श्रीगणेशपुराणे उपासनाखण्डे सप्तमोऽध्यायः
सोमकान्त पूर्वजन्म कथनं
॥ ऋषय ऊचुः ॥
तत्र गत्वा किमकरोत् सोमकान्तो नृपस्तदा ।
उपायः कथितः को वा भृगुणा सर्ववेदिना ॥ १ ॥
कथयस्व कथामेतां शृण्वतां नो द्विजोत्तम ।
न तृप्तिमधिगच्छामः पीत्वा त्वद्वचनामृतम् ॥ २ ॥
॥ सूत उवाच ॥
सम्यक् पृष्टं महाभागा यूयं तु ज्ञानसागराः ।
यः कथान्तं न प्रयाति श्रोता वक्ताऽथवा द्विजाः ॥ ३ ॥
लिख्यमानं वाचयति पुस्तकं हरतेऽपि वा ।
नृपृच्छति च यः शिष्यो गुरुः पृष्टो न वक्ति चेत् ॥ ४ ॥
उभौ तौ मूकबधिरौ लोके दृष्टौ द्विजोत्तमाः ।
शृण्वन्तु कथयिष्यामि सोमकान्तकथामतः ॥ ५ ॥
तस्या रात्र्यां व्यतीतायां दिननाथे तथोदिते ।
स्नानं सन्ध्यां जपं होमं कृत्वा स भृगुसत्तमः ॥ ६ ॥
स्नाताय कृतजप्याय पत्नीप्रकृतिसंयुजे ।
पूर्वजन्मकथां तस्मै राज्ञे कथितुमारभत् ॥ ७ ॥
॥ भृगुरूवाच ॥
कोल्हारनगरे रम्ये विन्ध्याचलसमीपतः ।
चिद्रूप इति विख्यातो वैश्यो बहुधनोऽभवत् ॥ ८ ॥
तस्य भार्या तु सुभगा नाम्ना ख्याता सुलोचना ।
सुशीला दानशीला च पतिवाक्यपरा सति ॥ ९ ॥
तस्यास्त्वं पुत्रतां यातो भवे पूर्वे नृपोत्तम ।
कामन्द इति ते नाम चक्रतुस्तौ द्विजेरितौ ॥ १० ॥
अति स्नेहं दिवारात्रावतिलालनमेकके ।
वार्धक्यकालजे तौ तु पितरौ त्वयि चक्रतुः ॥ ११ ॥
विवाहं चक्रतुस्तौ तु धनकौतुकमङ्गलैः ।
मृगाक्षी सुकुमाराङ्गी नाम्ना ख्याता कुटुम्बिनी ॥ १२ ॥
अनुरक्ता त्वयि सदा द्विजदेवाऽतिथि प्रिया ।
बभूव योषिद्योषित्सु रत्नभूताऽतिसुन्दरी ॥ १३ ॥
कुटुम्बिनीति स्वं नाम विदधे सार्थकं तुं सा ।
सप्तपुत्रा पञ्चकन्या पञ्चबाण प्रिया नु किम् ॥ १४ ॥
ततो बहुतिथे काले पञ्चत्वमगमत्पिता ।
माता तव सती तेन सहं दग्धा दिवं गता ॥ १५ ॥
ततस्त्वं सखिवर्गैस्तद् द्रव्यं नाशितवान् बहु ।
नीतं नष्टं भक्षितं च विनाशमगमद् धनम् ॥ १६ ॥
चिन्तया धर्मपत्नी त्वां निराकृतवती भृशम् ।
न गृहीतं तु तद्वाक्यं ततो विक्रीतवान् गृहम् ॥ १७ ॥
गता सा बालकैः सार्धमनुज्ञाता पितुर्गृहम् ।
अपत्यपोषणकृते ऋते त्वां वंशकण्टकम् ॥ १८ ॥
तत उद्वृत्ततां यातं उन्मत्त इव मद्यपः ।
अन्यायकारी नगरे जातो मत्त इव द्विपः ॥ १९ ॥
परस्वहारो वनितासु जारो ग्रामेषु चोरो जनतापकारः ।
द्यूतेषु वीरो वृजिनौघसारो हिंसाविहारो बलहीनशूरः ॥ २० ॥
ये ये जनास्ते सुखसङ्गतृप्तास्तेभ्यो गृहीत्वा बहुवित्तमादः ।
निक्षेपतः पितृकृतात्सुहृद्भ्यो मिषात् कुतश्चिन्नगरस्थितेभ्यः ॥ २१ ॥
शपथाननृतांश्चकर्थ नूनमनृतानां प्रमदाजनेषु साक्ष्यम् ।
इति सर्वजनाः सुभीतिमापुरूरगात् सद्मगतादिवोग्रवीर्यात् ॥ २२ ॥
असह्यतां तेन जनस्य यातो गोक्षूरकः पायसगो यथैव ।
राज्ञो गृहीत्वाऽनुमतिं जनास्ते निर्वापयामासुरतो पुरात् त्वाम् ॥ २३ ॥
वने स्थितस्त्वं बहुजन्तुघाती स्त्रीबालवृद्धान् विनिहंसि नित्यम् ।
महाजनं वीक्ष्य पलायसे च सिंहं निरीक्ष्येव वृको मृगो वा ॥ २४ ॥
मत्स्यान् बकान् सारसकुक्कुटाँश्च वृकान् मृगान् वानरकोकिलाँश्च ।
हत्वाऽसि खङ्गान् शशकाँश्च गोधा मुधा स्वदेहं वृजिनादपोषः ॥ २५ ॥
सिंहान् व्याघ्राँश्च जम्बूकान्निःसार्य गिरिगह्वरात् ।
नानास्थानगताँश्चोरान् मेलयित्वा सुदुर्धरान् ॥ २६ ॥
काष्ठैर्लोष्टैश्च पाषाणैश्चकर्थ गृहमुत्तमम् ।
विशालं क्रोशविस्तारं नानाकौतुकमण्डितम् ॥ २७ ॥
पित्रा भीतेन पत्नी सा प्रापिता बालकैः सह ।
गुहागतं ते सदनं राजतो जनतोऽपि च ॥ २८ ॥
नानालङ्कारवसना बालका अपि तेजसा ।
देवाङ्गनेव शुशुभे त्वं च चोरसमन्वितः ॥ २९ ॥
त्वं च मार्गे जनान् दीनान् हत्वा हत्वा गुहाङ्गतः ।
चौरेः सबालयोषिद्भिर्भासि राजेव तद्गतः ॥ ३० ॥
कदाचिद्ब्राह्मणो विद्वान् विख्यातो गुणवर्धनः ।
मध्याह्ने मार्गमध्ये तु त्वया दृष्टः स एककः ॥ ३१ ॥
गृहीत्वा दक्षिणं पाणिं तं विप्रं धृतवानसि ।
स वेपमानस्त्वद्बुद्धिं जानन् धर्षणया तया ॥ ३२ ॥
ऊचे त्वां स्वान्तकं मत्वा मूर्च्छितो जीवितेच्छया ।
अत्यन्तं करूणावाक्यैर्बोधयँस्त्वां सहेतुकैः ॥ ३३ ॥
॥ गुणवर्धन उवाच ॥
धनवान् सुभगो भूत्वा कथं मां हन्तुमिच्छसि ।
द्विजं नबोढाभर्तारं शान्तं चानपराधिनम् ॥ ३४ ॥
दुर्बुद्धिवासनां त्यक्त्वा सद्धर्मेषु मतिं कुरू ।
प्रथमा मे गता कान्ता प्राप्ता कान्ततराऽपरा ॥ ३५ ॥
स्वाचारा परमोदारा साध्वी सर्वगुणाकरा ।
पितॄणामनृणार्थाय धर्मसन्तानवृद्धये ॥ ३६ ॥
कृता साऽतिप्रयत्नेन गार्हस्थं धर्ममिच्छता ।
मद्विना तद्विना वां हि जन्मनी भवतो वृथा ॥ ३७ ॥
पिता मे हि भव त्वञ्च मातापुत्रोऽस्म्यहं तव ।
जीवदाता भयत्राता पिताशास्त्रे निगद्यते ॥ ३८ ॥
दस्यवोऽपि हि रक्षन्ति द्विजं वा शरणागतम् ।
द्विजं योग्यं शरण्यं मामतत्स्त्वं भोक्तुमर्हसि ॥ ३९ ॥
नो चेत् कल्पसहस्रं त्वं निरयान् प्रतिपद्यसे ।
भोक्तारः सर्व एवैते स्त्रीपुत्राः सुहृदो जनाः ॥ ४० ॥
न पापभागिनस्त्वेते सुखिनस्त्वत्प्रतारकाः ।
कियद्भिर्जन्मभिः पापं भोक्ष्यसे न वितर्कये ॥ ४१ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तपूर्वजन्मकथनं
नाम सप्तमोऽध्यायः ॥ ७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें