श्रीगणेशपुराणे क्रीडाखण्डे षट्त्रिंशोत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे षट्त्रिंशोत्तरशततमोऽध्यायः

बालचरिते सिन्दूरनिर्गमं
॥ क उवाच ॥

एकस्मिन् दिवसे देवो जगाद मुनिसत्तमम् ।
पराशरं महाभाग्यं परदुःखप्रपीडितः ॥ १ ॥
॥ गजानन उवाच ॥
सिन्दुरेण तु दुष्टेन पीडितं सकलं जगत् ।
स्वाहास्वधावषट्कारैर्वर्जितं वेदघोषतः ॥ २ ॥

स्थानभ्रष्टा देवगणा भ्रष्टा ऋषिगणास्तथा ।
गजाननस्वरूपेण करिष्ये दुष्टनाशनम् ॥ ३ ॥
साधूनां पालनं चैव भूभारहरणं तथा ।
स्थापनं सर्वदेवानामानन्दं जगतोऽपि च ॥ ४ ॥
निधेहि मस्तके तात पाणिं मेऽभयदं शुभम् ।
अनुग्रहप्रसादात्ते हनिष्ये दुष्टदानवान् ॥ ५ ॥
॥ मुनिरूवाच ॥
आश्चर्यं परमं बाल बालभावात् प्रभाषसे ।
बालकः कौतुकाविष्टो याचते चन्द्रमण्डलम् ॥ ६ ॥
असाध्यं त्रिदशैः सर्वैः कर्म कर्तुं तथेच्छसि ।
यस्य श्वासेन गिरयः पतन्ति शतशो भुवि ॥ ७ ॥
पादाघातेन यस्याशु कम्पते भुवनत्रयम् ।
कथं त्वं युध्यसे तेन बिसतन्तुशरीरवान् ॥ ८ ॥
चरित्वा नववर्षाणि पूर्णानि तव साम्प्रतम् । (चत्वारि तव वर्षाणि पूर्णानि खेलयाऽधुना)
ममानुग्रहमात्रेण त्वं चेच्छक्तो भविष्यसि ॥ ९ ॥
तदाऽयं निहितो हस्तो मस्तकेऽभयदायकः ।
॥ क उवाच ॥
ततो हर्षयुतो देवो नमस्कृत्य मुनिं तदा ॥ १० ॥
जननीमपि दुर्गां च श्रीहरि हरमेव च ।
ययौ योद्धुं मूषकं तमारुह्य स गजाननः ॥ ११ ॥
अङकुशं परशुं पाशं कमलं च चतुर्भुजैः ।
दधानो गर्जनेनाशु कम्पयन् भुवनत्रयम् ॥ १२ ॥
प्रज्वलंस्तेजसा स्वेन प्रलयानलसन्निभः ।
क्षणेन प्राप सिन्दूरनगरं स गजाननः ॥ १३ ॥
घृसृणेश्वरसान्निध्यात् सिद्धसिन्दूरवाडकम् ।
तत्रस्थः प्रशशासासौ सिन्दूरो भुवनत्रयम् ॥ १४ ॥
तदुत्तरे स्थितो देवो जगर्ज गर्जयन् दिशः ।
चुक्षुभुः सागराः सप्त विशीर्णा गिरयोऽपि च ॥ १५ ॥
श्रुत्वा निनादं तस्याशु सर्वदैत्याश्चकम्पिरे ।
मुमूर्च्छुर्भीरवः सर्वे केचिन् मृत्युमुपाययुः ॥ १६ ॥
सिन्दूरोऽपि मुमूर्च्छाशु क्षणेन प्रकृतिं ययौ ।
उवाच सेवकान् सर्वान् कोऽयं गर्जति दृश्यताम् ॥ १७ ॥
मूर्छा प्राप्ता मया कस्माद्यच्छब्देन पुरः कथम् ।
स्थास्यामि तत्पुरः स्थातुं कस्य शक्तिर्भविष्यति ॥ १८ ॥
ततस्ते सेवका जग्मुस्तदा बालसमीपतः ।
तद्रूपं ते निरीक्ष्यैव सिंहस्य करिणो यथा ॥ १९ ॥
बिभ्युश्चैव चकम्पुश्च केचिद् धैर्यात् तमब्रुवन् ।
कस्य त्वं कुत आयातः किमर्थं तव नाम किम् ॥ २० ॥
सिन्दूरो विश्व संहाररसिकः क्रोधसंयुतः ।
श्रुत्वा ते क्रन्दितं सर्वं कम्पितं च ससिन्दुरः ॥ २१ ॥
बालोऽपि बलवान् भासि चतुःपञ्चाब्दिकोऽपि च ।
दृश्यसे सर्वसंहारकारणाय क्षमः क्षणात् ॥ २२ ॥
एवमाकर्ण्य तद्वाक्यं प्रोवाच स च तान् विभुः ।
अहं शिवसुतः ख्यातः पराशरगृहे वसन् ॥ २३ ॥
दुष्टसंहाररसिको भक्तपालनतत्परः ।
नानावतारकुशलो ब्रह्मादीनामगोचरः ॥ २४ ॥
गजाननेति मे नाम युद्धं कर्तुं समागतः ।
स्वामिनं वोऽथ गच्छन्तु तस्मै सर्वं ब्रुवन्तु च ॥ २५ ॥
तस्मिन् हते मानसं मे तोषमेष्यति दुर्जये ।
॥ क उवाच ॥
ततस्ते निर्ययुः शीघ्रं सिन्दूरं प्राब्रुवन् वचः ॥ २६ ॥
॥ दूता ऊचुः ॥
वयं शीघ्रतरं याताः पुरुषं भवदाज्ञया ।
कृतान्तसदृशं तं तु दृष्ट्वा सर्वे च कम्पिता ॥ २७ ॥
ततोऽभवत् प्रतापेन तदग्रे प्राब्रुवाम च ।
तस्तेन समाख्यातं निजं सर्वं समासतः ॥ २८ ॥
गजानननेति नामास्य शिवपुत्रत्वमेव च ।
दुष्टदैत्यविनाशाय साधूनां पालनाय च ॥ २९ ॥
साम्प्रतं तु त्वया सार्द्धं युद्धाय समुपागतः ।
स चतुर्वार्षिको बालो वल्गते बहु विस्तरम् ॥ ३० ॥
इदानीं स्वस्वभावेन जहि शत्रुं निजं लघुम् ।
तव तु श्वासमात्रेण दूरे गच्छेदयं शिशुः ॥ ३१ ॥
यस्य ते दर्शनात् स्वामिंश्चकम्पुः शिवकादयः ।
तस्य ते गणना कास्ति बालकस्याल्पमेधसः ॥ ३२ ॥
॥ क उवाच ॥
एवं दूतवचः श्रुत्वा सिन्दूरश्चिन्तयातुरः ।
बभूव म्लानतुण्डश्च क्रोधारुणविलोचनः ॥ ३३ ॥
उद्वमन् नयनाद्वह्निं प्रलयानलसन्निभम् ।
उवाच दूतान् क्रोधेन हर्षेण च समन्वितः ॥ ३४ ॥
॥ स उवाच ॥
आश्चर्यं परमं दूता भवद्वचसि मेऽभवत् ।
सिंहेन सह योद्धुं वै मशकः कथमेष्यति ॥ ३५ ॥
चतुर्वर्षेण बालेन योद्धव्यं किं मया सह ।
यूयं ततः कथं भीता न जाने तत्र कारणम् ॥ ३६ ॥
मयि क्रुद्धे जगन्नश्येत् तत्र का गणनाऽस्य ह ।
जगर्ज गर्जयन् व्योम दिशोऽपि विदिशोऽपि च ॥ ३७ ॥
धृत्वा शस्त्राणि चास्त्राणि निर्ययौ युद्धलालसः ।
तत ऊचुरमात्यास्तं नमस्कृत्यासुराधिपम् ॥ ३८ ॥
सत्सु बलेष्वमात्येषु कथं यासि स्वयं रणम् ।
वयं तं हि हनिष्यामः प्रतापात् तव दैत्यप ॥ ३९ ॥
समयार्थं महत्सैन्यं पाल्यते सोऽयमागतः ।
प्राणांस्त्यक्ष्यामहे सर्वे तव हेतोर्महाप्रभो ॥ ४० ॥
अनुजानीहि यास्यामो हन्तुं बालं रिपुं तव ।
॥ सिन्दूर उवाच ॥
यामि सर्वे प्रपश्यन्तु पौरुषं मम सैनिकाः ॥ ४१ ॥
इत्युक्त्वा प्रययो शीघ्रं बालं हन्तुं सुमत्सुकः ।
स प्राप क्षणमात्रेण यत्र बालः स्थितोऽभवत् ॥ ४२ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते सिन्दूरनिर्गमो नाम षट्त्रिंशोत्तरशततमोऽध्यायः ॥ १३६ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-136

कोई टिप्पणी नहीं:

123