श्रीगणेशपुराणे क्रीडाखण्डे चतुस्त्रिंशाधिकशततमोऽध्यायः
मूषकवाहनरूपधारणं
॥ क उवाच ॥
बालः स ववृधे तत्र दिवसे दिवसे शशी ।
आनन्दं जनयन् मातुः पितुश्च चरितैः स्वकैः ॥ १ ॥
॥ व्यास उवाच ॥
वद ब्रह्मन् गुणेशस्य चरितं द्वापरोद्भवम् ।
श्रुत्वा पूर्वचरित्राणि न तृप्तिर्मेऽभवत् प्रभो ॥ २ ॥
एतत् सर्वं सविस्तारं वद मे चतुरानन ॥ ३ ॥
॥ क उवाच ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं भार्गवस्य कवेरपि ॥ ४ ॥
एवमेव पुरा पृष्टः प्रह्लादेन महामुनिः ।
तस्मै प्रोवाच भगवान् कविस्तच्छृणु साम्प्रतम् ॥ ५ ॥
शृणु प्रह्लाद येनास्य वाहनं मूषकोऽभवत् ।
तदहं सम्प्रवक्ष्यामि श्रवणात्सर्वकामदम् ॥ ६ ॥
पुरा शक्रसभामध्ये क्रौञ्चौ गन्धर्वसत्तमः ।
वामदेवमुनिं सोऽथ त्वरावान् प्रपदाऽहनत् ॥ ७ ॥
स शशाप च गन्धर्वं मूषकस्त्वं भविष्यसि ।
कल्पयिष्यति वाहत्वे त्वामाक्रम्य गुणेश्वरः ॥ ८ ॥
स एव करुणायुक्तो मोक्षं नेष्यति विश्वकृत् ॥ ९ ॥
पराशराश्रमे सोऽथ पपात मूषकाकृतिः ॥ १० ॥
गिरिशृङ्गनिभो घोरो महारोमा महारवः ।
महावीर्यो महादंष्ट्रो महास्वनविराजितः ॥ ११ ॥
तस्याश्रमे महाघोरमुपद्रवमथाकरोत् ।
भक्षयामास धान्यानि भङक्त्वा मृत्पात्रसञ्चयान् ॥ १२ ॥
पुस्तकानि च वस्त्राणि वल्कलानि महान्त्यपि ।
स सारभूतं यत्सर्वं भक्षयामास मूषकः ॥ १३ ॥
पुच्छाघातेन वृक्षान् स पातयामास भूतले ।
चुञ्चुकारेण शब्देन गर्जयामास विष्टपम् ॥ १४ ॥
ज्ञात्वा तथाविधं तं तु चिन्तामास मुनीश्वरः ।
दुर्जनस्य बलात्कारैः स्थानं त्याज्यं न संशयः ॥ १५ ॥
अधुना क्व नु गन्तव्यं कस्मिस् स्थाने सुखं भवेत् ।
प्राणत्यागे महद्दोषं वदन्ति शास्त्रचिन्तकाः ॥ १६ ॥
कथं सुखाश्रमे दुःखं प्राप्तं कर्मप्रसङ्गतः ।
कस्य वा स्मरणं कार्यं को वा दुःखात् प्रमोक्ष्यति ॥ १७ ॥
क एनं नाशयेदत्र कः समर्थो भवेद् वधे ।
कमद्य शरणं यायां को नस्त्राता भविष्यति ॥ १८ ॥
एवं पितृवचः श्रुत्वा बालकोऽनन्तविक्रमः ।
उवाच मधुरं वाक्यं चिन्तां मा कुरु सर्वथा ॥ १९ ॥
मयि तिष्ठति दुष्टानां संहारिणि महाप्रभौ ।
पुत्रतां ते प्रयातोऽस्मि विधास्ये ते प्रियं तु यत् ॥ २० ॥
यस्य मे क्रन्दितेनेयं पृथिवी शीर्णतामियात् ।
पर्वताश्चूर्णतामापुः पादाघातेन मे मुने ॥ २१ ॥
पश्य मे कौतुकं तात नयाम्येनं तु वाहताम् ।
एवमुक्त्वाऽसृजत् पाशं कोटिसूर्यनिभं शिशुः ॥ २२ ॥
मेघेष्विव तडित् पुञ्जः शुशुभे सोऽन्तरिक्षगः ।
तत्यजुर्भयतो देवा स्वानि धिष्ण्यानि तत्क्षणात् ॥ २३ ॥
स ययौ वह्निवदनो दशदिग्भ्रमणे रतः ।
पाताले मूषकं कण्ठे बध्वा बहिरकाशयत् ॥ २४ ॥
मूर्छामवाप महतीमाखुः पाशबलार्दितः ।
शुशोच परमक्रुद्धो निरुद्धश्वासमारुतः ॥ २५ ॥
कथं कालस्य मरणमागतं दैवनिर्मितम् ।
भवितव्यं भवत्येव पुरुषार्थो निरर्थकः ॥ २६ ॥
येन दंष्ट्राग्रमात्रेण दारिताः पर्वता बहु ।
न मया गणिता देवा नासुरा राक्षसा नराः ॥ २७ ॥
तस्य मे केन पाशेन कण्ठोऽक्रामि गतायुषः ।
॥ क उवाच ॥
मूषके प्रब्रुवत्येवं यावत् तावद् गजाननः ॥ २८ ॥
चकर्ष मनसा तं स सोऽगान् मूषकसंयुतः ।
यथा गारूडशास्त्रज्ञः सर्पं कर्षति तत्क्षणात् ॥ २९ ॥
स तं दृष्ट्वा पाशकण्ठो मूषको लब्धधीः क्षणात् ।
नमस्कृत्य विभुं देवं गजाननमनामयम् ॥ ३० ॥
॥ मूषक उवाच ॥
तुष्टाव परया भक्त्या चिदानन्दघनं प्रभुम् ।
त्वमेव जगतां नाथः कर्ता हर्त्ता प्रपालकः ॥ ३१ ॥
गुणत्रयविहीनश्च गुणत्रयसहायकृत् ।
मायातीतोऽपि मायावी मायिनामपि मोहकृत् ॥ ३२ ॥
ब्रह्मादीनामगम्यस्त्वं मुनिहृत् पद्मसंस्थितः ।
कारणं करणं कर्त्ता कारणानां च कारणम् ॥ ३३ ॥
सोऽद्य दृष्टः स्वचक्षुर्भ्यामतो धन्यं जनुर्मम ।
धन्या मे पितरौ नेत्रे तपो विद्या व्रतं जपः ॥ ३४ ॥
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं प्रीतोऽसौ द्विरदाननः ।
प्राह भक्तिं दृढां ज्ञात्वा भक्तं तं मूषकं विभुः ॥ ३५ ॥
तवैव पुरुषार्थेन देवद्विजद्रुहोऽनघ ।
निर्गुणोऽहं गुणी जातो दुष्टनाशनहेतवे ॥ ३६ ॥
साधूनां रक्षणार्थाय यतस्त्वां शरणं गतः ।
अतस्ते दत्तमभयं वरं वृणुयमिच्छसि ॥ ३७ ॥
॥ मूषक उवाच ॥
नाहं वृणे गजास्य त्वां त्वमेव वृणु वाञ्छितम् ।
॥ क उवाच ॥
इत्युक्तो मूषकेनासौ गर्वितेन गजाननः ॥ ३८ ॥
वाहतां मम याहि त्वं यदि सत्यं वचस्तव ।
तथेत्युक्ते स पिङ्गाक्षो रुरोहाक्रम्य तत्क्षणात् ॥ ३९ ॥
भारेण चूर्णयंस्तं तु पुनर्देवं स याचत ।
अहं ते वाहनं जातो लघुभूतो भव प्रभो ॥ ४० ॥
याचतस्तस्य वचसा लघुभारोऽभवद्विभुः ।
एतदृष्ट्वा महाश्चर्यं प्रणम्य मुनिरब्रवीत् ॥ ४१ ॥
ना बाले पौरुषं क्वापि मया दृष्टं जगत्त्रये ।
यच्छब्दात् पर्वताः शीर्णा लोकपालाश्च्युतस्थलाः ॥ ४२ ॥
स त्वया क्षणमात्रेण नीतो वाहनतां बलात् ।
तत आगत्य माताऽस्य वत्सला गृह्य तं शिशुम् ॥ ४३ ॥
प्रस्नुतौ पाययामास स्तनौ माता मुदा युता ।
उवाच न च जाने ते स्वरूपं च पराक्रमम् ॥ ४४ ॥
जन्मजन्मान्तरीयेण पुण्येन नौ गृहं गतः ।
ततः स मूषकं बद्धवा चिक्रीडे प्राकृतो यथा ।
एवं ते कथिता चास्य यथा मूषकवाहता ॥ ४५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे मूषकवाहनरूपधारणं नाम
चतुस्त्रिंशाधिकशततमोऽध्यायः ॥ १३४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें