श्रीगणेशपुराणे क्रीडाखण्डे त्रयस्त्रिंशोत्तरशततमोऽध्यायः
पराशरदर्शनं
॥ व्यास उवाच ॥
पुष्पिकानिकटे त्यक्तो वरेण्यस्य गृहे स किम् ।
चकार तन्ममाचक्ष्व कार्यं विस्तरतोऽब्जज ॥ १ ॥
॥ क उवाच ॥
सम्यक् पृष्टं त्वया वत्स हृदयानन्दकारकम् ।
कथयिष्ये विधानेन तत्सर्वं पापनाशनम् ॥ २ ॥
चतुर्बाहुं रक्तवर्णं गजवक्त्रमलङ्कृतम् ॥ ३ ॥
कस्तूरीतिलकं मुक्तामालया सुविराजितम् ।
पीतवस्त्रपरीधानं चारुचन्दनचर्चितम् ॥ ४ ॥
देदीप्यमानं वपुषा नानालङ्कारसंयुतम् ।
ततः सा पुष्पिका दृष्ट्वा बालकं तु तथाविधम् ॥ ५ ॥
विस्मिता दुःखिता चापि भयभीताऽभवत्तदा ।
घ्नती वक्षो बहिर्याता पाणिभ्यां शोककर्शिता ॥ ६ ॥
तदाक्रन्दितमाकर्ण्य मीलिताः परिचारिकाः ।
ताभिरत्यद्भुतं दृष्ट्वा बालकं तं तथाविधम् ॥ ७ ॥
नृपोऽपि ज्ञातवृत्तान्तः सगणोऽभिययौ गृहे ।
ततस्तेऽपि भयोद्विग्ना दृष्ट्वा बालं तथाविधम् ॥ ८ ॥
अधीराः पपलुस्तस्य केचिन् मूर्च्छामुपाययुः ।
केचिच्च नृपतिं प्राहुर्न जातो न भविष्यति ॥ ९ ॥
न दृष्टो न श्रुतः क्वापि बाल एतादृशो नृणाम् ।
नैवायं स्थापनीयस्ते वंशच्छेदकरो गृहे ॥ १० ॥
एवमाकर्ण्य सर्वेषां वाक्यं मेने स भूपतिः ।
दूतानुवाच बालोऽयं त्यज्यतां गहने वने ॥ ११ ॥
ततो दूता गता मध्ये गृहीत्वा बालकं तु तत् ।
गहनं काननं दृष्ट्वा वायुस्पर्शविवर्जितम् ॥ १२ ॥
तीरे तु सरसस्तत्र क्षिप्त्वा ते पर्णसञ्चयैः ।
आच्छाद्य प्रययुः शीघ्रं वरेण्यं नृपतिं पुनः ॥ १३ ॥
सभामध्ये नृपं दृष्ट्वा नमस्कृत्वाऽब्रुवंस्तदा ।
आज्ञया तव राजेन्द्र सिंहव्याघ्रनिषेविते ॥ १४ ॥
त्यक्त्वा बालं समायाता भक्षितः स्याद् वनेचरैः ।
॥ क उवाच ॥
यावच्च भक्षितुं याता जम्बुकास्तावदेव तम् ॥ १५ ॥
पराशरो मुनिवरो ददर्श करुणानिधिः ।
चतुर्भुजं गजास्यं तं कोटिसूर्यनिभं शिशुम् ॥ १६ ॥
नानालङ्कारसंयुक्तं दिव्याम्बरविभूषितम् ।
सर्पवेष्टितसन्नाभिं चिन्तामणिविभूषितम् ॥ १७ ॥
मुमोह मायसा तस्मै सर्वज्ञाननिधिर्मुनिः ।
शुशोच किमिदं विघ्नं मम नाशाय निर्मितम् ॥ १८ ॥
इन्द्रेण मे तपोनाशं काङ्क्षता स्वार्थसाधनम् ।
अकारि न मया किञ्चिद् दुष्कृतं पापभीरुणा ॥ १९ ॥
दीननाथं चन्द्रचूड रक्ष मां महतो भयात् ।
एवं शोचन्तमालोक्य गजास्यः करुणायुतः ॥ २० ॥
निराकरोन् मोहजालं तं ततोऽलक्षयत्पुरः ।
तमेव परमात्मानं परब्रह्मस्वरूपिणम् ॥ २१ ॥
भक्तानां रक्षणं कर्तुम्मीदृशं वेषमास्थितम् ।
धन्यं मेऽद्य जनुर्मातापितरौ च तपो महत् ॥ २२ ॥
निरस्तौ जन्ममृत्यू मे प्राप्तं वाञ्छितमुत्तमम् ।
केनायं हतभाग्येन बालस्त्यक्तो वनान्तरे ॥ २३ ॥
॥ क उवाच ॥
एवमुक्त्वा मुनिः सोऽथ निन्ये बालं स्वमाश्रमम् ।
वत्सलाऽस्य ततः पत्नी दृष्ट्वा बालं तथाविधम् ॥ २४ ॥
आनीतं स्वामिना ज्ञात्वा ननन्द स्नेहनिर्भरा ।
हृदये विनिवेश्यैनं प्राह प्राणपतिं तदा ॥ २५ ॥
बहुकालकृतं स्वामिंस्तपस्ते फलितं गुरु ।
यस्य स्वरूपं न ब्रह्मा न हरो न श्रियः पतिः ॥ २६ ॥
मुनयो न विदुः साक्षाद् दर्शनं जातमद्य नौ ।
यः कर्त्ता रक्षिता हन्ता सर्वस्य जगतः प्रभुः ॥ २७ ॥
अवतीर्णो भुवो भारं हर्तुं नानावतारकृत् ।
महद् भाग्यं हि नौ स्वामिन्ननायासेन विश्वभृत् ॥ २८ ॥
अक्षिगोचरतां यातो मवोवाचामगोचरः ।
॥ क उवाच ॥
तस्य बालस्य स्पर्शेन स्तनौ पीनपयोधरौ ॥ २९ ॥
जातौ पपौ ततो बालः सा चानन्दमवाप ह ।
ततः शुश्राव राजाऽसौ वरेण्यो बालकं तु तम् ॥ ३० ॥
पराशरेण मुनिना पालितं दिव्यचक्षुषा ।
वाद्यघोषेण महता शर्करां च गृहे गृहे ॥ ३१ ॥
दापयामास हर्षेण ब्राह्मणान् सुहृदोऽपि च ।
तोषयामास वस्त्राद्यैः काञ्चनै रत्नसञ्चयैः ॥ ३२ ॥
गावः कामदुघा जाताः शुष्कवाप्यो जलान्विताः ।
आश्रमे तु मुनेस्तस्य शुष्कवृक्षाः फलान्विताः ॥ ३३ ॥
य इदं शृणुयान् मर्त्यः पुत्रवान् धनवान् भवेत् ॥ ३४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे पराशरदर्शनं नाम
त्रयस्त्रिंशोत्तरशततमोऽध्यायः ॥ १३३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें