श्रीगणेशपुराणे उपासनाखण्डे अष्टमौऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे अष्टमौऽध्यायः
नाना पक्षिनिवारणं

॥ भृगुरूवाच ॥

इति तेनोदितं वाक्यं मुहुर्ग्लानिं प्रकुर्वतः ।
करुणायुतमाकर्ण्य नोद्भिन्नं हृदयं तव ॥ १ ॥
वज्रात् सारतरं किन्नु ब्रह्मणा त्वयि निर्मितम् ।
हिंसनाद् बहुजन्तूनां मनुष्याणां सहस्रशः ॥ २ ॥
अतिनिष्ठुरतां प्राप्तं कृतघ्नस्येव मानसम् ।
अवोचस्त्वं ततस्तन्तु कृतान्त इव निष्ठुरः ॥ ३ ॥


॥ चोर उवाच ॥
किं ते वाक्यचयैर्विप्रः ! वृथा मयि नियोजितैः ।
अश्रोतरि च पाण्डित्यं न्युब्जकुम्भे यथा जलम् ॥ ४ ॥
क्वेयं मम मतिर्मूढ ! क्वोपदेशस्तवाप्ययम् ।
तत्त्वचिन्तेव मधुपे साम्प्रतं मे न रोचते ॥ ५ ॥
अर्थासक्तय न क्वापि पितृबन्धुविचारणा ।
यथाकामातुरस्यापि न भीतिर्ह्रीश्च विद्यते ॥ ६ ॥
शुद्धिः काकै द्यूतकारे सत्यं धैर्यं नपुंसके ।
कामशान्तिः स्त्रियां सर्पे क्षमो दृष्ट्वा त्वया नु किम् ॥ ७ ॥
अन्तिके त्वं निसृष्टोऽसि व्यापाररहितस्य मे ।
विधात्रा दैवयोगेन न त्वां मुञ्चामि कर्हिचित् ॥ ८ ॥
॥ भृगुरूवाच ॥
इत्युक्त्वा निशितं खङ्गं हस्त आदाय दक्षिणे ।
चकर्ताऽथ शिरस्तस्य बिडाल इव मौषकम् ॥ ९ ॥
एवं ते ब्रह्महत्यानां सङ्ख्यां कर्तुं न शक्यते ।
स्रीबालवृद्धजन्तूनां हत्यानाञ्च विशेषतः ॥ १० ॥
सङ्ख्याता परपापानां विभागी जायते यतः ।
ततो बहुतिथे काले गते कामन्द ! ते जरा ॥ ११ ॥
अगताऽथ कफो ग्लानिः स्वेदो हिक्काऽथ वेपथुः ।
अभूत् तन्द्री चोपविष्टे प्रसुप्ते न च साऽभवत् ॥ १२ ॥
अनादरं च चक्रुस्ते पुत्रां दास्योऽथ सेवकाः ।
सुहृदश्च सुताश्चापि नप्तारोऽथापि मित्रकाः ॥ १३ ॥
एक एवाऽभवत्तत्र दृष्ट आप्तो रहस्यकृत् ।
अनिवार्यगतिर्विप्रः स चापि प्रेषितस्त्वया ॥ १४ ॥
आकारयितुं सर्वांस्तान मुनीन् काननवासिनः ।
ते चापि त्वद्भयादेव द्विजवाक्यात् समागताः ॥ १५ ॥
अब्रवीस्तान् नमस्कृत्य मत्तो दानानि गृह्यताम् ।
तेऽब्रुवन् न च गृह्णीमो दानानि पतितस्य ते ॥ १६ ॥
याजनाध्यापनाद् यौनात् सम्बन्धाद् भाषणादपि ।
परं सञ्चरते पापं सहयानासनाशनात् ॥ १७ ॥
इति ते भाषमाणास्त्वां गत्वा च निजमाश्रमम् ।
सस्नुः सचैलं सर्वेऽपि पावमानीस्ततोऽजपन् ॥ १८ ॥
ततोऽनुतापो मनसि जातः कामन्द ते भृशम् ।
आमयात् स्वजनैस्त्यागाद् ब्राह्मणैः परिवर्जनात् ॥ १९ ॥
जीर्णदेवालयोद्धारेऽभवत्ते मतिरूर्जिता ।
धनं स्वं विपुलं वीक्ष्य कुप्यरत्नादिसंयुतम् ॥ २० ॥
ततोऽनादिः परामूर्तिर्गणेशस्य वने शुभा ।
जीर्णदेवालये क्षुद्रे स्थिता ते कथिता द्विजैः ॥ २१ ॥
ततोऽतिविस्तृतं दीर्घं चतुस्तोरणसंयुतम् ।
चतुर्द्वारं सुरूचिरं चतुःशिखरशोभितम् ॥ २२ ॥
नानास्तम्भचितं नानावेदिभिः परिवारितम् ।
मुक्ताप्रवालरत्नाद्यैः खचितं रूचिराङ्गणम् ॥ २३ ॥
नानापुष्पद्रुमयुतं नानाफलद्रुमैश्चितम् ।
चतुर्दिक्षु चारुवारिमयवापिविराजितम् ॥ २४ ॥
प्रासादं निर्मितवतस्तद्द्रव्यं ते व्ययं गतम् ।
किञ्चित् स्त्रिया च पुत्रश्च सुहृद्भिर्बन्धुभिर्हृतम् ॥ २५ ॥
ततो नातिचिरे काले पञ्चत्वं च गतो भवान् ।
याम्यदूतैः कशाघातैर्बद्धः सन्ताडितो भृशम् ॥ २६ ॥
कण्टकैर्विद्धसर्वाङ्गः शिलायां पोथितोऽपि च ।
मज्जितो नरके घोरे पूयशोणितकर्दमे ॥ २७ ॥
एवं नीतस्तु तैर्दूतैश्चित्रगुप्तयमान्तिके ।
यमेन पृष्टः किं पुण्यमुत भोक्ष्यसि पातकम् ॥ २८ ॥
त्वमवोचः पुण्यमहं पूर्वं भोक्ष्यामि सूर्यज ।
ततः सौराष्ट्रदेशे त्वं राजत्वेन विनिर्मितः ॥ २९ ॥
इति ते कथितं पूर्वजन्म पापकरं मया ।
शरणागतकारुण्यात् तपोबलसमाश्रयात् ॥ ३० ॥
कान्तप्रासादकरणात् सोमकान्तोऽभवो नृपः ।
कान्तया कान्ततरया भासि कान्त्या शशी यथा ॥ ३१ ॥
॥ सूत उवाच ॥
भृगुणाऽभिहितं श्रुत्वा सोमकान्तो नृपाधमः ।
तद्वाक्ये संशयापन्न आसीदश्मेव निष्क्रियः ॥ ३२ ॥
वेदशास्त्रार्थ विदुषो भूतभाविभवद्विदः ।
तपस्विनो भृगोर्वाक्ये यतः स संशयं दधौ ॥ ३३ ॥
निरगन् क्षणमात्रेण तस्याङ्गात् पक्षिणो भृशम् ।
नानावर्णाकृतिधरा बभक्षुर्नृपतिं तदा ॥ ३४ ॥
उड्डीयोड्डीयचञ्चच्वग्रैर्ददंशुर्नृपशुं दृढैः ।
उत्कृत्योत्कृत्य मांसानि जक्षुस्ते मुनिसन्निधौ ॥ ३५ ॥
ततोऽतिदुःखिततनुः शरणं पुनरागतः ।
अवदद्दीनया वाचा भृगुं ज्ञानतपोनिधिम् ॥ ३६ ॥
॥ राजोवाच ॥
त्वद्वने जातिवैराणां परस्पर भयं न हि ।
त्वत्समक्षं कथमिमे मृतं मां मारयन्ति च ॥ ३७ ॥
त्वत्पादप्रवणं दीनं सकुष्ठं शरणागतम् ।
इदानीं मोचय मुने सर्वंसत्त्वाभयङ्कर ॥ ३८ ॥
॥ सूत उवाच ॥
इत्युक्तः पुनरप्याह भृगुस्तं दीनवत्सलः ।
मद्वाक्यसंशयादित्थमनुभूतं नृप ! त्वया ॥ ३९ ॥
प्रतीकारं वदिष्यामि स्वस्थो भव क्षणं नृप ।
मम हुङ्कारमात्रेण गमिष्यन्ति द्विजा इमे ॥ ४० ॥
॥ सूत उवाच ॥
द्विजस्य हुङ्कृतिं श्रुत्वा द्विजाश्चान्तर्हितास्तदा ।
तुतोष नृपतिश्चापि पत्न्यमात्यसमन्वितः ॥ ४१ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे नानापक्षिनिवारणं नामाष्टमौऽध्यायः ॥ ८ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-08

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...