श्रीगणेशपुराणे क्रीडाखण्डे षोडशाधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे षोडशाधिकशततमोऽध्यायः

रणशोधनं
॥ क उवाच ॥

जयं प्राप्ते मयूरेशे ययुस्तत्र मुनिश्वराः ।
शिवोऽपि गिरिजायुक्तो ययौ तं च निरीक्षितुम ॥ १ ॥
औत्स्युक्यात् पार्वती चैनं समालिङ्ग्याऽब्रवीत्तदा ।
॥ पार्वत्युवाच ॥
अतिश्रान्तोऽसि दैत्यस्य कठिनस्य रणे सुत ॥ २ ॥


कोमलानि तवाङ्गानि कथं शस्त्राणि सेहिरे ।
कृतान्तसदृशो दैत्यो मायावी बलवत्तरः ॥ ३ ॥
स कथं कोमलाङ्गेन त्वया युधि विनिर्जितः ।
प्रारुदत् करुणं देवी धृत्वाऽङ्के निजबालकम् ॥ ४ ॥
ततो मुनिगणाः शम्भुर्वारयामास तां शिवाम् ।
॥ शिव उवाच ॥
न जानीषे मयूरेशं सर्वकारणकारणम् ॥ ५ ॥
अनादिनिधनं देवं वेदान्तागोचरं विभुम् ।
त्रयस्त्रिंशत्कोटिदेवैर्नुतं देवारिदारणम् ॥ ६ ॥
सृष्टिस्थितिज्ञानहेतुं लयहेतुमनामयम् ।
भूभारोत्तारणार्थाय नानारूपधरं परम् ॥ ७ ॥
ब्रह्माण्डव्याप्तरोमाङ्कमेकानेकस्वरूपिणम् ।
तपोबलसमायुक्तं योगशास्त्रसमन्विम् ॥ ८ ॥
मायाविभेदकं देवं मायिनामपि मायिनम् ।
बालभावेऽपि दैत्यानां हन्तारं किं न वेत्सि तम् ॥ ९ ॥
॥ क उवाच ॥
एवं स्तुतिं समाकर्ण्य हृष्टा सा पार्वती तदा ।
ततो हृष्टो मयूरेशो मुनीन् प्राह शिवं शिवाम् ॥ १० ॥
॥ मयूरेश उवाच ॥
न भयं वज्रहस्तान्मे अन्यस्मात् तत् कथं भवेत् ।
सर्वेषां नमनान्मातर्मुनीनामाशिषोऽपि च ॥ ११ ॥
शिवस्य वरदानेन सिन्धुदैत्यो जितो मया ।
स्कन्दादयो जिता येन युध्यन्ते न हि तेन ते ॥ १२ ॥
असङ्ख्याता हता देवा दैत्यसेनाचरैर्नरैः ।
असृङ्गनद्यः सम्प्रवृत्ता वीरहर्षकरा बहु ॥ १३ ॥
रणे निपतितान् देवान् विचिन्वानो मुनीश्वराः ।
॥ क उवाच ॥
एवं मयूरेशवचो निशम्य प्राह धर्मवित् ॥ १४ ॥
वसिष्ठो मुनिवर्यस्तं यामः सर्वे चलन्तु वै ।
ततो ययौ रणे द्रष्टुं मुनिभिस्तैर्मयूरराट् ॥ १५ ॥
मज्जारक्तवसागन्धो घ्रातुं यत्र न शक्यते ।
अतिभीषणकायांस्तान् छिन्नभिन्नाननेकशः ॥ १६ ॥
दृष्ट्वा बीभत्सरूपांस्तान् प्रफुल्लान् किशुकानिव ।
विकृतिं परियातानि मनांसि दानवद्विषाम् ॥ १७ ॥
पश्यतां वीरराशींस्तान् वीरो परि प्रतिष्ठितान् ।
कांश्चिच्च जीवतः कांश्चिन्मूर्च्छितान् शस्त्रघाततः ॥ १८ ॥
कांश्चिच्च प्रविशीर्णाङ्गान् देवान् देवा व्यकर्षयन् ।
सहसा न विदुर्देवा देवान् वा दानवानपि ॥ १९ ॥
अब्रुवंस्तत्र केचिच्च त्वदर्थं मृत्युमागताः ।
अन्ते ते दर्शनं प्राप्तमियुक्त्वा व्यसृजन्नसून् ॥ २० ॥
॥ क उवाच ॥
एवं श्रुत्वा तु तद्वाक्यं साश्रुकण्ठो मयूरराट् ।
भ्रमन् भ्रमन् ददर्शाग्रे मूर्च्छितं तु षडाननम् ॥ २१ ॥
पतदश्रुर्मयूरेशः स्नेहात् तच्चाब्रवीदिति ।
उत्तिष्ठोत्तिष्ठभद्रं ते किं शेषे प्राकृतोयथा ॥ २२ ॥
श्रान्तोऽसि दैत्यहननात् यच्छालिङ्गनमद्य मे ।
प्रमार्जितस्तु हस्तेन ततः स प्रोदतिष्ठत ॥ २३ ॥
अपश्यन्निकटे देवपादपद्मं भयापहम् ।
उवाच च मयूरेशं दर्शनात् ते गतं मम ॥ २४ ॥
सर्वदुःखं श्रमश्चैव विश्रान्तश्चास्मि साम्प्रतम् ।
आलिलिङ्ग मयूरेशं दोर्भिर्द्वादशभिस्तदा ॥ २५ ॥
उभौ यातौ रणं द्रष्टुं गृहित्वा च परस्परम् ।
अपश्यतां पुरः सुप्तं वीरभद्रमिषुक्षतम् ॥ २६ ॥
नन्दिनं च शराघातैः पीडितं बलवत्तरम् ।
भूतराजं च पुरतो विभिन्नमस्तकं तदा ॥ २७ ॥
क्रन्दन्तं विकटं चैव पुष्पदन्तं भृशार्दितम् ।
ललाटे दृढविद्धं च हिरण्यगर्भमेव च ॥ २८ ॥
मृतप्रायं च चपलं मृतं श्यामलमेव च ।
लम्बकर्णो न चाज्ञासीद् भ्रान्त्या कञ्चन सङ्गरे ॥ २९ ॥
उदानवायुनाक्रान्तः सुमुखस्तत्र चाभवत् ।
परमं खेदमापन्नः सोमश्च रक्तलोचनः ॥ ३० ॥
शेते स्म मूर्च्छया भृङ्गी पञ्चास्यश्च मुमूर्षया ।
शङ्खः प्रेतत्वमापन्नो भयकृत् सर्वयोधिनाम् ॥ ३१ ॥
एवं दृष्ट्वा सर्ववीरान् हतप्रायान् हतानपि ।
चिन्तया परयाविष्टः पप्रच्छ तं षडाननम् ॥ ३२ ॥
॥ स्कन्द उवाच ॥
असुराश्च स्वकीयाश्च महावीरा हता मृधे ।
निजधामगताः सर्वे जीवतामत्र का गतिः ॥ ३३ ॥
॥ स्कन्द उवाच ॥
अनन्तकोटिब्रह्माण्डनायकस्त्वं गुणेश्वर ।
चतुर्दशानां विद्यानां सर्वासां च स्वयं निधिः ॥ ३४ ॥
कलानां तत्र किं प्रश्नं करोषि त्वं ममान्तिके ।
नाहं मन्त्रं विजानामि वेत्थ त्वं हि न वै सुराः ॥ ३५ ॥
विवर्द्धयसि कीर्तिं त्वं नानादैत्यविभञ्जनात् ।
यथामति ब्रवीमि त्वामाज्ञया च स्मृतेर्बलात् ॥ ३६ ॥
पूर्वं तु त्रिपुरवधे शिवेन युद्धमद्भुतम् ।
कृतं तत्र मृतान् देवान् द्रोणाद्रिवल्लिजं रसम् ॥ ३७ ॥
देवः क्षतेषु संयोज्य जीवयामास तत्क्षणात् ।
॥ क उवाच ॥
श्रुत्वेत्थं वचनं देवो जगाद तं षडाननम् ॥ ३८ ॥
इदानीं दैत्यकोट्यस्तु युद्धार्थं बलवत्तराः ।
आयास्यन्ति तदा कोऽत्र युद्धेत ताभिः षडानन ॥ ३९ ॥
कश्चानेतुं व्रजेदद्रिं वल्लीरसमनुत्तमम् ।
एवं ब्रुवन्मयूरेशो मायामाविश्चकार ह ॥ ४० ॥
उज्जीवयामास तदा निजाङ्गवायुस्पर्शतः ।
ततस्ते हर्षसम्पन्नाः प्रणेमुस्तं गुणेश्वरम् ॥ ४१ ॥
आलिलिङ्गु पुनर्युद्धं कर्तुं तं च विजिज्ञपुः ।
त्वद्दृष्टिविनिपातेन तेजो नो द्विगुणीकृतम् ॥ ४२ ॥
॥ गुणेश्वर उवाच ॥
ब्रह्मादयो देवगणाः स्तुवन्ति वः पराक्रमम् ।
तारकासुरमुख्याश्च निहता दैत्यदानवः ॥ ४३ ॥
॥ क उवाच ॥
ततस्तैः सहिता देवैर्मयूरेशः शिवं ययौ ।
नमस्कृत्य शिवं गौरीं युद्धाय गन्तुमुद्यतः ॥ ४४ ॥
आलिलिङ्ग मुदा गौरी शिवस्तं च गुणेश्वरम् ।
ततः षडाननाद्यास्ते शिवमालिङ्गिरे मुदा ॥ ४५ ॥
वयं रणे निपतिताः पुनः सञ्जीविता हर ।
मयूरेशाङ्गसम्भूत वायुनाऽद्भुतकारिणा ॥ ४६ ॥
पुनर्युद्धाय यास्यामोऽनेन सार्द्धं शिवाधुना ।
प्रसादात्तव जेष्यामः सर्वानेवासुरान् युधि ॥ ४७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे रणशोधनं नाम षोडशाधिक शततमोऽध्यायः ॥ ११६ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-116

कोई टिप्पणी नहीं:

123