन्नः ॥ १२ ॥
धन्ये ममैते नयनेऽथ विद्या जनुश्च माता पितृवंश एव ।
कुलं च धन्यं चरणौ त्वदीयौ दृष्टौ यतस्ते जगदम्बिके मया ॥ १३ ॥
॥ क उवाच ॥
एवं स्तुता जगन्माता वरमस्मै न्यवेदयत् ।
स वव्रे परमां भक्तिं सात तथेति तमब्रवीत् ॥ १४ ॥
इदं स्तोत्रं पठेद् यस्तु सर्वान् कामाँल्लभेच्च सः ।
सर्वत्र विजयं पुष्टिं विद्यामायुः सुखं शिवम् ॥ १५ ॥
॥ शिवोवाच ॥
विश्वकर्मन् महाबुद्धे ज्ञानवानसि सर्वतः ।
यच्छ्रुतं शिववाक्येन दृष्टं तत्सकलं त्वयि ॥ १६ ॥
सिन्धुना पीडिता देवाः सर्वे कारागृहे स्थिताः ।
शिवश्चात्र समायातः कैलासे तु हृते सति ॥ १७ ॥
दण्डकारण्यदेशेऽत्र कोऽप्याप्तो न हि दृश्यते ।
त्वं तु सम्यक् समायातो बहुकालेन दर्शनम् ॥ १८ ॥
॥ विश्वकर्मा उवाच ॥
किमाश्चर्यं जगन्मातर्बालो मातरमाव्रजेत् ।
द्रष्टुं देवं महाभक्तो विद्याकामो गुरुं शिवे ॥ १९ ॥
पुत्रस्य ते श्रुतो मातर्महिमा परमाद्भुतः ।
तमहं द्रष्टुमायातो युवयोर्दर्शनोत्सुकः ॥ २० ॥
॥ क उवाच ॥
एवं तयोस्तु वदतोरागतोऽसौ विनायकः ।
असङ्ख्यशशिसङ्काशो रजसाऽरुणविग्रहः ॥ २१ ॥
प्रसन्नवदनो बालसमूहपरिवारितः ।
तन्मध्ये शोभते स्मासौ मरुन्मध्ये यथा हरिः ॥ २२ ॥
तं दृष्ट्वा प्रणिपत्यासौ कृताञ्जलिपुटः स्थितः ।
तुष्टाव परमात्मानं ज्ञात्वा तं गिरिजासुतम् ॥ २३ ॥
॥ विश्वकर्मोवाच ॥
नमामि परमात्मानं सच्चिदानन्दविग्रहम् ।
चराचरगुरुं सर्वकारणानां च कारणम् ॥ २४ ॥
गुणेश च गुणातीतं सृष्टिस्थित्यन्तकारिणम् ।
सर्वव्यापिनमीशानं व्यक्ताव्यक्तस्वरूपिणम् ॥ २५ ॥
अगम्यं सर्वदेवानां मुनिहृत्पद्मवासिनम् ।
सिद्धिबुद्धिपतिं नानाभक्तसिद्धिप्रदं विभुम् ॥ २६ ॥
अभक्तकामदहनं सहस्ररविसन्निभम् ।
अनेकशक्तिसंयुक्तं दैत्यदानवमर्दनम् ॥ २७ ॥
अनादिमव्ययं शान्तं जरामरणवर्जितम् ।
त्रितनुं च त्रयीमूलं ब्रह्मविष्णुशिवात्मकम् ॥ २८ ॥
॥ क उवाच ॥
एवं स्तुतिं समाकर्ण्य सन्तुष्टः स गुणेश्वरः ।
स्वासने तमुपाविश्य पूजयामास सादरम् ॥ २९ ॥
प्रक्षाल्य चरणौ गन्धमक्षतान् पुष्पमेव च ।
धूपं दीपं च नैवेद्यं निवेद्य तमथा ब्रवीत् ॥ ३० ॥
॥ गुणेश उवाच ॥
विश्वकर्मन्नागतोऽसि मम दर्शनकाङ्क्षया ।
किमानीतं मम मुदेह्युपायनमनुत्तमम् ॥ ३१ ॥
॥ विश्वकर्मोवाच ॥
निजस्वानन्दपूर्णानां परवाञ्छाविधायिनाम् ।
निस्पृहाणां सर्वकृतां सर्वशक्तिमतामपि ॥ ३२ ॥
समलोष्टाश्महेम्नां च कल्पवृक्षाधरी कृताम् ।
कर्तुमकर्तुं शक्तानामन्यथाकर्तुमेव च ॥ ३३ ॥
स्वाधीनानां च तुष्टानां स्वसत्तावर्तिनामपि ।
पराधीनैरशक्तैश्चाकिञ्चनैर्मर्त्यधर्मभिः ॥ ३४ ॥
किं देयं परितोषाय स्वशक्त्या किञ्चिदाहृतम् ।
॥ क उवाच ॥
एवमुक्त्वा विश्वकर्माऽस्थापयत्पुरतः सृणिम् ॥ ३५ ॥
पद्मं च परशुं पाशं सहस्रादित्यसन्निभम् ।
सर्वशत्रुहरं तीक्ष्णं दधार स गुणेश्वरः ॥ ३६ ॥
उवाच विश्वकर्माणं कुत एतानि विश्वकृत् ।
आनीतानि मम प्रीत्यै तद्वदस्वाधुनाऽनघ ॥ ३७ ॥
॥ विश्वकर्मोवाच ॥
संज्ञा नामेति नाम्ना मे कन्या चारुस्वरूपिणी ॥ ३८ ॥
लज्जितो यन्मुखं वीक्ष्य सहसा शशलाञ्छनः ।
रमा शची च सावित्री शारदाऽरुन्धती रतिः ।
त्रिलोक्यां न समा कापि परा यस्या गुणेश्वर ॥ ३९ ॥
सा मया त्वये दत्ता त्रिवेदाय त्रिरूपिणे ।
आगतेषु त्रिलोकेषु साङ्गोपाङ्गेषु सर्वशः ॥ ४० ॥
महोत्सवो महानासीद् दिनाष्टकमहर्निशम् ।
यां दृष्ट्वा स्खलिता देवा लज्जयाऽधोमुखा गताः ॥ ४१ ॥
सविता तामथादाय ययौ स्वस्थानमुत्तमम् ।
तेजसा तस्य तप्ता मे कन्यका कृशतामगात् ॥ ४२ ॥
सा ततो निर्ममे छायां संज्ञा तु स्वप्रभावतः ।
सर्वं तस्यै निवेद्यैव सद्यो मम गृहं गता ॥ ४३ ॥
गते कियति काले सा छाया ज्ञाता तु भानुना ।
नेयं संज्ञेति स प्रायाद् गृहं सद्यो ममार्यमा ॥ ४४ ॥
ततो भीता पुनः संज्ञा मामुवाच न मां पितः ।
निवेदय रवेर्हस्ते तेजोऽहं न क्षमेऽस्य च ॥ ४५ ॥
ततः पित्रा धिक्कृता सा बहिरेव ययौ किल ।
अश्विनीरूपमास्थाय गुप्तरूपा वनेऽवसत् ॥ ४६ ॥
ततस्तु विश्वकर्मा तामनवेक्ष्य क्वचिद्गृहे ।
प्रोवाचार्यमणं सोऽथ तेजस्ते सोढुमक्षमा ॥ ४७ ॥
क्व गता न च जाने तामुपायं ते ब्रवीमि च ।
यदि ते तेजसो भागो न्यूनः किञ्चिद्भविष्यति ॥ ४८ ॥
तदा सा प्रकटीभूयाद् विहरस्व ततस्तया ।
॥ रविरुवाच ॥
यथा तव भवेच्चेतस्तथा कर्तुं त्वमर्हसि ॥ ४९ ॥
॥ क उवाच ॥
विश्वकर्मा ततश्चैनं यन्त्रे स्थाप्योल्लिलेख ह ।
तेजोह्रासं चकाराशु किञ्चित्सौम्योऽभवच्च सः ॥५० ॥
यत्र गुप्ताऽभवत्संज्ञा तत्र यातोऽर्यमा विभुः ।
अश्वोभूत्वा तया रेमे सा नासत्यावसूत च ॥ ५१ ॥
तामादायार्यमा लोकं निजं हर्षयुतोऽगमत् ।
॥ विश्वकर्मोवाच ॥
तेजःशेषेण तस्याथ प्रबलेन गुणेश्वर ॥ ५२ ॥
निर्मितान्यायुधान्याशु त्वदर्थे जगदीश्वर ।
अतितीक्ष्णानि कालस्य सदा जयकराण्यपि ॥ ५३ ॥
चत्वारि ते प्रदत्तानि दत्ते चक्रगदे हरेः ।
त्रिशूलः शम्भवे दत्तः सर्वशत्रुनिबहर्णम् ॥ ५४ ॥
॥ गुणेश उवाच ॥
सम्यक् कृतं विश्वकर्मन्नायुधानि शुभानि मे ।
दत्तानि दैत्यनाशाय परोपकृतये सताम् ॥ ५५ ॥
॥ क उवाच ॥
एवमुक्त्वायुधान्याशु दधार च दुधाव च ।
तदा चकम्पे पृथिवी पर्वताश्च वनानि च ॥ ५६ ॥
शुशुभे सोऽपि तैः शस्त्रैः कोटिसूर्यनिभैर्विभुः ।
विश्वकर्मा नमस्कृत्य ययौ स्वस्थानमाज्ञया ॥ ५७ ॥
उमात्मजोऽपि चिक्रीड मुनिबालैर्वृतः पुनः ।
तत्राययौ वृकोनाम महान् दुष्टतमोऽसुरः ॥ ५८ ॥
भयङ्कराननो मत्तो ग्रसन्निव महाबली ।
पुच्छाघातेन च भुवं कम्पयन् हलदन्तवान् ॥ ५९ ॥
दुष्ट्वा भयङ्करं दैत्यं मुनिपुत्राः पलायिताः ।
स आयुधानि गृह्ययाशु तं वृकं समताडयत् ॥ ६० ॥
अङकुशाघातमात्रेण पतितो भुवि सोऽसुरः ।
वमन् रक्तं निजं रूपमास्थितश्चूर्णयन् द्रुमान् ॥ ६१ ॥
संहरञ्जीवसङ्घातान् दशयोजनविस्तृतः ।
स ततोऽस्तमिते सूर्ये ययौ बालयुतो गृहम् ॥ ६२ ॥
बालाः प्राहुरुमायै तेऽनेनाद्य निहतोऽसुरः ।
वृको नामाङ्कुशाघाताद् दशयोजनमायतः ॥ ६३ ॥
तानुवाचाद्रिजा रोषाद् व्रजन्तु निजमन्दिरम् ।
ततस्तद्वाक्यमाकर्ण्य ते बालाः स्वालयान् ययुः ॥ ६४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे वृकासुरवधो नाम
पञ्चनवतितमोऽध्यायः ॥ ९५ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें