श्रीगणेशपुराणे क्रीडाखण्डे एकशततमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकशततमोऽध्यायः
दैत्यसेनावध

॥ क उवाच ॥

ततस्तु दशमे वर्षे सुखासीनं महेश्वरम् ।
गिरिजासहितं वामे सप्तकोटिगणान्वितम् ॥ १ ॥
नृत्यन्तं तं मयूरेशं पश्यन्तं स्वाङ्गणे शिशुम् ।
आययुर्मुनयः सर्वे गौतमाद्याः प्रणम्य तम् ॥ २ ॥


ऊचुः प्रबुद्धमतयो महादेवं महौजसम् ।
यावत्कालं शिवात्र त्वं मयूरेशसमन्वितः ॥ ३ ॥
स्थितोऽसि तावद् दैत्यानामनन्तानां समागमः ।
वयं तेन प्रपीडयामोऽन्यत्र याहि शिवाधुना ॥ ४ ॥
वयं वाऽन्यत्र गच्छामो यद्याज्ञा ते भवेद्धर ।
॥ शिव उवाच ॥
भवत्सङ्गेन च मया नववर्षाणि सौख्यतः ॥ ५ ॥
अतिक्रान्ताति विघ्नानि मयूरेशेन तानि च ।
भवतां गमनेऽस्माकं स्थित्वा किन्नु प्रयोजनम् ॥ ६ ॥
अहमेव प्रयास्यामि स्थलमन्यन्निराकुलम् ।
॥ क उवाच ॥
इति शम्भुवचः श्रुत्वा मुनयस्तं प्रणम्य ते ॥ ७ ॥
जय देव मयूरेशेत्युक्त्वा स्वस्थानमाययुः ।
शिवोऽपि गणसंयुक्तो वृषारूढोऽम्बिकायुतः ॥ ८ ॥
बर्ह्यारूढं मयूरेशं पुरस्कृत्य मुदान्वितः ।
नानावादित्रनिर्घोषैर्नादयन्विष्टपं ततः ॥ ९ ॥
अन्वयुर्मुनयः सर्वे मयूरेशं शिवान्वितम् ।
पत्न्योऽपि बालकैः सार्द्धं स्नेहगद्गदभाषिभिः ॥ १० ॥
रजसा व्योमनि तते न प्राज्ञायत किञ्चन ।
परावृत्य शिवः सर्वान्दक्षिणाभिमुखो ययौ ॥ ११ ॥
॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ ॥ १२-१६ ॥
ददृशुर्मार्गमध्ये तं द्वादशाक्षौहिणीयुतम् ।
कमलासुरमायान्तं धूलिधूसरिताम्बरम् ॥ १७ ॥
गजाश्च पुरतो यान्ति रथाश्वपादचारिणः ।
न ज्ञायते रवेस्तेजः शस्त्रदीप्त्याथ किञ्चन ॥ १८ ॥
कोलाहलो महानासीद् गजाश्वरथपत्तिजः ।
नानाविधानां शस्त्राणां सङ्घट्टस्वनमिश्रितः ॥ १९ ॥
ददृशुस्तं महादैत्यं शिवचाराः पुरो गताः ।
शङ्खासुरस्य तं बन्धु नानाभूषाविराजितम् ॥ २० ॥
नानायुधधरं प्रोचुरागत्य तु शिवं गणाः ।
पादाघातेन तस्याशु कम्पते कमठादयः ॥ २१ ॥
मुनयोऽग्रेचराः पेतुर्भयभीतास्तमब्रुवन् ।
मयूरेश महाभाग कथं रक्षसि नोऽखिलान् ॥ २२ ॥
॥ क उवाच ॥
इति तद्वचनं श्रुत्वा प्रावदत् स गुणेश्वरः ।
विद्यमाने शिवे चिन्ता न कार्या मुनिपुङ्गवा ॥ २३ ॥
मयूरेशो हरं प्राह नमस्कृत्य ततः पुनः ।
॥ देव उवाच ॥
महासेनायुतो दैत्यो नाम्नाऽसौ कमलासुरः ॥ २४ ॥
यदि तेऽनुग्रहो मे स्याद् युद्धायाशु व्रजाम्यहम् ।
॥ शिव उवाच ॥
सम्यगुक्तं त्वया पुत्र हृदयानन्दनं वचः ॥ २५ ॥
द्वादशाक्षौहिणीसेनायुतोऽसौ दैत्यपुङ्गव ।
एकाकी कथमायासि सप्तकोटिगणैर्युतः ॥ २६ ॥
व्रजाप्नुहि जयं शीघ्रं जहि शत्रुं महाबलम् ।
॥ देव उवाच ॥
तव प्रसादात् त्रैलोक्यं दहेयमिति मे मतिः ॥ २७ ॥
कियन्तो न हता दैत्या न ज्ञातास्ते त्वया नु किम् ।
अस्य का गणना स्वामिन्नायास्ये जयवानहम् ॥ २८ ॥
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं शम्भूरालिङ्ग्य तं ददौ ।
त्रिशूलं पुत्रहस्ते तन्मूर्ध्नि न्यस्य करं शुभम् ॥ २९ ॥
आज्ञां ददौ स्वपुत्राय गणयुक्ताय शङ्करः ।
क्ष्वेडितैर्जयशब्दैश्च नादयन्स दिशो दश ॥ ३० ॥
प्रययौ प्रमथैर्युक्तो विघ्नहा युद्धलालसः ।
वृषारूढः शिवायुक्तो हरोऽपि द्रष्टुमन्वगात् ॥ ३१ ॥
दृष्ट्वाऽपारां दैत्यसेनां मयूरेशः शरीरतः ।
निर्ममे बहुलां सेनां ततो युद्धमवर्तत ॥ ३२ ॥
कालानुरूपास्ते वीरा ब्रह्माण्डाशनतत्पराः ।
मेरोरधिकमानास्ते शब्दतः शृङ्गपातिनः ॥ ३३ ॥
परस्परं निजघ्नुस्ते तुमुले संयुगे ततः ।
अन्धकारो महानासीद् रजसाच्छादिता दिशः ॥ ३४ ॥
विस्मयं चक्रिरे दैत्या इदानीमयमेकलः ।
अनेकतां कथं यातस्तस्मादेष परः पुमान् ॥ ३५ ॥
भूभारं हर्तुकामोऽयमवतीर्णः शिवालये ।
सोऽपि दीर्घतरं रूपं दधार सहसा विभुः ॥ ३६ ॥
दृष्ट्वा दीर्घं दैत्यरूपं योगमायासमावृतः ।
दशायुधधरो देवो दशहस्तो महाबलः ॥ ३७ ॥
मयूरेशश्च दैत्यश्च युध्यमानौ विरेजतुः ।
नानाशस्त्रप्रहरणैर्नानायुद्धविशारदैः ॥ ३८ ॥
व्यस्ताव्यस्तमयुध्यन्त गणाः सेनाचराश्च ते ।
मुष्टिप्रहारैर्दन्तैश्च शस्त्रास्त्रैरितरेतरम् ॥ ३९ ॥
केषाचिन् मस्तका भग्ना अपरेषां मुखानि च ।
जानुजङ्घाविरहिता निपेतुरपरे रणे ॥ ४० ॥
गर्जयन्तो दश दिशः शस्त्रास्त्रघातनिस्वनैः ।
स्वामिस्वनामतो जघ्नुरन्धकारे रजस्कृते ॥ ४१ ॥
कबन्धामारयँस्तत्र परान्स्वानपि सम्मुखम् ।
दैत्यसेनाचरा भग्ना दैत्यमेवान्वयुस्तदा ॥ ४२ ॥
असङ्ख्यातान् मृतान्प्राहुर्नद्यस्तु रक्तसम्भवाः ।
॥ दैत्य उवाच ॥
इन्द्रादयो लोकपाला ब्रह्माद्या देवतागणाः ॥ ४३ ॥
निर्जिता येन तेनेह को युद्धं कुर्तुमुत्सहेत् ।
भूगोलं न्युब्जतां नेतुं कोऽन्यः शक्तो भविष्यति ॥ ४४ ॥
॥ क उवाच ॥
इत्युक्त्वान्दोलयामास शस्त्रान्दोलनतो जगत् ।
क्रोधसंरक्तनयनो मारयामास दैत्यराट् ॥ ४५ ॥
मयूरेशगणान् सर्वान् नानावाहनहेतिकान् ।
शिरःपादाकृत्तिहस्तान् भित्त्वाऽपातयदाहवे ॥ ४६ ॥
उत्कर्षं तस्य तं दृष्ट्वा मयूरेषो ययु पुरः ।
स्वर्गं च गर्जयन् व्योम दशशस्त्रैर्द्विषोऽहनत् ।
असङ्ख्याता हता दैत्या मुक्तिं प्रापुः सुदुर्लभाम् ॥ ४७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे दैत्यसेनावधो नामैकशततमोऽध्यायः ॥ १०१ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-101

कोई टिप्पणी नहीं:

123