श्रीगणेशपुराणे उपासनाखण्डे षष्टोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे षष्टोऽध्यायः

भृगोराश्रम गमनं
॥ सूत उवाच ॥

इति तद्वचनं श्रुत्वा च्यवनो भृगुनन्दनः ।
त्वरया स्वमुपादाय कलशं जलसम्भृतम् ॥ १ ॥
दुःखित परदुःखेन तूष्णीमेवागमद् गृहम् ।
तं भृगुः परिपप्रच्छ विलम्बकारिणं सुतम् ॥ २ ॥
॥ भृगुरुवाच ॥
किमपूर्वं त्वया दृष्टं लक्ष्यसे चकितो यथा ।
विलम्बश्च कथं जातो वद पुत्र ! ममाग्रतः ॥ ३ ॥


॥ पुत्र उवाच ॥
सौराष्ट्रदेशे विख्याते दैवते नगरे मुने ।
सोमकान्त इति ख्यातो राजा राजीवलोचनः ॥ ४ ॥
चक्रे राज्यं बहुतिथं धर्मेण पालयन् प्रजाः ।
दुर्भगत्वं गतो दैवात् पुत्रे राज्यं निवेश्य सः ॥ ५ ॥
पत्न्या सुधर्मया युक्तो भर्तुराज्ञाभृता पितः ।
सुबलज्ञानगम्याम्भ्यां प्रकृतिभ्यामिहागतः ॥ ६ ॥
गलत्कुष्ठी कृमियुतो विभ्रमन् दुर्गमं सरः ।
सहस्रभगतां प्राप्तो यथेन्द्रो गौतमान मुनैः ॥ ७ ॥
क्व सा सुधर्मा चार्वङ्गी क्व गलत्कुष्ठवान् पतिः ।
इति मे पृच्छतो वृत्तं तदीयं गतवान् क्षणः ॥ ८ ॥
तदीयैः करुणावाक्यैर्मनो मे कलिलं त्वभूत् ।
ततोऽहं कलशं पूर्णं कृत्वा शीघ्रमुपागतः ॥ ९ ॥
॥ सूत उवाच ॥
सर्वं चाकथयत् तस्मै तया यत् कथितं वचः ।
श्रुत्वा तच्च पुनः पुत्रं च्यवनं भृगुरब्रवीत् ॥ १० ॥
॥ भृगुरूवाच ॥
सर्वानानय तान् शीघ्रं पुत्र ! गच्छ ममाज्ञया ।
द्रक्ष्यामि कौतुकं तेषां स्वीयं वा दर्शयामि तान् ॥ ११ ॥
॥ सूत उवाच ॥
इत्थं स चोदितः पित्रा च्यवनः करूणानिधिः ।
जगाम सरसो भूमिं सुधर्मां द्रष्टुमुत्सुकः ॥ १२ ॥
तस्मिन्नेव क्षणेऽमात्यौ फलकन्दभरान्वितौ ।
सुबलज्ञानगम्यौ तावागतौ राजसन्निधिम् ॥ १३ ॥
तत् ऊचे स तु मुनिः सुधर्मां चारुलोचनाम् ।
पिता मे स्वाश्रमं सर्वानाकारयति सुव्रते ॥ १४ ॥
इति तद्वचनं श्रुत्वा सुधर्मा शोकविह्वला ।
तदैव सावधानाऽभूत् तनुः प्राण इवागते ॥ १५ ॥
सुशीला राजपत्नी सा पीत्वा तद्वचनामृतम् ।
अगमत् सा सुचार्वङ्गी प्रकृतिद्वयसंयुता ॥ १६ ॥
सोमकान्तेन पतिना मुनिपुत्रपुरःसरा ।
गणेशस्कन्दसहिता शिवेव शिवसंयुता ॥ १७ ॥
शुशुभे मार्गमध्ये सा वाचस्पतिपुरःसरा ।
मन्त्रघोषयुतं प्राप भृगोराश्रममण्डलम् ॥ १८ ॥
नानापुष्पलताकीर्णं नानापक्षिनिनादितम् ।
मार्जारा नकुलाः श्येना गजा गावो मयूरकाः ॥ १९ ॥
भुजङ्गाः पक्षिणः सिंहा व्याघ्राः क्रीडन्ति यत्र च ।
न च वायुर्भृशं वाति न सूर्यस्तपते भृशम् ॥ २० ॥
न वर्षति भृशं मेघो वर्षते च तदिच्छया ।
विविशुस्ते हर्षयुता मुनिपुत्र पुरःसराः ॥ २१ ॥
तत्राद्भुतं व्याघ्रमृगाजिनस्थं ददर्श सूर्यप्रतिमं भृगुं तम् ।
राजाऽथ पत्नी प्रकृतिद्वयञ्च ननाम बद्धाञ्जलिरब्रवीच्च ॥ २२ ॥
॥ राजोवाच ॥
अद्याशिषो मे सुफला द्विजेन्द्र ! द्विजेरिता धर्मचयस्तपोऽपि ।
आजन्मतोऽहं परिपूत एष पितुर्जनन्याश्च सुजीवितं मे ॥ २३ ॥
भवद्दृशिः सम्प्रति हन्त्यथैनः पूर्वार्जितैः पुण्यचयैः कृताऽपि ।
आगामिकल्याणकरी मुनीन्द्र ! कालत्रये जन्म करोति पूतम् ॥ २४ ॥
सौराष्ट्रदेशे खलु देवताख्ये पुरे कृतं राज्यममोघदृष्टे ।
भीतेन पापाद् द्विजदेवतादिपूजा कृता नीतिमता मुनीन्द्र ॥ २५ ॥
आकस्मिकं मे दुरितं किमेतत् प्रादुर्बभूवोग्रतरं दुरन्तम् ।
येनाऽहमीदृक् कुदशां प्रणीतो जाने न किञ्चित् प्रतिकारमत्र ॥ २६ ॥
अपायतां यान्ति कृता उपाया युष्मत्कृतोपायमुपायमीहे ।
निर्वैरतां यान्ति हि जातिवैरास्तवाश्रमे वां शरणं प्रपन्नः ॥ २७ ॥
॥ सूत उवाच ॥
श्रुत्वेति वचनं तस्य भृगुस्तु करूणायुतः ।
उवाच सोमकान्तं तं ध्यानेनालोक्य सुव्रतः ॥ २८ ॥
॥ भृगुरूवाच ॥
उपायं वच्मि नृपते न चिन्तां कर्तुमर्हसि ।
ममाश्रमगता दुःखं न हि विन्दन्ति जन्मिनः ॥ २९ ॥
जन्मान्तरकृतं चैव दुरितं ते नृपोत्तम ।
येनेमाङ्गमितोऽवस्थां कथयिष्ये तदप्यहम् ॥ ३० ॥
कुर्वन्तु भोजनं सर्वे चिरकालं बुभुक्षिताः ।
वनात् वनान्तरं याताः श्रान्ता क्लान्तानना भृशम् ॥ ३१ ॥
॥ सूत उवाच ॥
इत्युक्त्वा स्नापयामास सुतैलाभ्यङ्गपूर्वकम् ।
भोजयामास चान्नानि षड्रसानि त्वनेकशः ॥ ३२ ॥
बुभुजुस्तेऽपि विश्रान्ता भृगोरमिततेजसः ।
आज्ञया मुनिवर्यस्य सम्प्राप्ताः सुष्ठवलङ्कृताः ॥ ३३ ॥
सुषुपुर्मृदुशय्यायां हित्वा चिन्तां दुरत्ययाम् ।
मुनिना कल्पितायां ते स्वराज्यङ्गमिता इव ॥ ३४ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे भृगोराश्रमगमनं नाम षष्ठोऽध्यायः ॥ ६ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

 श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-06

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...