श्रीगणेशपुराणे क्रीडाखण्डे पञ्चदशाधिकशततमोऽध्यायः
सिन्धुवैरुप्यकरणं
॥ क उवाच ॥
श्रुत्वा सेनाजयं दैत्यौ ययौ चिन्तां महत्तराम् ।
अत्यन्तम्लानवदनो निमग्नो दुःखसागरे ॥ १ ॥
मनसा परितप्तेन चिन्तयामास दैत्यराट् ।
॥ सिन्धुरुवाच ॥
विपरीतमिदं कस्माज्जातं न ज्ञायते मया ॥ २ ॥
पिपीलिका ग्रसेत् किं नु ब्रह्माण्डं लोकसङ्कुलम् ।
यस्याग्रे मशका देवा आसन्निन्द्रादयो मम ॥ ३ ॥
शिवार्भकेन तस्याद्य कथं सेना विनिर्जिता ।
॥ क उवाच ॥
इत्युक्त्वा हयमारुह्य धनुर्बाणासिचर्मभृत् ॥ ४ ॥
अहत्वा तं मयूरेशं दर्शयिष्ये मुखं न च ।
इत्युक्त्वाऽभिययौ सिन्धू रणभूमौ पतङ्गवत् ॥ ५ ॥
सज्जं चकार च धनुर्नादयन् गगनं दिशः ।
व्यसृजद् बाणजालानि तीक्ष्णान्यग्निमुखानि सः ॥ ६ ॥
च कम्पे पृथिवी सर्वा मूर्च्छिता जन्तवोऽखिलाः ।
प्राक्षिपद् देवसेनायामसङ्ख्याताँश्च पत्रिणः ॥ ७ ॥
छिन्ना भिन्नाः सुराः पेतुस्तच्छस्त्राघातपीडिताः ।
पलायन्तः सुराः पेतुस्तेऽपि पृष्ठे शरैर्हताः ॥ ८ ॥
ततः सर्वा मयूरेशवाहिनी व्यग्रतामियात् ।
द्विधाभूता जानुपादाः केषाञ्चिन्मस्तका अपि ॥ ९ ॥
शरवृष्ट्या सिन्धुहस्तमुक्तया रणमूर्धनि ।
अभवत् तुमुलं युद्धमनिवार्यं भयावहम् ॥ १० ॥
सिन्धोश्चैव गणेशस्य सेनयोरुभयोरपि ।
कोलाहले महाघोरे ध्वान्ते गाढे रजःकृते ॥ ११ ॥
पुरोगान् जघ्निरे सर्वे परान् स्वानपि ते तदा ।
शस्त्राघातैर्हता सेना देवसेनाचरैः परा ॥ १२ ॥
ततः सिन्धुर्हयात् तस्मादवरुह्य पदेऽग्रहीत् ।
पातयामास सहसा वीरभद्रं च वेगतः ॥ १३ ॥
अहनन्मस्तके सोऽथ नन्दिनं बलवत्तरम् ।
भूतराजं च खड्गेन मारयन् सहसाकटौ ॥ १४ ॥
पुष्पदन्तस्योदरं च बिभेद बलवत्तरम् ।
शिखामाक्रम्य प्राकर्षद्धिरण्यगर्भमोजसा ॥ १५ ॥
श्यामलस्य ललाटं स बिभेद शरघाततः ।
चपलस्य हनू रोषाज्जघान विकटं रणे ॥ १६ ॥
लम्बकर्णस्य कण्ठं स बिभेद बाणसञ्चयैः ।
धृत्वा तु चरणौ रक्तलोचनं च न्यपातयत् ॥ १७ ॥
हस्तान्निस्तीर्य सहसा सुमुखः प्रापलज्जवात् ।
सोमं लत्ताप्रहारेण रणभूमावपातयत् ॥ १८ ॥
जठरं दारयामास भृङ्गिणोऽसिप्रहारतः ।
दावानलस्य च शिरो भेदयामास सायकैः ॥ १९ ॥
पञ्चाननस्य पृष्ठे सोऽवधीच्च चपलो युधि ।
एवं सर्वे महावीरा निहता रणमूर्धनि ॥ २० ॥
द्रुतं पलायिताश्चान्ये ततः सिन्धुः पुरो ययौ ।
जगर्ज घनवद् घोरं नादयन् भुवनत्रयम् ॥ २१ ॥
स विव्याध मयूरेशं शरजालैरनेकधा ।
तस्य देहं समालोक्य विकरालं भयानकम् ॥ २२ ॥
विरूपाक्षादयः सर्वे पलायनमकुर्वत ।
मुनियुक्तो गणेशश्च युयुधे संयुगे तदा ॥ २३ ॥
स चकम्पे करिशिशुः सिंहस्येवास्य दर्शनात् ।
ततोऽब्रवीद् रोषवशात् सिन्धुस्तं तु गुणेश्वरम् ॥ २४ ॥
॥ सिन्धुरुवाच ॥
दुरात्तेऽश्रावि बहुशः पुरुषार्थः शिवार्भक ।
प्रत्यक्षं दृश्यसे रे त्वं जम्बूक इव दुर्बलः ॥ २५ ॥
कथं मे सहसे मूढ तलाघातं शिलाभिदम् ।
त्वया मातुः स्तनं पीत्वा नर्तव्यं हि गृहाङ्गणे ॥ २६ ॥
शक्रादयो जिता येन तस्य ते गणनाऽत्र का ।
निवारयति मां मूढ कृपा त्वां हन्तुमुत्सुकम् ॥ २७ ॥
कथं ते कोमलाङ्गेषु विध्ये तीक्ष्णेतरान् शरान् ।
॥ देव उवाच ॥
किमर्थं वल्गसे मूढभावेनाधम पामर ॥ २८ ॥
नावतारं गृहिष्येऽहं यदि जानेऽल्पकं वपुः ।
तवेदानीं हनिष्यामि क्षणेन देहमल्पकम् ॥ २९ ॥
सूर्यदत्ताद् वराद् दुष्ट दुष्कर्मनिरतो भवान् ।
इदानी स गतः कालो मत्युकाल उपस्थिते ॥ ३० ॥
वल्गनाकुशलस्त्वं किं युद्धमद्य करिष्यसि ।
त्वा हन्तुं मोचितुं देवान् धृतं रूपमिदं मया ॥ ३१ ॥
अन्तकाले सन्निहिते पुरुषार्थो वृथा भवेत् ।
मया हते महास्थानं मम प्राप्स्यसि दुर्लभम् ॥ ३२ ॥
॥ सिन्धुरुवाच ॥
यावन्नच्छेद्मि ते मूढ कोमलं देहमुत्तमम् ।
तावद् वल्गसि यो यस्य भक्तः स्यात् स मृतो व्रजेत् ॥ ३३ ॥
तस्य लोकं वृथा हि त्वं न प्रशंसां वदात्मनः ।
॥ क उवाच ॥
एवमुक्त्वा महादैत्यः सायकं परभेदिनम् ॥ ३४ ॥
न कदाचित् प्रकटितमतितीक्ष्णं जयावहम् ।
स्मृत्वा सूर्यं धनुर्गृह्य सज्जं कृत्वा न्ययोजयत् ॥ ३५ ॥
टणत्कारेण धनुषो नादितं भुवनत्रयम् ।
मुमोच बाणं तं देवे मयूरेशे बलात् खलः ॥ ३६ ॥
स जज्वाल दिशः सर्वा गगनं विदिशोऽपि च ।
तं दृष्ट्वा स मयूरेशस्तत्याज परशुं निजम् ॥ ३७ ॥
वज्रात् सारतरं सर्ववैरिदर्पहरं परम् ।
अदहत् सोऽपि त्रींल्लोकान् प्रलयानल सन्निभः ॥ ३८ ॥
परशुः खण्डयामास नभस्येव च तं शरम् ।
धरायां पात्य शतधा दैत्यहस्तमथाच्छिनत् ॥ ३९ ॥
धनुर्भारसहं घोरं नभस्यैव गतं करात् ।
ततः क्रोधेन दैत्यः स चक्रं तत्याज शत्रवे ॥ ४० ॥
शतहृदेव तच्छब्दं चकार गर्जयन् दिशः । (शतधारञ्च)
दृष्ट्वा तत्र मयूरेशः शूलमुग्रं मुमोच ह ॥ ४१ ॥
ददाह भुवनं तच्च पपात दैत्यमस्तके ।
मुकुटं कुण्डले कर्णौ खण्डयित्वा ययौ पुनः ॥ ४२ ॥
मयूरेशकरं शीघ्रं यथा न त्याजितं तथा ।
ततः क्रोधादुवाचैनं छिन्नकर्णो महासुरः ॥ ४३ ॥
पौरुषं दर्शितं तेऽद्य दर्शयिष्ये तवापि च ।
इदानीं शरघातेन छिनद्मि नासिकां तव ॥ ४४ ॥
इत्युक्त्वा खड़गहस्तोऽसौ तं जगाम गुणेश्वरम् ।
मयूरेशस्तदा चक्रे नाना रूपाणि सर्वतः ॥ ४५ ॥
आयुधानि च चत्वारि बिभ्रत् करचतुष्टये ।
ततः स विस्मयाविष्टो दशदिक्षु व्यलोकयत् ॥ ४६ ॥
ददर्श तत्र तं देवं चतुरायुधभूषितम् ।
ततः स लज्जितो गेहं निजं गन्तुं मनो दधे ॥ ४७ ॥
तथापि पुरतोऽपश्यन् मयूरेशं तथाविधम् ।
आच्छाद्य नेत्रे स ययौ हृद्येनं समलोकयन् ॥ ४८ ॥
उन्मील्य नेत्रे सोऽपश्यत्पुर एनं शिखण्डिनि ।
ततो दैत्यो बुबोधैनं स्वान्ते रविप्रसादतः ॥ ४९ ॥
रणस्थलात् पुरीं यात आच्छाद्य वदनाम्बुजम् ।
हतशेषैश्च वीरैश्च तादृशैः परिवारितः ॥ ५० ॥
पर्यङ्के न्यपतच्चिन्तापर्याकुलितमानसः ।
विरास्ते स्वगृहं याताश्चिन्ताव्याकुलचेतसः ॥ ५१ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुवैरुप्यकरणं नाम
पञ्चदशाधिकशततमोऽध्यायः ॥ ११५ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें