श्रीगणेशपुराणम् उपासनाखण्डम् तृतीयोऽध्यायः
सोमकान्तस्य पुत्रेभ्य उपदेशः, आचारादि निरूपणम्
॥ सूत उवाच ॥
तत उत्थाय राजास गृहीत्वा दक्षिणेकरे ।
पुत्रं विवेश हर्म्याग्रं यत्र मन्त्रयते सदा ॥ १ ॥
यत्र सिंहासनं दिव्यं काञ्चनं बहुरत्नयुक् ।
मुक्ताप्रवालरचितं भातिशक्रपदं यथा ॥ २ ॥
तत्रासतुः पितापुत्रौ भातोद्वावप्यनेकधा ।
प्रतिरत्नं गतौ यस्मात्समुदायवृताविव ॥ ३ ॥
आचारं प्रथमं प्राह नीतिं नानाविधां नृपः ।
पुत्राय करुणायुक्तो यशसे स्वकुलस्य च ॥ ४ ॥
॥ सोमकान्त उवाच ॥
याममात्रावशिष्टायां निशायां जागृतः पुमान् ।
त्यक्त्वा शय्यां शुचिस्थाने उपविश्य गुरूं स्मरेत् ॥ ५ ॥
देवतां चिन्तयित्वेष्टां प्रणमेत्स्तुतिपूर्वकम् ।
प्रार्थ्य पृथ्वीं क्षमस्वेति पादस्पर्शं जगन्मये ॥ ६ ॥
प्रातर्नमामि गणनाथमशेषहेतुं ब्रह्मादिदेववरदं सकलागमाढ्यम् ।
धर्मार्थकामफलदं जनमोक्षहेतुं वाचामगोचरमनादिमनन्तरूपम् ॥ ७ ॥
प्रातर्नमामिकमलापतिमुग्रवीर्यं नानावतारनिरतं निजरक्षणाय ।
क्षीराब्धिवासममराधिपबन्धुमीशं पापापहं रिपुहरं भव मुक्तिहेतुम् ॥ ८ ॥
प्रातर्नमामि गिरिजापतिमिन्दुमौलिं व्याघ्राजिनांवृतमुदस्तदयंमनोजे ।
नारायणेन्द्रवरदं सुरसिद्धजुष्टं सर्पां स्त्रिशूलडमरूदधतं पुरारिम् ॥ ९ ॥
प्रातर्नमामि दिननाथमघापहारं गाढान्धकारहरमुत्तमलोकवन्द्यम् ।
वेदत्रयात्मकमुदस्तसुरारिमायं ज्ञानैकहेतुमुरुशक्तिमुदारभावम् ॥ १० ॥
प्रातर्नमामि गिरिजां भवभूतिहेतुं संसारसिन्धु परपारकरीं त्रिनेत्राम् ।
तत्त्वादिकारणमुदस्तसुरारिमायां मायामयीं सुरमुनीन्द्रनुतां सुरेशीम् ॥ ११ ॥
एवमन्यांश्च संस्मृत्य देवान्मुनिगणांस्तथा ।
मानसैरूपचारैश्च पूजयित्वा क्षमापयेत् ॥ १२ ॥
ततो गच्छेत्सोदपात्रो ग्रामस्य नैऋतीं दिशम् ।
मृदं गृहीत्वा सुश्वेतां ब्राह्मणः क्षत्रियोरुणाम् ॥ १३ ॥
वैश्यशूद्रौ तथा श्यामां न नदीतीरतःखनेत् ।
नोर्वराया न वल्मीकाद् ब्राह्मणागारतः क्वचित् ॥ १४ ॥
तृणादिनाच्छादयित्वा धरां मूत्रपुरीषयोः ।
कृत्वोत्सर्गं दिवारात्रावुदग्दक्षिणदिङ्मुखः ॥ १५ ॥
आदौ गुदं प्रमृज्यैव तृणकाष्ठादिना नरः ।
पञ्चवारं मृदाद्भिश्च क्षालयेत्तदनन्तरम् ॥ १६ ॥
दशवारं वामहस्तं सप्तवारमुभौकरौ ।
लिङ्गतथैकवारं तु वामहस्तं त्रिवारतः ॥ १७ ॥
मूत्रोत्सर्गे क्षालयीत द्वौ करौ च द्विवारतः ।
पादौसदैकवारं तु गृहस्थस्यैवमीरितम् ॥ १८ ॥
व्रतवान् द्विगुणं कुर्यास्त्रिगुणं वनगोचरः ।
यतिश्चतुर्गुणं कुर्याद्रात्रावर्धन्तुमौनवान् ॥ १९ ॥
अर्धं पादं दिवारात्रौ शौचं स्त्रीशुद्र एव च ।
तत आचम्य काष्ठं तु क्षीरकण्टकवृक्षयोः ॥ २० ॥
गृहीत्वा प्रार्थनापूर्वं दन्ताञ्जिव्हान्विशोधयेत् ।
बलमोजोयशस्तेजः पशुबुद्धिधनानिच ॥ २१ ॥
मेधां ब्रह्मधियञ्चैव त्वं मे देहि वनस्पते ।
ततः शीतजलैः स्नानं कृत्वा मलहरं पुरा ॥ २२ ॥
ततो मन्त्रैश्च गृह्योक्तैः सन्ध्योपास्ति ततश्चरेत् ।
जपं होमंञ्च स्वाध्यायं तर्पणं देवपूजनम् ॥ २३ ॥
वैश्वदेवं तथातिथ्यं भोजनं द्विजसाक्षिकम् ।
पुराणश्रवणं दानं परनिन्दाविवर्जनम् ॥ २४ ॥
परोपकारं कुर्याच्च द्रव्यप्राणवचोमृतैः ।
परोपकारं नोकुर्यादात्मस्तवनमेव च ॥ २५ ॥
गुरुद्रोहं वेदनिन्दां नास्तिक्यं पापसेवनम् ।
अभक्ष्यभक्षणञ्चैव परदारनिषेवणम् ॥ २६ ॥
स्वदारवर्जनञ्चैव कुर्यादृतुगतिञ्चरेत् ।
मातापितृगुरूणाञ्च गवांशुश्रूषणं सदा ॥ २७ ॥
दीनान्धकृपणेभ्यश्च दद्यादन्नं सवस्त्रकम् ।
प्राणात्ययेऽपि सत्यस्य त्यागं नैव समाचारेत ॥ २८ ॥
ईश्वरानुग्रहोयेषां साधूनाञ्च प्रपालनम् ।
अपराधानुसारेण धर्मशास्त्रं विलोक्य च ॥ २९ ॥
पृष्ट्वा वा पन्डितान्दन्डं कुर्यान्नीतिविशारदः ।
विश्वासो यस्य नैवस्यात्तत्र नो विश्वसेत्क्वचित् ॥ ३० ॥
विश्वस्तेऽत्यन्त विश्वासो न कर्तव्योबुभूषता ।
कृत वैरेऽथ विश्वस्ते कदापि न च विश्वसेत् ॥ ३१ ॥
षड्गुणानां प्रयोगेण वर्धयेद्राष्ट्रमात्मनः ।
दानं स्वशक्त्या कुर्वीत क्षीणतामन्यथा व्रजेत् ॥ ३२ ॥
परे व्याकुलितेयानमधमं परिचक्षते ।
चारदृष्टिर्दूतवक्त्रउद्यदण्डो नृपो भवेत् ॥ ३३ ॥
दण्डस्यैव भयाल्लोकाः स्वे स्वे धर्मे व्यवस्थिताः ।
अन्यथा नियमो न स्यात्पारक्यं स्वीयमित्यदः ॥ ३४ ॥
अधमो यदि निन्देतस्तुवीत यदि वा क्वचित् ।
नक्रुध्येन्नचतुष्येच्च किं तया किं तयाऽपि च ॥ ३५ ॥
पूर्वापकारी यदि च पुनर्वा शरणं व्रजेत् ।
पूर्वञ्च धनिको यः स्यात्परिपाल्यः सदैव हि ॥ ३६ ॥
मन्त्रगुप्तिः सदाकार्या तन्मूलं राज्यमुच्यते ।
कामादि षड्रिपून्हित्वा ततोन्यान्विजयीत च ॥ ३७ ॥
वृत्तिच्छेदं प्रजोच्छेदं देवतोच्छेदमेव च ।
आरामचैत्ययोच्छेदं न कुर्यान्नृपसत्तमः ॥ ३८ ॥
पर्वकाले ददेद्दानं यशसे त्यागमेव च ।
न मित्रवञ्चनां कुर्यात्स्त्रिषु गोप्यं वदेन्नच ॥ ३९ ॥
ऋणतो ब्राह्मणं चैव पङ्कतो गां समुद्धरेत् ।
अनृतं न वदेत् क्वापि सत्यं क्वापि न हापयेत् ॥ ४० ॥
अमात्यानां प्रजानाञ्च भृत्यानाञ्चित्तहृद्भवेत् ।
ब्राह्मणेभ्यो नमस्कुर्याद्देवताभ्यः सदैव च ॥ ४१ ॥
॥ सूत उवाच ॥
इत्यन्यदपि शिक्षाप्य हेमकण्ठं सुतं नृपः ।
आचारं सहधर्मेण नीतिशास्त्रं यथा श्रुतम् ॥ ४२ ॥
क्षेमङ्करं रूपवन्तं विद्याधीशं तथैव च ।
आह्वयामास चामात्यान्सुमुहूर्तं विलोक्य च ॥ ४३ ॥
सम्भारानुपकल्प्यैव नानास्थानगतान्नृपः ।
ब्राह्मणान्वेदविदुषो यज्ञकर्म सुनिष्ठितान् ॥ ४४ ॥
राज्ञोथमहतोराजपत्नीश्च सुहृदः स्वकान् ।
आह्वयामास नृपतिः श्रेणीमुख्यांश्च नागरान् ॥ ४५ ॥
अभिषेकावलोकाय पुत्रस्य रिपुघातिनः ।
गणेशं पूजयित्वेष्टदेवताञ्च यथाविधि ॥ ४६ ॥
वाचयित्वास्वस्त्ययनं मातृपूजनपूर्वकम् ।
कृत्वाऽभ्युदयिकं श्राद्धं ब्राह्मणांस्तर्प्यचान्धसा ॥ ४७ ॥
कारयित्वा मन्त्रघोषैरभिषेकं सुतस्य सः ।
उवाच सोमकान्तस्त्रीन्मन्त्रिमुख्या निदं वचः ॥ ४८ ॥
॥ राजोवाच ॥
ममायं सुत इत्येव ममात्याबुद्धिरस्तुवः ।
भवतामेवहस्तेषु सुत एष निरूपितः ॥ ४९ ॥
ममानुशासनं यद्वत्कृतं नीतिविशारदैः ।
तथास्य शासनं कार्यं श्रेणीमुख्यसमन्वितैः ॥ ५० ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे आचारादि निरूपणन्नाम
तृतीयोऽध्यायः ॥ ३ ॥
इस अध्याय का हिन्दी भावार्थ देखने के लिये —
श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-03

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें