श्रीगणेशपुराणे क्रीडाखण्डे एकत्रिशत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे एकत्रिशत्तरशततमोऽध्यायः

गन्धर्वपराजय
॥ क उवाच ॥

ततश्चिन्तां चकारासौ तत्र नेतुं तु बालकम् ।
तज्ज्ञात्वा प्राह तं नन्दी स्वामिन् युष्मत्प्रसादतः ॥ १ ॥
शोषयिष्ये समुद्रांस्तु चूर्णयिष्ये गिरीनपि ।
आज्ञापय ततो मह्यं भवान् कार्यं हृदि स्थितम् ॥ २ ॥

॥ क उवाच ॥


भणितं तस्य तच्छुत्वा तुष्टः प्राह हरः स तम् ।
॥ हर उवाच ॥
साधु साधु त्वया प्रोक्तमाशयं मे विवृण्वता ॥ ३ ॥
पौरुषं ते मया ज्ञातं शतशो नन्दिकेश्वर ।
इदानीमथ यत्कार्यं वदामि तत्कुरुष्व भोः ॥ ४ ॥
माहिष्मत्यां महापुर्यामास्ते राजा महाबलः ।
वरेण्य इति विख्यातो नाना धर्मपरायणः ॥ ५ ॥
यस्य पत्नी महाभागा पुष्पिका नाम नामतः ।
तस्यां सद्यः प्रसूतायां सुप्तायां कापि राक्षसी ॥ ६ ॥
निन्ये बालं तत्पुरतो नेयो बालस्त्वया लघु ।
नीत्वा स्थाप्यस्तत्पुरतो यावन्निद्राति सा शुभा ॥ ७ ॥
॥ क उवाच ॥
एवमाज्ञां समाकर्ण्य शङ्करेण समीरिताम् ।
शीघ्रं बालं समादाय नभोमार्गेण सत्वरः ॥ ८ ॥
प्राक्षिपत् पुरतो बाल सा न सुप्ता बुबोध तम् ।
शीघ्रमुड्डीय स प्रायान्नन्दिकेशो महेश्वरम् ॥ ९ ॥
उवाच निजवृत्तान्तं मार्गे स्वयमनुष्ठितम् ।
अकस्माद् गगनादेवं राक्षसी घोरदर्शना ॥ १० ॥
भक्षयन्ती बालमांसं मामाश्रित्य स्थिता विभो ।
तव प्रसादात् पुच्छेन वेष्टिता राक्षसी मया ॥ ११ ॥
भ्रामयित्वा विनिक्षिप्ता महापर्वतमस्तके ।
शतधा खण्डिता सा तु त्वन्नामोच्चारणात्प्रभो ॥ १२ ॥
ततोऽपश्यं महाव्रातं गन्धर्वाणां दुरात्मनाम् ।
कथं मया तैर्योद्धव्यं रक्षितव्यः कथं शिशुः ॥ १३ ॥
इति चिन्ताकुलतया स्मृतस्त्वं हृदि शङ्कर ।
ततः पुच्छेन श‍ृङ्गाभ्यां क्रोधोच्छ्वासैश्च लत्तया ॥ १४ ॥
हुङ्कारेण च तान् सर्वान्निवार्य बलवत्तरान् ।
मृताः केचिद् हताः केचित् केचिद्भग्नशिरोङ्घ्रयः ॥ १५ ॥
पतिताः शतधा भूमौ पुष्पवृष्टिस्ततोऽपतत् ।
ततोऽहमगमद्देवं कृत्वा कार्यं त्वयेरितम् ॥ १६ ॥
तवेच्छाविषयं को नु हन्यात् त्रैलोक्यमण्डले ।
अतस्त्वन्नामतो देव जयं प्राप्तः स बालकः ॥ १७ ॥
ततः शिवो हर्षयुतो लिलिङ्ग नन्दिकेश्वरम् ।
उवाच च प्रसन्नात्मा ज्ञातं ते पौरुषं दृढम् ॥ १८ ॥
नास्ति त्रिभुवने कोऽपि त्वत्समो नन्दिकेश्वर ।
॥ क उवाच ॥
ततः प्रणम्य विश्वेशं पार्वतीमगमच्च सः ॥ १९ ॥
प्रणम्य तां योज्य हस्तौ प्रोचे मधुरया गिरा ।
मातः शिवाज्ञया बालो नीतो माहिष्मतीं पुरीम् ॥ २० ॥
वरेण्यपत्न्याः पुरतः पुष्पिकाया न्यधायि सः ।
यतस्तेन पुरा दत्तो वरस्तस्य बभूव ह ॥ २१ ॥
अहं पुत्रत्वमेष्यामि ब्रह्मज्ञानप्रकाशकः ।
निशम्य वचनं तस्य सर्वज्ञा पार्वती तदा ॥ २२ ॥
जहर्ष जननी तस्य शिशोर्वीर्यमनन्तकम् ।
उवाच परया भक्त्या ज्ञातं ते पौरुषं सुत ॥ २३ ॥
हता त्वया महाघोरा राक्षसी घोरनिस्वना ।
गन्धर्वाश्च हता दुष्टा रक्षितश्चैव बालकः ॥ २४ ॥
अज्ञातस्थापितस्तत्र महाकार्यमिदं कृतम् ।
इत्युक्त्वा विससर्जामुं विश्रान्तिं चाकरोत्तदा ॥ २५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गन्धर्वपराजयो नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-131

कोई टिप्पणी नहीं:

123