श्रीगणेशपुराणे क्रीडाखण्डे चतुर्दशोत्तरशततमोऽध्यायः
श्रीगणेशसेनाविजयवर्णनं
॥ वीरा ऊचुः ॥
नानाशस्त्रप्रहरणौ मृतौ तौ मित्रकौस्तुभौ ।
असङ्ख्याता हता सेना ताभ्यां निशि दिवाऽपि च ॥ १ ॥
ततो रिपुबलाद् दृष्टौ वीरौ द्वौ समुपस्थितौ ।
ताभ्यां बलिभ्यां निहता निजसेना विमर्दिता ॥ २ ॥
ययोः करप्रहाराभ्यां गतौऽतौ यमसादनम् ।
दृष्टा नानाविधा सेना न दृष्टौ तादृशौ सुरौ ॥ ३ ॥
॥ सिन्धुरुवाच ॥
यौ दृष्ट्वा स बिभेति स्म कृतान्तो भूतहारकः ।
तौ कथं शरघातेन मृतौ शंसथ सैनिकाः ॥ ४ ॥
पराक्रममिदानीं मे पश्यन्तु सर्वसैनिकाः ।
रणभूमौ नर्तयिष्ये शिरः शत्रोर्न संशयः ॥ ५ ॥
चक्रयुद्धं करिष्यामि चक्रपाणेर्यतः सुतः ।
इत्युक्त्वा हृयमारुह्य मयूरेशं ययौ खलः ॥ ६ ॥
असङ्ख्यकोट्यो दैत्यानां पुरो याता महाबलाः ।
योद्धुकामाः सुरेन्द्रेण शिवपुत्रेण दुर्धराः ॥ ७ ॥
ततो नन्दिपुष्पदन्तौ योद्धुं यातौ महाबलौ ।
भूतराजश्च विकटो दशलक्षैश्च योद्धृभिः ॥ ८ ॥
चपलोऽप्यर्धलक्षेण योद्धुकामोऽभिनिर्ययौ ।
षडाननो वीरभद्रोऽसङ्ख्यसेनासमायुतौ ॥ ९ ॥
ईयतुर्युद्धबलिनौ नानाशस्त्रधरावुभौ ।
सप्त व्यूहान् समालोक्य प्राव्यूहन् दैत्यसैनिकान् ॥ १० ॥
गन्धासुरोऽथ मदनः कान्तो वीरो ध्वजस्तथा ।
महाकायश्च शार्दूलो धूर्तनामाथ सप्तमः ॥ ११ ॥
सप्तव्यूहान् पुरस्कृत्य युयुधुस्तान् समागतान् ।
बाणवृष्टया समाच्छाद्य भल्लाग्रैस्तान् निजघ्निरे ॥ १२ ॥
भिण्डिपालहताः केचिन्निपेतुर्धरणीतले ।
षडाननेन युयुधे बलाद् गन्धासुरो बली ॥ १३ ॥
वीरभद्रेण मदनकान्तोऽपि युयुधे रणे ।
नन्दी च वीरराजश्च युयुधाते परस्परम् ॥ १४ ॥
ध्वजासुरपुष्पदन्तौ शस्त्रास्त्रैर्बाणसञ्चयैः ।
भूतराजो महाकायो युयुधाते परस्परम् ॥ १५ ॥
धूर्तश्च विकटश्चैव द्वन्द्वयुद्धमकुर्वतान् ।
चपलेनं हतो रोषाच्छार्दूलो न्यपतद् भुवि ॥ १६ ॥
पुनः संज्ञामवाप्यैनं सोऽपि खड्गेन चाहनत् ।
मूर्च्छामवाप महतीं चपलश्चपलो युधि ॥ १७ ॥
प्रवृत्ते द्वन्द्वयुद्धे तु युयुधाते बले ह्युभे ।
जघ्नतुः शस्त्रसङ्घातैर्बाणजालैः परस्परम् ॥ १८ ॥
सहस्व जहि मा भैस्त्वं हतः स्वर्गं समेष्यसि ।
क्षीणेषु शस्त्रबाणेषु लत्ताभिर्मुष्टिभिः पुनः ॥ १९ ॥
ययधुः सर्वसैन्यानि नाशयन्ति परस्परम् ।
कश्चिच्च चरणौ धृत्वा पोथयामासं वैरिणम् ॥ २० ॥
कश्चिदुड्डीय न्यपतच्चूर्णयामास वै परम् ।
कश्चिच्चिच्छेद च शिरः कश्चिद् बाहुं रिपो रणे ॥ २१ ॥
कश्चित् पादौ जानुनी चगुल्फौ चिच्छेद चापरः ।
शरवृष्टिं परे केचित् परस्परमवासृजन् ॥ २२ ॥
स्रवद्रक्तः शस्त्रहतो मरणावध्ययुध्यत ।
कबन्धा युयुधुस्तत्र जघ्नुः स्वांश्च परानपि ॥ २३ ॥
अपरे सहसा पेतुर्विदीर्णवक्षसो नराः ।
परस्पराघातहतौ मृतौ कौचिद् रणाजिरे ॥ २४ ॥
एकाप्सरः प्राप्तिकृते स्वर्गयुद्धमकुर्वताम् ।
असृङ्नद्यभवन् तत्र केशशैवलसंयुता ॥ २५ ॥
खड्ग मत्स्यवती खेटमहाकूर्मा दुरत्यया ।
प्रेतकाष्ठवहा घोरा चामरतृणसंयुता ॥ २६ ॥
कञ्चुकग्राहशोभाढ्या महाकटकभेकिका ।
शूरमोदकरा भीरूमहाभयविवर्धिनी ॥ २७ ॥
मेदोजला दुःखतरा मांसकर्दमशालिनी ।
ततोऽस्तमित आदित्ये न प्राज्ञायत किञ्चन ॥ २८ ॥
न हन्तव्या वयं दैत्यवाहिनीचारिणः सुराः ।
न हन्तव्या वयं देववाहिनीचारिणोऽसुराः ॥ २९ ॥
एवं कोलाहलैस्तत्र प्रायुध्यन्त परस्परम् ।
आशिषोऽथ ददुस्तत्र श्वापदा भूतराक्षसाः ॥ ३० ॥
शृगालाः पतगाः श्येनास्तृप्ता पार्वतिनन्दनम् ।
दिनत्रयमभूदेवं दिवारात्रौ महारणः ॥ ३१ ॥
वाद्यशब्दैर्जयं रात्रौ घोषयन्तः परस्परम् ।
एवं गन्धासुरोऽयुध्यत् सेनान्या बहुविस्तरम् ॥ ३२ ॥
मद्यपानेन मत्तोऽसौ त्यक्त्वा शस्त्राणि वेगवान् ।
अहनद् मुष्टिघातेन सहसा तं षडाननम् ॥ ३३ ॥
न्यपतत् स तदा भूमौ वज्राहत इवाचलः ।
अधावत् सोऽपि लब्ध्वाशु सपक्ष इव पर्वतः ॥ ३४ ॥
संज्ञां द्वादशभिर्हस्तैरविध्यत् तं महासुरम् ।
शरजालान्यनेकानि विसृजन् षड्रधनुर्वरैः ॥ ३५ ॥
निवार्य शरजालानि छादयामास तं शरैः ।
गन्धासुरो महावेगात् षडाननमनामयम् ॥ ३६ ॥
तन्निवार्य दधारैनं चरणे स षडाननः ।
अकस्माद् भ्रामयित्वैनं पातयामास भूतले ॥ ३७ ॥
तस्याङ्गं शतधा जातं गतासोर्दृढघाततः ।
तस्मिन्हते तस्य सेना ययौ व्यग्रा दिशो दश ॥ ३८ ॥
पृष्ठलग्नो निन्दति स्म सेनां तां स षडाननः ।
सेनश्च क्रोधनश्चैव शतघ्नो योद्धुमाययुः ॥ ३९ ॥
येषां शब्दो महानासीद् घनानामिव गर्जताम् ।
ऊचुः षडाननं दुष्ट सेना नो निहना बहु ॥ ४० ॥
इदानीं याहि भवनं हतो रविसुतस्य ह ।
तत आच्छादयामासुर्युगपत् ते षडाननम् ॥ ४१ ॥
ग्रामसिंहा यथा सिंहं बहवो बलवत्तराः ।
षड्धनुर्मोचितैर्बाणैर्न्यहनत् तान् षडाननः ॥ ४२ ॥
ततस्ते मूर्च्छिताः पेतुर्मुहूर्तादुत्थिता पुनः ।
पाशं क्षिप्त्वा स्कन्दगले निन्युस्तं पशुवत् त्रयः ॥ ४३ ॥
ज्ञात्वा नीतं षण्मुखं तमाधावंस्ते त्रयो जवात् ।
हिरण्यगर्भो बलवान् श्यामलो रक्तलोचनः ॥ ४४ ॥
त्रिभिस्ते मुष्टिघातेन हताः पेतुर्धरातले ।
ततो मदनकान्तोऽपि वीरभद्रो महाबलम् ॥ ४५ ॥
न्यहनच्छस्त्रघातेन स मूर्च्छां महतीं ययौ ।
त्यक्त्वा मूर्च्छां वीरभद्रो दण्डघातान्न्यपातयत् ॥ ४६ ॥
मृतं मदनकान्तं तं वीरराजो महाबलः ।
ज्ञात्वा प्रायान्निहन्तुं तांस्त्रीन् सुरान् बलवत्तरान् ॥ ४७ ॥
ततस्तान् न्यहनद् रोषाच्छृङ्गाभ्यां नन्दिकेश्वरः ।
अस्रवद् रुधिरं वक्त्राच्छतधा भूतलेऽपतत् ॥ ४८ ॥
तं हतं तु विलोक्याशु चत्वारोऽसुरसत्तमाः ।
आययुर्नन्दिनं हन्तुं शार्दूलोऽथ ध्वजासुरः ॥ ४९ ॥
महाकायो धृतश्चैव सर्वदेवजितो रणे ।
नानाशस्त्रैर्निजघ्नुस्ते नन्दिनं बलवत्तरम् ॥ ५० ॥
पतिते नन्दिनि ततश्चत्वारो युद्धदुर्मदाः ।
पुष्पदन्तो भूतराजो विकटश्चपलोऽपि च ॥ ५१ ॥
ते तु शैलान् समादाय तोलयित्वा निचिक्षिपुः ।
सर्वेषां मस्तका भिन्नाश्चूर्णीभूताश्च केचन ॥ ५२ ॥
शराघातेन ते सर्वे धरायां पतिता रणे ।
केचिच्च सिन्धुमगमन् शस्त्रघातप्रपीडिताः ॥ ५३ ॥
पराजयं स्वसैन्यानां प्राहुर्देवजयं तथा ।
जयं प्राप्ता देवसेना बहुवाद्यान्यवादयत् ॥ ५४ ॥
मयूरेश मयूरेश जय त्वं जय सर्वदा ।
इत्यब्रवीद् हर्षयुता स्वानन्देन ननर्त च ॥ ५५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशसेनाविजयवर्णनं
नाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें