श्रीगणेशपुराणे उपासनाखण्डे अष्टमौऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे अष्टमौऽध्यायः
नाना पक्षिनिवारणं

॥ भृगुरूवाच ॥

इति तेनोदितं वाक्यं मुहुर्ग्लानिं प्रकुर्वतः ।
करुणायुतमाकर्ण्य नोद्भिन्नं हृदयं तव ॥ १ ॥
वज्रात् सारतरं किन्नु ब्रह्मणा त्वयि निर्मितम् ।
हिंसनाद् बहुजन्तूनां मनुष्याणां सहस्रशः ॥ २ ॥
अतिनिष्ठुरतां प्राप्तं कृतघ्नस्येव मानसम् ।
अवोचस्त्वं ततस्तन्तु कृतान्त इव निष्ठुरः ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे सप्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे सप्तमोऽध्यायः

सोमकान्त पूर्वजन्म कथनं
॥ ऋषय ऊचुः ॥
तत्र गत्वा किमकरोत् सोमकान्तो नृपस्तदा ।
उपायः कथितः को वा भृगुणा सर्ववेदिना ॥ १ ॥
कथयस्व कथामेतां श‍ृण्वतां नो द्विजोत्तम ।
न तृप्तिमधिगच्छामः पीत्वा त्वद्वचनामृतम् ॥ २ ॥
॥ सूत उवाच ॥
सम्यक् पृष्टं महाभागा यूयं तु ज्ञानसागराः ।
यः कथान्तं न प्रयाति श्रोता वक्ताऽथवा द्विजाः ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे षष्टोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे षष्टोऽध्यायः

भृगोराश्रम गमनं
॥ सूत उवाच ॥

इति तद्वचनं श्रुत्वा च्यवनो भृगुनन्दनः ।
त्वरया स्वमुपादाय कलशं जलसम्भृतम् ॥ १ ॥
दुःखित परदुःखेन तूष्णीमेवागमद् गृहम् ।
तं भृगुः परिपप्रच्छ विलम्बकारिणं सुतम् ॥ २ ॥
॥ भृगुरुवाच ॥
किमपूर्वं त्वया दृष्टं लक्ष्यसे चकितो यथा ।
विलम्बश्च कथं जातो वद पुत्र ! ममाग्रतः ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे पञ्चमोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे पञ्चमोऽध्यायः

सुधर्माच्यवन संवाद
॥ श्रीसूत उवाच ॥

ततो मातरमभ्येत्य स्नेहकातरया धिया ।
तां जगाद कथं मातस्त्यजसेऽनपराधिनम् ॥ १ ॥
॥ पुत्रोवाच ॥
सहैव यातु पुत्रोऽयमिति वाच्यस्त्वया पिता ।
तववाक्यानुरोधेन यदि मां सह नेष्यति ॥ २ ॥
तदा वां सेवनं कुर्यां न मे राज्ये मतिस्तथा ।
किं तद्राज्यं सुखं दद्याद्भवद्भ्यां रहितस्य मे ॥ ३ ॥

श्रीगणेशपुराण-उपासना-खण्ड-चतुर्थोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे चतुर्थोऽध्यायः

सोमकान्ततपोवनगमनं
॥ श्रीसूत उवाच ॥
जातेऽभिषेके राजाऽसौ चकार द्विजपूजनम् ।
मणिमुक्ताप्रवालानि ददौ साङ्गं गवा युतम् ॥ १ ॥
तोषयामास सर्वान्स्तान् गजगोऽश्वधनांशुकैः ।
नानादेश्यानि वासांसि सुवर्णान्तरितानि च ॥ २ ॥
नानावर्णानि काश्मीरदेशजानि महान्ति च ।
राजभ्यो राजपत्नीभ्यो ग्राम मुख्येभ्य एव च ॥ ३ ॥
तद्भृत्येभ्यो गुणिभ्यश्च ददौ राजां यथर्हतः ।
अमात्येभ्यो ददावन्यान् ग्रामान् बहुधनान्यपि ॥ ४ ॥

श्रीगणेशपुराणम् उपासनाखण्डम् तृतीयोऽध्यायः

 श्रीगणेशपुराणम् उपासनाखण्डम् तृतीयोऽध्यायः

सोमकान्तस्य पुत्रेभ्य उपदेशः, आचारादि निरूपणम्
॥ सूत उवाच ॥

तत उत्थाय राजास गृहीत्वा दक्षिणेकरे ।
पुत्रं विवेश हर्म्याग्रं यत्र मन्त्रयते सदा ॥ १ ॥
यत्र सिंहासनं दिव्यं काञ्चनं बहुरत्नयुक् ।
मुक्ताप्रवालरचितं भातिशक्रपदं यथा ॥ २ ॥
तत्रासतुः पितापुत्रौ भातोद्वावप्यनेकधा ।
प्रतिरत्नं गतौ यस्मात्समुदायवृताविव ॥ ३ ॥
आचारं प्रथमं प्राह नीतिं नानाविधां नृपः ।
पुत्राय करुणायुक्तो यशसे स्वकुलस्य च ॥ ४ ॥

श्रीगणेशपुराणम् उपासनाखण्डम् द्वितीयोऽध्यायः

 श्रीगणेशपुराणम् उपासनाखण्डम् द्वितीयोऽध्यायः

सोमकान्तस्य अङ्गेभ्य गलितकुष्ठरोगस्य उद्भवः, वन गन्तुं च विचार
॥ ऋषयः उचुः ॥

श्रीगणेशपुराणस्य महिमा यादृशो मुने ।
कथ्यतां कृपया शीघ्रं सोमकान्तप्रसङ्गतः ॥
श्रूयतामृषयः सर्वे सोमकान्तस्य दुष्कृतम् ।
अकस्मादभवत्तस्य गलत्कुष्ठोऽतिदुःखदः ॥ १ ॥
धर्मशीलस्य राज्ञोऽथ पूर्वकर्मविपाकतः ।
शुभं वाप्यशुभं कर्म न मुञ्चति नरं क्वचित् ॥ २ ॥
यस्यां यस्यामवस्थायां कृतं भवति कर्म यत् ।
तस्यां तस्यामवस्थायां भुज्यते प्राणिभिर्ध्रुवम् ॥ ३ ॥
दुःखसागरमग्नोऽभूदप्लवो जलधौ यथा ।
वेदनामलभद् बह्विं भुजङ्गेनेव दंशितः ॥ ४ ॥
नानाक्षतसमाकीर्णः स्त्रवद्रक्तस्ततस्ततः ।
पूयशोणितवान् राजा कृमिभिर्विह्वलीकृतः ।
अस्थिशेषोऽभवद्राजा यक्ष्मणेव समावृतः ॥ ५ ॥
चिन्तया व्याकुलीभूतः सर्वैन्द्रियरुजान्वितः ।
ततोऽमात्याञ्जगौ राजा मनः संरूद्ध्य यत्नतः ॥ ६ ॥

श्रीगणेशपुराण

123