श्रीगणेशपुराणे क्रीडाखण्डे नवत्रिशदधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे नवत्रिशदधिकशततमोऽध्यायः

गणेशगीता - कर्मयोगोनाम द्वितीयोऽध्यायः
॥ वरेण्य उवाच ॥

ज्ञाननिष्ठा कर्मनिष्ठा द्वयं प्रोक्तं त्वया विभो ।
अवधार्य वदैकं मे निश्रेयसकरं नु किम् ॥ १ ॥
॥ गजानन उवाच ॥
अस्मिंश्चराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय ।
साङ्ख्यानां बुद्धियोगेन वैधयोगेन कर्मणाम् ॥ २ ॥

अनारम्भेण वैधानां निष्क्रियः पुरुषो भवेत् ।
न सिद्धिं याति सन्त्यागात् केवलात् कर्मजान्नृप ॥ ३ ॥
कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते ।
अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते ॥ ४ ॥
कर्मकारीन्द्रियग्रामं नियम्यास्ते स्मरन् पुमान् ।
तद्गोचरान्मन्दचित्तो धिगाचारः स भण्यते ॥ ५ ॥
तद्ग्रामं सन्नियम्यादौ मनसा कर्म चारभेत् ।
इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप ॥ ६ ॥
अकर्मणः श्रेष्ठतमं कर्मानीच्छाकृतं तु यत् ।
वर्ष्मणः स्थितिरप्यस्याकर्मणो नैव सेत्स्यति ॥ ७ ॥
असमर्प्य निबध्यन्ते कर्म तेन जना मयि ।
कुर्वीत सततं कर्माऽनाषङ्गो हि मदर्पणम् ॥ ८ ॥
मदर्थं यानि कर्माणि तानि बध्नन्ति न क्वचित् ।
सवासनमिदं कर्म बध्नाति देहिनं बलात् ॥ ९ ॥
वर्णान् सृष्ट्वाऽवदं चाहं सयज्ञांस्तान् पुरा प्रिय ।
यज्ञेन ऋध्यतामेष कामदः कल्पवृक्षवत् ॥ १० ॥
सुरांश्चानेन प्रीणध्वं सुरास्ते प्रीणयन्तु वः ।
लभध्वं परमं स्थानमन्योन्यप्रीणनात् स्थिरम् ॥ ११ ॥
इष्टा देवाः प्रदास्यन्ति भोगानिष्टान् सुतर्पिताः ।
तैर्दत्तांस्तान्नरस्तेभ्योऽदत्वा भुङ्क्ते स तस्करः ॥ १२ ॥
हुतावशिष्टभोक्तारो मुक्ताःस्युः सर्वपातकैः ।
अदन्त्येनो महापापा आत्महेतोः पचन्ति ये ॥ १३ ॥
उर्जो भवन्ति भूतानि देवादन्नस्य सम्भवः ।
यज्ञाच्च देवसम्भूतिस्तदुत्पत्तिश्च वैधतः ॥ १४ ॥
ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः ।
अतो यज्ञे च विश्वस्मिन्स्थितं मां विद्धि भूमिप ॥ १५ ॥
संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः ।
स मुदा प्राणिति भूपेन्द्रियक्रीडोऽधमो जनः ॥ १६ ॥ (मुदा प्रीण ते)
अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः ।
आत्मतृप्तो नरो यः स्यात्तस्यार्थो नैव विद्यते ॥ १७ ॥
कार्याकार्यकृतीनां स नैवाप्नोति शभाशुभे ।
किञ्चिदस्य न साध्यं स्यात् सर्वजन्तुषु सर्वदा ॥ १८ ॥
अतोऽसक्ततया भूप कर्तव्यं कर्म जन्तुभिः ।
सक्तोऽगतिमवाप्नोति मामवाप्नोति तादृशः ॥ १९ ॥
परमां सिद्धिमापन्नाः पुरा राजर्षयो द्विजाः ।
सङ्ग्रहाय हि लोकानां तादृशं कर्म चारभेत् ॥ २० ॥
श्रेयान् यत्कुरुते कर्म तत्करोत्यखिलो जनः ।
मनुते यत् प्रमाणं स तदेवानुसरत्यसौ ॥ २१ ॥
विष्टपे मे न साध्योऽस्ति कश्चिदर्थो नराधिप ।
अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहम् ॥ २२ ॥
न कुर्वेऽहं यदा कर्म स्वतन्त्रोऽलसभावितः ।
करिष्यन्ति मम ध्यानं सर्वे वर्णा महामते ॥ २३ ॥
भविष्यन्ति ततो लोका उच्छिन्नाः सम्प्रदायिनः ।
हन्ता स्यामस्य लोकस्य विधाता सङ्करस्य च ॥ २४ ॥
कामिनो हि सदा कामैरज्ञानात् कर्मकारिणः ।
लोकानां सङ्ग्रहायैतद्विद्वान् कुर्यादसक्तधीः ॥ २५ ॥
विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम् ।
योगयुक्तः सर्वकर्माण्यर्पयेन्मयि कर्मकृत् ॥ २६ ॥
अविद्यागुणसाचिव्यात् कुर्वन्कर्माण्यतन्द्रितः ।
अहङ्कारान् मन्दबुद्धिरहं कर्तेति योऽब्रवीत् ॥ २७ ॥
यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद् गुणकर्मणोः ।
करणं विषये वृत्तमिति मत्वा न सज्जते ॥ २८ ॥
कुर्वन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः ।
अविश्वज्ञाः स्वात्मद्रुहो विश्वविन्नैव लङघयेत् ॥ २९ ॥
नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद् बुधः ।
त्यक्त्वाऽहं ममताबुद्धिं परां गतिमवाप्नुयात् ॥ ३० ॥
अनीर्ष्यन्तो भक्तिमन्तो ये मयोक्तमिदं शुभम् ।
अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः ॥ ३१ ॥
ये चैव नानुतिष्ठन्ति अशुभा हतचेतसः ।
ईर्ष्यमाणान् महामूढान्नष्टांस्तान् विद्धि मे रिपून् ॥ ३२ ॥
तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि ।
अनुयाति च तामेवग्रहस्तत्र मुधा मतः ॥ ३३ ॥
कामश्चैव तथा क्रोधः खानामर्थेषु जायते ।
नैतयोर्वश्यतां यायादस्य विध्वंसकौ यतः ॥ ३४ ॥
शस्तोऽगुणो निजो धर्मः साङ्गादन्यस्य धर्मतः ।
निजे तस्मिन्मृतिः श्रेयो परत्र भयदः परः ॥ ३५ ॥
॥ वरेण्य उवाच ॥
पुमान् यत् कुरुते पापं स हि केन नियुज्यते ।
अकाङ्क्षन्नपि हेरम्ब प्रेरितः प्रबलादिव ॥ ३६ ॥
॥ श्रीगजानन उवाच ॥
कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ ।
नयन्तौ वश्यतां लोकान् विद्ध्येतौ द्वेषिणौ वरौ ॥ ३७ ॥
आवृणोति यथा माया जगद्बाष्पो जलं यथा ।
वर्षामेघो यथा भानुं तद्वत् कामोऽखिलांश्च रुट् ॥ ३८ ॥
प्रतिपत्तिमतो ज्ञानं छादितं सततं द्विषा ।
इच्छात्मकेन तरसा दुष्पोष्येण च शुष्मिणा ॥ ३९ ॥
आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठति ।
तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ ॥ ४० ॥
तस्मानियम्य तान्यादौ स मनांसि नरो जयेत् ।
ज्ञानविज्ञानयोः शान्तिकरं पापं मनोभवम् ॥ ४१ ॥
यतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः ।
ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मतः ॥ ४२ ॥
बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना ।
हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात् ॥ ४३ ॥
॥ ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``कर्मयोगो'' नाम द्वितीयोऽध्यायः ॥ २ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे कर्मयोगोनाम नवत्रिशदधिकशततमोऽध्यायः ॥ १३९ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-139

कोई टिप्पणी नहीं:

123