श्रीगणेशपुराणे क्रीडाखण्डे सप्तत्रिशदधिकशततमोऽध्यायः
वरेण्योपदेश
॥ क उवाच ॥
तं दृष्ट्वा बालकं प्राह सिन्दूरो मदगर्वितः ।
लज्जा मे जायते मन्द युध्यतो बालकेन ह ॥ १ ॥
याहि शीघ्रं गृहं बाल पिब मातुः स्तनं मुदा ।
वृथा मच्छरपातेन सद्यो मृत्युमुपैष्यसि ॥ २ ॥
पलायन्ते हि मां दृष्ट्वा केशाद्यास्त्रिदिवौकसः ।
मृते त्वयि तव स्नेहात् पितरौ ते मरिष्यतः ॥ ३ ॥
अतो गच्छ न मे स्वास्यं दर्शयस्व किशोरक ।
यस्य मे तलघातेन ब्रह्माण्डं शतधा भवेत् ॥ ४ ॥
॥ देव उवाच ॥
सत्यमुक्तं त्वया दुष्ट न चेतसि विचारितम् ।
न ज्ञातं मम सामर्थ्यं रूपं वा विविधं त्वया ॥ ५ ॥
यस्य मे क्रोधदृष्टयैव भ्रष्टाः स्युः सुरनायकाः ।
स्वेच्छयाऽहं सृजे भावैस्त्रिभिरेव हरामि च ॥ ६ ॥
विश्वं चराचरं नानारूपवांस्तु युगे युगे ।
भूमिभारं महाघोरं हरामि दुष्टनाशनात् ॥ ७ ॥
न लघुर्लघुतामेति पराक्रमयुतोऽपि चेत् ।
अणुमात्रो दहेद्वह्निः सकलं नगरं महत् ॥ ८ ॥
जिजीविषुश्चेद् गच्छ त्वं नत्वा मां निजमन्दिरम् ।
मानिनो नैव निघ्नन्ति नतं च शरणागतम् ॥ ९ ॥
नो चेन्मच्छस्त्रपातेन स्वर्गलोकं गमिष्यसि ।
हते त्वयि सुखं यास्ये त्वया यत्पीडितं जगत् ॥ १० ॥
ब्रह्मणो वरदानेन मा गर्वं कुरु दैत्यराट् ।
विपरीतं भवेत् सर्वं विपरीतं यथा पुरा ॥ ११ ॥
स्तम्भेऽवतीर्णो न्यहनत् हिरण्यकशिपुं विभुः ।
सुग्रीवेण हतो बन्धू राममाश्रित्य कालतः ॥ १२ ॥
विपरीता मतिर्जाता तवापि कालयोगतः ।
अतिस्थूलो लघुतरो भाससे मम साम्प्रतम् ॥ १३ ॥
धृत्वा धैर्यं च लज्जां च युद्धं कुरु मया सह ।
॥ क उवाच ॥
एवमुक्त्वा दधाराशु विराङ्रूपं गजाननः ॥ १४ ॥
ब्रह्माण्डदूर्ध्वमगमन्मस्तकश्चरणौ तथा ।
पातालानि च सप्तानि भित्त्वा यातौ श्रुती दिशः ॥ १५ ॥
पश्यति स्म यदा दैत्यो बालं तं विश्वरूपिणम् ।
सहस्रशिरसं देवं सहस्राक्षं दिवो भुवम् ॥ १६ ॥
सहस्रपादं व्याप्याशु स्थितं व्याप्य दिशो दश ।
दिव्याम्बरं दिव्यगन्धं दिव्यालङ्कारभूषितम् ॥ १७ ॥
असङ्ख्यसूर्यसदृशमसङ्ख्यरूपिणं विभुम् ।
एवं दृष्ट्वा विराङ् रूपं च कम्पे दैत्यमानसम् ॥ १८ ॥
धृत्वा धैर्यं पुनर्दैत्यो ययौ देवस्य सन्निधौ ।
जगर्ज गर्जयन् व्योम दिशोऽपि विदिशोऽपि च ॥ १९ ॥
उद्यम्य खड्गं सहसा देवं हन्तुमियेष सः ।
ययौ तत्पुरतः क्रोधात् पतङ्गो ज्वलनं यथा ॥ २० ॥
॥ देव उवाच ॥
नायं मूढो विजानीते स्वरूपं मम दुर्लभम् ।
अहमेव विमोक्ष्यामीत्युक्त्वा कण्ठे दधार तम् ॥ २१ ॥
ममर्द सिन्दुरं तं स कराभ्यां बलवत्तरम् ।
ततस्तदसृजाङ्गानि विलिलिम्पारुणेन सः ॥ २२ ॥
ततः सिन्दूरवदनः सिन्दूरप्रिय एव च ।
अभवज्जगतीख्यातो भक्तकामप्रपूरकः ॥ २३ ॥
सिन्दूरे निहते देवा मुदा पुष्पाण्यवाकिरन् ।
अवाद्यञ्जयवाद्यानि ननृतुश्चाप्सरोगणाः ॥ २४ ॥
आययुस्तत्र मुनयो वसिष्ठप्रमुखाः सुराः ।
ब्रह्माद्याः सकलाः शक्रपुरोगा वस्तुपाणयः ॥ २५ ॥
जयशब्दैर्नमः शब्दैः पूरयन्तो दिशो दश ।
ततः सर्वे भूमिपाला ययुस्तत्र मुदान्विताः ॥ २६ ॥
षोडशैरुपचारैस्तमानर्चुः परमेश्वरम् ।
गजाननं चतुर्बाहुं सर्वाभरणभूषितम् ॥ २७ ॥
दिव्याम्बरं दिव्यगन्धमाखुवाहनमीश्वरम् ।
प्रार्थयामासुरिन्द्राद्याः स्तोतुं त्वां न हि शक्नुमः ॥ २८ ॥
यत्र कुण्ठाश्चतुर्वेदा ब्रह्माद्याश्च मुनीश्वराः ।
त्वं कर्ता कारणं कार्यं रक्षकः पोषकोऽपि च ॥ २९ ॥
संहर्ता मोहनश्चास्य विश्वस्य ज्ञानदः क्वचित् ।
सरितः सागरा वृक्षाः पर्वताः पशवोऽखिलाः ॥ ३० ॥
वायुराकाशपृथिवी वह्निर्वारि त्वमेव च ।
ब्रह्मा विष्णुः शिवः शक्रो मरुतो मुनयोऽपि च ॥ ३१ ॥
गन्धर्वाश्चारणाः सिद्धा यक्षराक्षसपन्नगाः ।
अप्सरः किन्नरा देव त्वमेव स चराचरम् ॥ ३२ ॥
वयं धन्या यतो दृष्टः प्रत्यक्षं मोक्षसाधनः ।
सिन्दूरे तु हते देव सुखं प्राप्ता सुरोत्तमाः ॥ ३३ ॥
राजानो मुनयो लोकाः स्वस्वकार्ये मुदा रताः ।
भविष्यन्ति स्वधास्वाहावषट्काराश्रिताः क्रियाः ॥ ३४ ॥
नानावतारैः कुरुषे पालनं त्वं विशेषतः ।
दुष्टानां नाशनं सद्यो भक्तानां कामपूरकः ॥ ३५ ॥
॥ क उवाच ॥
एवमुक्त्वा सुरास्तं तु व्यदधुः सर्व एव ते ।
प्रासादं रम्यशिखरं स्थापयित्वा गजाननम् ॥ ३६ ॥
यस्य दर्शनमात्रेण मुच्यते पातकाज्जनः ।
कुलानि तारयेत् सप्त स्मरणादस्य मानवः ॥ ३७ ॥
पूजयित्वा प्रणम्यैनं परितृप्तिं ययुः सुराः ।
ततस्तं मुनयः सर्वे पुपूजुः परमादरात् ॥ ३८ ॥
सिन्दूरहेति नामास्य चक्रुः सिन्दूरनाशनात् ।
अतिसन्तुष्टमनसो नत्वा जग्मुः स्वमाश्रमम् ॥ ३९ ॥
ततः सर्वे मुनिवरा नत्वा देवं सुभक्तितः ।
पुपूजः परमात्मानं नानाद्रव्यैरनेकशः ॥ ४० ॥
राजसदनमिति ते क्षेत्रं ख्यातिमुपैष्यति ।
वरेण्यस्तं विलोक्यैव निजपुत्रमबुध्यत ॥ ४१ ॥
यतो राज्ञां पदान्याशु हत्वा दैत्यं सुदारुणम् ।
दत्तानि भवता नाथसिन्दूरं लोककण्टकम् ॥ ४२ ॥
दैत्यविमर्दन इति नाम ख्यातिमुपैष्यति ।
पुपूज तनयं स्नेहात् तदा दृष्टपराक्रमम् ॥ ४३ ॥
मुमोच स्नेहजं चाश्रु न शशाक प्रभाषितुम् ।
अतिगद्गदकण्ठत्वाद्रुरोद भृशदुःखितः ॥ ४४ ॥
॥ वरेण्य उवाच ॥
मूढभावेन सन्त्यक्तो विघ्नभीतेन पापिना ।
यं त्वां पुजयितुं याता ब्रह्मशक्रपुरोगमाः ॥ ४५ ॥
अनन्तकोटिब्रह्माण्डनायकं त्वां न विद्महे ।
कामधेनुं निधिं कल्पवृक्षं मूढो यथा त्यजेत् ॥ ४६ ॥
मायया मोहितस्तेऽहमत्यजं त्वां तथा गृहात् ।
॥ क उवाच ॥
इति तच्छुचमाकर्ण्य कृपया परमेश्वरः ॥ ४७ ॥
आलिलिङ्ग वरेण्यं तं चतुर्बाहुभिरादरात् ।
उवाच परया भक्त्या वरेण्यनृपतिं विभुः ॥ ४८ ॥
॥ देव उवाच ॥
पुराकल्पे महारण्ये तपस्तप्तं सुदारुणम् ।
उभाभ्यां पक्वपर्णानि भक्षयित्वा वटस्य ह ॥ ४९ ॥
दिव्यवर्षसहस्रेण प्रसन्नोऽहं तदाभवम् ॥
भवद्भ्यां हि वृतः पुत्रो न मोक्षो मूढभावतः ॥ ५० ॥
सोऽहं पुत्रत्वमापन्नो भूभारहरणाय च ॥
सिन्दूरस्य वधं कर्त्तुं साधूनां पालनं तथा ॥ ५१ ॥
अन्यथा न शरीरं मे निराकारस्य साक्षिणः ।
वचनं तु कृतं सत्यं त्रैलोक्यस्यापि तोषणम् ॥ ५२ ॥
यास्येऽधुना निजं धाम न त्वं शोके मनः कृथाः ।
॥ वरेण्य उवाच ॥
संसारे बहुदुःखानि दृष्टानि दुःसहानि च ॥ ५३ ॥
इदानीं मोक्षमार्गं मे कृपया दिश दुःखहन् ।
साक्षात्कारे कथं बन्धस्तव स्याद् द्विरदानन ॥ ५४ ॥
मुक्तिं येनोपदेशेन यास्यामि तद्वदस्व मे ।
योगं तं येन सन्त्यक्ष्ये कामं क्रोधं मृतेर्भयम् ॥ ५५ ॥
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं कृपया स गजाननः ।
उपवेश्य स्वासने तं हस्तं शिरसि चादधत् ॥ ५६ ॥
गणेशगीतां तस्मै स उपदेष्टं प्रचक्रमे ।
निरस्य सर्वसन्देहान् विश्वरूपं प्रदर्श्य च ॥ ५७ ॥
गीतासारं स बुध्वैवः(ज्ञातवान् स्) गणेशस्योपदेशतः ।
स्थाप्य राज्यममात्येषु तपसे वनमाययौ ॥ ५८ ॥
अतिवैराग्यसंयुक्तो दध्यौ तं च गजाननम् ।
आवर्तयत् सदा गीतामनन्य विषयःकृती ॥ ५९ ॥
यथा जलं जले क्षिप्तं जलमेव हि जायते ।
तथा तद्ध्यानतः सोऽपि तन्मयत्वमुपाययौ ॥ ६० ॥
॥ मुनिरुवाच ॥
चतुरानन देवेश कृपया परया वद ॥ ४ ॥
गीतां तां तु गणेशस्य सर्वाऽज्ञानविनाशनीम् ॥ ६१ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे वरेण्योपदेशो नाम
सप्तत्रिशदधिकशततमोऽध्यायः ॥ १३७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें