श्रीगणेशपुराणे क्रीडाखण्डे नवतितमोऽध्यायः
विश्वरूपदर्शनं नाम
॥ क उवाच ॥
ततः कदाचिद् गिरिजा प्रातः स्नात्वा त्वरान्विता ।
सुप्ते बाले चतुर्वर्षे लिङ्गपूजां चकार सा ॥ १ ॥
वामहस्ते निधायैव पार्थिवीं मूर्तिमुत्तमाम् ।
स उत्थाय रुदन् स्तन्यं ययाचे हठतत्परः ॥ २ ॥
क्षणं तिष्ठ क्षणं तिष्ठेत्येवं माता न्यषेधयत् ।
स रुषाऽपातयन् मूर्तिं तद्धस्ताद्धस्तघाततः ॥ ३ ॥
तं च सा हस्तघातेन जघान दृढ रोषतः ।
स रुषा पुनरागत्य ददंशाङ्गुलिमुल्बणम् ॥ ४ ॥
मञ्च मुञ्च मम प्राणा गमिष्यन्तीति साऽब्रवीत् ।
दष्टामङ्गुलिमृत्सृज्य पपाल दूरतोऽर्भकः ॥ ५ ॥
अस्रवद्रुधिरं तस्या अङ्गुलेर्बहुलं भुवि ।
यथा क्षीरकर्मवृक्षाद् दृढाघातेन पीडितात् ॥ ६ ॥
ततो यष्टिं समादाय ताडितुं सा सुतं ययौ ।
धावयित्वा दधारैनं ददर्श शिवरूपिणम् ॥ ७ ॥
पञ्चवक्त्रं दशभुजं त्रिनेत्रं शेषशोभितम् ।
त्रिशूलं डमरूं भस्म रुण्डमालां च बिभ्रतम् ॥ ८ ॥
वसानं चर्मणी हस्तिव्याघ्रयोः शशिशेखरम् ।
दृष्ट्वेत्थं लज्जिता यष्टिं तत्याजाधोमुखी शिवा ॥ ९ ॥
पुरो वा मन्दिरं वापि गन्तुं सा नाशकत् तदा ।
तच्चिन्तां स परिज्ञाय बभूवार्भकरूपवान् ॥ १० ॥
क्रीडते मुनिपुत्रेषु मुनिबालस्वरूपवान् ।
अन्वयाद् गिरिजा बालं नापश्यत् तेषु तं सुतम् ॥ ११ ॥
पप्रच्छ तान् मुनिसुतान् मम बालः कुतो गतः ।
दष्ट्वाङ्गुलीं मदियां तु पपाल चपलोऽर्भकः ॥ १२ ॥
त ऊचुर्मुनिपुत्रास्ताभितो(मितो) यातोऽर्भकस्तव ।
ततो जगाम गिरिजा पुरतः पुरतोऽपि च ॥ १३ ॥
विशीर्णकबरीभारा श्रमघर्मसमन्विता ।
इतस्ततो धावमाना स्रस्तवस्त्राञ्चला शिवा ॥ १४ ॥
तस्याः श्रमं स विज्ञाय ययौ पूर्वस्वरूपवान् ।
तदन्तिकं दधारैनं हस्ताभ्यां गिरिजा दृढम् ॥ १५ ॥
स्वीयाञ्चलेन तं बद्ध्वा ययौ हृष्टा स्वमन्दिरम् ।
उवाच रोषात् सम्यक्त्वं मम हस्ते समागतः ॥ १६ ॥
अपस्मारातिचपल मारयिष्येऽधुना भृशम् ।
शम्भवे वा निवेदिष्ये स त्वांवा ताडयिष्यति ॥ १७ ॥
श्रुत्वेत्थं वचनं मातुर्लुलुण्ठ धरणीतले ।
निःसृतं बन्धनं ज्ञात्वा पपाल त्वरया पुनः ॥ १८ ॥
पुनर्धावति सा पृष्ठे दुखिःता भृशविह्वला ।
एतस्मिन्नन्तरे दुष्टो दानवः कर्दमासुरः ॥ १९ ॥
द्विजरूपधरो मालां दधानो दक्षिणे करे ।
कमण्डलुं वारिपूर्णं भस्मोद्धूलितविग्रहः ॥ २० ॥
अरुणार्कनिभे वस्त्रे वसानो मायिको भृशम् ।
स ऊचे वचनं बालं किमर्थं त्वं पलायसे ॥ २१ ॥
त्वद्भीतेवार्रणं सद्यः करिष्येऽहं न संशयः ।
नेष्ये त्वां यत्र ते माता न जानीयात् कथञ्चन ॥ २२ ॥
न च कालभयं तत्र न चान्यद्भयमण्वपि ।
॥ क उवाच ॥
तमुवाचार्भको भीतस्तथा कुरु यथा मम ॥ २३ ॥
न पश्येज्जननी तात शरणं त्वामुपागतः ।
एवं वदति यावत्तु ययौ बालस्वभावतः ॥ २४ ॥
गिगील तावदेवासौ तं दुष्टः कर्दमासुरः ।
रम्भाफलस्य पक्वस्य खण्ड कोमलमर्थकम् ॥ २५ ॥
तत्पादपद्मचिन्हानि भूमौ दृष्ट्वा ययौ शिवा ।
द्विजं ददर्श पुरतोऽपृच्छत् तं च ततोऽर्भकम् ॥ २६ ॥
स्वामिन् त्वया मम सुत इतो गच्छन्निरीक्षितः ।
इमानि पदपद्मानि चिन्हयुक्तानि पश्य भोः ॥ २७ ॥
इदानीं धावमानः स कुत्र गुप्तोऽभवद् द्विज ।
ततस्तामब्रवीद् विप्रो दुःखितां तद्धियोगतः ॥ २८ ॥
॥ द्विज उवाच ॥
किं नः प्रयोजनं मातस्तनयेन तवानघे ।
उदासीनतया मातस्तिष्ठतामीशचेतसाम् ॥ २९ ॥
तथापि नैव दृष्टस्ते तनयः क्वापि शैलजे ।
तनयः किं त्वया देवि मदधीनः कृतोऽभवत् ॥ ३० ॥
॥ क उवाच ॥
एवं वदति तस्मिंस्तु दुःखितां वीक्ष्य शैलजाम् ।
आविरासीन्निर्विकारस्तन्मुखात् स गुणेश्वरः ॥ ३१ ॥
सा प्राह तनयं दृष्ट्वा कथं मिथ्या ब्रवीषि रे ।
तवैव निकटे पुत्रो दृष्टोऽयं गोपितस्त्वया ॥ ३२ ॥
सन्तः प्राणात्यये प्राप्ते न भाषन्तेऽनृतं क्वचित् ।
॥ क उवाच ॥
इति तस्या वचः श्रुत्वा स दैत्यो दीर्घदेहवान् ॥ ३३ ॥
व्योमस्पृङ्मस्तको बालमादाय निर्ययौ ततः ।
ततः सा पृष्ठतो लग्ना क्रन्दन्ती तनयं शिवा ॥ ३४ ॥
गणेशोऽपि ततो दध्रे तस्माद्दीर्घतरं वपुः ।
दृष्ट्वा दुःखं जनन्यास्तु प्रशोचन्त्या मुहुर्मुहुः ॥ ३५ ॥
तद्देहं शतधा कृत्वा चुचूर्णाङ्घ्रिविघाततः ।
पतमानोऽपि तद्देहश्चूर्णयामास शाखिनः ॥ ३६ ॥
जनन्या अग्रतस्तस्थौ संहृत्येवं तु दानवम् ।
गुणेशो मुनयो देवास्तत्पत्न्योऽथ समागताः ॥ ३७ ॥
ऊचुस्तां पार्वतीं विघ्नाः कियन्तोऽस्य भवन्ति हि ।
त एव नाशमायान्ति तव पुण्यात् सुरेश्वरि ॥ ३८ ॥
सर्वेस्तैः पूजितं बालं गृहीत्वा स्वकटौ शिवा ।
गृहं जगाम तैस्ताभिर्हर्षनिर्भरमानसा ॥ ३९ ॥
पुरामरगणान् जित्वा गरुत्मानमृतं यथा ।
उत्ततार शिवा बालं स्वाङ्गणे कटिदेशतः ॥ ४० ॥
स तु मूर्च्छाङ्गतो लुण्ठन्धरण्यां च पुनः पुनः ।
वारं वारं ददौ जृम्भां प्रासार्य मुखपङ्कजम् ॥ ४१ ॥
किं जातमधुनैवास्य धावयित्वा ययौ शिवा ।
मुखमध्ये ददर्शास्य विश्वं विश्वस्वरूपिणः ॥ ४२ ॥
सप्तद्वीपां वसुमतीं पुरग्रामवनाकरान् ।
ब्रह्माणं भास्करं शेषं विष्णुं पर्वतसागरान् ॥ ४३ ॥
गन्धर्वान् यक्षरक्षांसि मुनिन् पक्षिगणानपि ।
नदीवापीतडागानि मनूनष्टौ वसूनपि ॥ ४४ ॥
शशिसूर्यानलोडूनि सचेतनमचेतनम् ।
पातालान्यपि सप्तानि स्वर्गानप्येकविंशतीम् ॥ ४५ ॥
एवं त्रिभुवनं दृष्ट्वा मुमूर्च्छ गिरिजा तदा ।
निमील्य नयने भ्रान्ता मुहूर्तद्वयमास्थिता ॥ ४६ ॥
शिवं संस्मार मनसा सावधाना ततोऽभवत् ।
यथा पूर्वस्थितं बालं पश्यति स्म पुरःस्थितम् ॥ ४७ ॥
ततस्तं परितुष्टाव तत्प्रसादप्रसन्नधीः ।
॥ पार्वत्युवाच ॥
परमात्मा त्वमेवासि चराचरगुरुर्भवान् ॥ ४८ ॥
चिदानन्दघनो नित्यो नित्यानित्यस्वरूपवान् ।
त्वत्कुक्षौ परिदृष्टानि भुवनानि चतुर्दश ॥ ४९ ॥
देवा यक्षाश्च रक्षांसि सरितो वृक्षसञ्चयाः ।
सर्वं चराचरं दृष्टं मया वक्तुं न शक्यते ॥ ५० ॥
भ्रान्ताऽहं पतिता भूमौ सावधाना शिवस्मृतेः ।
जाताऽहं बालरूपेणापश्यं त्वां प्राकृतं शिशुम् ॥ ५१ ॥
॥ क उवाच ॥
एवं स्तुवत्यां तस्यां तु मायामाविश्वकार सः ।
लालयित्वा कटौ गृह्य स्तनपानं ददौ शिवा ॥ ५२ ॥
गृहं प्रविष्टा गिरिजा गृहकार्यरताऽभवत् ।
मुनयो मुनिपत्न्यश्च ययुः स्वं स्वं निवेशनन् ।
इदमाख्यानकं श्रुत्वा सर्वपापैः प्रपुच्यते ॥ ५३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम
द्विनवतितमोऽध्यायः ॥ ९२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें