श्रीगणेशपुराणे क्रीडाखण्डे द्वात्रिंशोत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे द्वात्रिंशोत्तरशततमोऽध्यायः

कैलासाभिगमनं
॥ क उवाच ॥

ततः कदाचिद् दैत्येन्द्र सिन्दूरो मदगर्वितः ।
सभासनगतः प्राह वृथा मे पौरुषं कृतम् ॥ १ ॥
इन्द्राऽदयो न मे युद्धं ददुर्ब्रह्मादयो हरिः ।
राज्ञां तु गणना नैव मृत्यु लोकनिवासिनाम् ॥ २ ॥

तथा मे पौरुषं व्यर्थं योद्धृभिर्हि विनाभवत् ॥ ३ ॥ (योद्ध्राऽभवत् खलु)
ततोऽन्तरिक्ष वाणीं स शुश्राव परमाद्भुताम् ।
॥ आकाशवाण्युवाच ॥
किमर्थं वल्गसे मूढ जातोऽस्ति तव युद्धदः ॥ ४ ॥
पार्वत्या उदराद् गर्भो वरेण्यगृहगोऽधुना ।
वर्द्धतेऽनन्तलीलोऽसौ यथेन्दुः शुक्लपक्षगः ॥ ५ ॥
॥ क उवाच ॥
श्रुत्वेत्थं सहसा वाणीं मुमूर्च्छ सिन्दुरस्तदा ।
विहर्षश्चिन्तयामास किमिदं केन भाषितम् ॥ ६ ॥
यदि दृश्यो भवेन् मह्यं खादेयं तं समस्तकम् ।
कालस्य मे कथं मृत्युः पश्चात् सूर्योदयो यथा ॥ ७ ॥
एवमुक्त्वोदतिष्ठत् स गर्जयन् विदिशो दिशः ।
उड्डीय सहसा प्रायात् कैलासं गिरिजालयम् ॥ ८ ॥
चूर्णयन् पर्वतान् वृक्षान् पातयन् स्वाग्ङमारुतात् ।
चेलतुः कूर्मशेषौ च चकम्पे च वसुन्धरा ॥ ९ ॥
न ददर्श शिवं तत्र पुनः सर्वसहां ययौ ।
बभ्राम वसुधां सर्वां शिवं वेगात् गवेषयन् ॥ १० ॥
पर्यल्याख्यं महारण्यमाजगाम रुषान्वितः ।
ददर्श दूरतो गौरीसहितं शङ्करं तदा ॥ ११ ॥
मण्डपं च गणांश्चैव सरांसि चोत्पलानि च ।
ततो जगाम सहसारिष्टं गौर्ये प्रकल्पितम् ॥ १२ ॥
अदृष्ट्वा तत्र बालं स चुकोपाग्निरिव ज्वलन् ।
ततः स तर्कयामास न वाणी नभसो मृषा ॥ १३ ॥
अस्यः सुतो मां हि हन्यान्न जातश्चेद् भविष्यति ।
तस्मादेनां निहन्म्यद्य मूलच्छेदस्ततो भवेत् ॥ १४ ॥
॥ क उवाच ॥
एवं निश्चित्य मनसा ततः शस्त्रमुपाददे ।
यावदुमां हन्ति दुष्टस्तावद् दृष्टः शिशुः पुरः ॥ १५ ॥
चतुर्भुजोऽतिरुचिरो मुकुटाङ्गदभूषितः ।
परशुं कमलं मालां दधद् विस्मयदायकः ॥ १६ ॥
कटौ शेषं गले हारं नूपुरौ चाङ्घ्रियुग्मयोः ।
निवृत्तस्तद्वधात् सद्यस्तां च सुप्ताममन्यत ॥ १७ ॥
दधार बालकं हस्तेऽकाङ्क्षत् क्षेप्तुं महोदधौ ।
एवं निश्चितसङ्कल्पस्ततोऽसौ चकितः पुरा ॥ १८ ॥
ततः स बालो ववृधे हिमाचल इवापरः ।
सिन्दूरोऽपि च कम्पेऽसौ मदाभारातुरः क्षणात् ॥ १९ ॥
श्वासाकुलः पुरो गन्तुं न शशाक स्वशक्तितः ।
ततस्तत्याज तं बालं दैत्यो विह्वलतां गतः ॥ २० ॥
बाले तु पतिते भूमौ महारावविराविणि ।
चेलुश्च पर्वता नादैश्चकम्पे च वसुन्धरा ॥ २१ ॥
बभ्रुमुर्विहगा व्योम्नि नानारावविराविणः ।
अर्णवाः क्षोभिताः सप्त ब्रह्माण्डमपि पुस्फुटे ॥ २२ ॥
स बालः पतितो रेवाजलान्ते मुनिसन्निधौ ।
तत्र तीर्थमभूच्छ्रेष्ठं गणेशकुण्डमित्युत ॥ २३ ॥
अस्या आजन्मतः पापं नाशमेति स्मृतेः क्षणात् ।
दर्शनाद् दशजन्मीयं स्नानाच्च शतजन्मजम् ॥ २४ ॥
सेवनं मोक्षदं यस्य अनुष्ठानवतां नृणाम् ।
तद्देहरुधिरात् तत्र प्रस्तरा रक्ततां गताः ॥ २५ ॥
त एव नार्मदाः ख्याता गणेशाः पापनाशनाः ।
दर्शनात् पूजनात् सर्वकामदा भक्तिकारिणाम् ॥ २६ ॥
नर्मदामहिमा सर्वो वर्णितुं नैव शक्यते ।
ततः स जहृषे दैत्यो रिपुर्मे नाशतां गतः ॥ २७ ॥
तावत् कुण्डात् समुद्भूतो भीषणः पुरुषो महान् ।
जटाभारेण सञ्छन्नो वल्लीछन्नो धरो यथा ॥ २८ ॥
दंष्ट्राकरालवदनो जिह्वाव्यालीसमावृतः ।
दीर्घपाण्यङ्घ्रियुगलः श्वासव्याकुललोचनः ॥ २१ ॥
दृष्ट्वा तथाविधं तं तु क्रोधव्याकुललोचनः ।
उवाच दैत्यः सिन्दुरो न चास्य गणना मम ॥ ३० ॥
एवमुक्त्वा खङ्गहस्तो ययौ हन्तुं तु तं रुषा ।
खड्गेन हन्ति तं यावत् तावत् स ददृशेऽम्बरे ॥ ३१ ॥
उवाच दैत्यं रे दैत्य वृथा मां त्यक्तवान् क्षितौ ।
तवान्तकस्तु रे मूढ वर्धितः क्वचिदेव हि ॥ ३२ ॥
हनिष्यत्येव नूनं त्वां साधुरक्षणतत्परः ।
अन्तर्दधे ततो भीम एवमुक्त्वा स पूरुषः ॥ ३३ ॥
ततो दैत्यो महारोषादुवाच निजसेवकान् ।
ध्रियतां ध्रियतामेष येनोक्तं पौरुषं वचः ॥ ३४ ॥
यदा तं क्वाऽपि नापश्यत् तदा स्वस्थानमागमत् ।
द्रक्ष्यामि तं यदा शत्रुं जयिष्य इत्यमन्यत ॥ ३५ ॥
एतावच्चरितं तस्य पार्वत्याऽज्ञायि नैव तत् ।
तस्यैव मायामोहेन प्राप्तया मोहमुत्तमम् ॥ ३६ ॥
ततः प्रोवाच गिरिशं पार्वती विनयान्विता ।
अत्र पीडा दैत्यकृता प्रारब्धा जगदीश्वर ॥ ३७ ॥
कैलासं गन्तुमिच्छामि तवेच्छा चेन्नयस्व माम् ।
एवमाकर्ण्य तद्वाक्यं जहृषे शङ्करोऽपिच ॥ ३८ ॥
आरुह्य नन्दिनं सद्यः पार्वत्या सह शङ्करः ।
सप्तकोटिगणाकीर्णः कैलासं प्राप तत्क्षणात् ।
प्रविश्य स्वालयं गौरी परमं हर्षमाययौ ॥ ३९ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे कैलासाभिगमनं नाम द्वात्रिंशोत्तरशततमोऽध्यायः ॥ १३२ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-132

कोई टिप्पणी नहीं:

123