श्रीगणेशपुराणे क्रीडाखण्डे एकोनविंशोत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे एकोनविंशोत्तरशततमोऽध्यायः

धर्माधर्मवध
॥ क उवाच ॥

कलं च विकलं श्यालं देवसेनाविघातिनम् ।
निहतं वीरभद्रेण पर्वतेन महासुरम् ॥ १ ॥
षडाननेन विकलं हतं तलप्रहारतः ।
श्रुत्वा भद्रासनगतो नानावीरसमन्वितः ॥ २ ॥


प्राप सिन्धुर्महाचिन्तां स्मरंन् शिवसुतं तदा ।
किं करिष्यति देवोऽसौ नाशमित्थं सुरद्विषाम् ॥ ३ ॥
इत्येवं चितयाविष्टो मूर्च्छामाप महत्तराम् ।
तावदाजग्मतुरुभौ पुत्रावस्य महाबलौ ॥ ४ ॥
धर्माधर्मौ भद्रपीठे जनकं वाक्यमाहतुः ।
कथं बिभेषि जनक शिवाया अर्भकाल्लघोः ॥ ५ ॥
नावाज्ञां देहि दैत्येन्द्र हनिष्यावः क्षणादमुम् ।
सम्मुखे तौ हतौ वीरौ मातुलौ नौ दिवं गतौ ॥ ६ ॥
उत्तीर्णौ तौ स्वामिकार्ये कीर्तिं कृत्वा महत्तराम् ।
हत्वाऽनेकविधां सेनां नानावीरैः प्रपालिताम् ॥ ७ ॥
आवामपि प्रयुध्यावो यावो हत्वा रिपुं बलात् ।
अथवा मोक्षमायावो निहतौ तेन चेद् रणे ॥ ८ ॥
यावदावां हि जीवावश्चिन्तां तावच्च मा कुरू ।
इन्द्रादय सुरगणाः कारागारेऽधुना तव ॥ ९ ॥
यदा त्वं विजिताः पूर्वं पितरस्तत्र केऽभवन् ।
आनयाव मस्तकं तस्य रिपोस्तव न संशयः ॥ १० ॥
अन्यथा दर्शयिष्यावो मुखं लोकेषु न क्वचित् ।
॥ क उवाच ॥
एवं तयोः समाकर्ण्य वचनं हर्षमाप्तवान् ॥ ११ ॥
तावूचे परमं युद्धं प्राप्नुतं यश उत्तमम् ।
नाशयित्वा रिपुं घोरं यातं शीघ्रं ममान्तिकम् ॥ १२ ॥
एवमाकर्ण्य तद्वाक्यमीयतुर्युद्धलालसौ ।
नमस्कृत्य पितुः पादौ मातुर्गृह्य तदाशिषः ॥ १३ ॥
दशकोटिमितां सेनां प्रत्येकं गृह्य सत्वरौ ।
रथाश्वहस्तिपादातैर्नानाशस्त्रधरैर्युताम् ॥ १४ ॥
पत्तयोऽपि ययुर्हृष्टाः सिन्दूरारूणमस्तकाः ।
गजा नानागिरिनिभा नानाधातुध्वजान्विताः ॥ १५ ॥
अश्वाः सादिभिरारूढा नानाशस्त्रासिपाणिभिः ।
गर्जद्भिर्मेघसदृशं गर्जयद्भिर्दिशोदश ॥ १६ ॥
ततः सेनामध्यगतौ रेजतुर्भ्रातरावुभौ ।
नानालङ्कार संयुक्तौ नानायुधधरावुभौ ॥ १७ ॥
रत्नकाञ्चनसंयुक्तकुण्डलाभ्यां विराजितौ ।
किरीटाभ्यां सुतेजोभ्यां भ्राजमानौ महाबलौ ॥ १८ ॥
मुक्तामणि मयौ हारौ बिभ्रन्तौ युद्धदुर्मदौ ।
प्रापतू रणभूमिं तौ नानावादित्रनिस्वनैः ॥ १९ ॥
ददृशुर्वीरभद्राद्यास्तौ च तां वाहिनीमपि ।
निकटे तौ समालोक्य मयूरेशप्रचोदिताः ॥ २० ॥
आज्ञयाऽभिययुर्वीरभद्रोऽसौ च षडाननः ।
हिरण्यगर्भः सङ्क्रुद्धो भूतराजो विशालदृक् ॥ २१ ॥
असङ्ख्यसेनया सार्द्धं ततो युद्धमवर्त्तत ।
परस्परमयुध्यन्त ततः सेनाचरा भृशम् ॥ २२ ॥
घ्नन्तः शिरांसि पादांश्च बाहूरूदरकन्दराः ।
निहताश्च निहन्यन्ते तमसाच्छादिते रवौ ॥ २३ ॥
केचिच्चक्राणि मुमुचुर्भिण्डिपालांस्तथाऽपरे ।
बाणवृष्टिं परे चापि नानाशस्त्राणि केचन ॥ २४ ॥
मल्लयुद्धं च तत्रासीत् सैनिकानां परस्परम् ।
एवं सा संहृता सेना मयूरेशप्रपालिता ॥ २५ ॥
पपाल तत्र शेषा या विह्वला तु दिशो दश ।
ततः षडाननः क्रुद्धो द्वादशायुधभूषितः ॥ २६ ॥
तैरायुधैर्जघानाशु सेनां तां दैत्यपालिताम् ।
केषाच्चिद् बाहवो भिन्नाः केऽपि मध्ये द्विधाकृताः ॥ २७ ॥
केषाचिन् मस्तका भिन्नाः केषाचिच्च रणाङ्गणे ।
एवं सा नाशिता सेना हस्त्यश्वरथसङ्कुला ॥ २८ ॥
केऽपि स्वर्गं गताः केचिद् रूपं प्रापुः षडाननम् ।
निरीक्ष्य ये मयूरेशं जहुः प्राणान् प्रहारिताः ॥ २९ ॥
जग्मुस्ते तत्प्रसादेन निजधाम महाबलाः ।
तद् दृष्टिपातात् तदघं नष्टं सर्वं जनुः कृतम् ॥ ३० ॥
दृष्ट्वा विशाखविशिखैः सशिखैर्निहतां स्वकाम् ।
सेनां तस्य सुतौ वीरावधर्मो धर्म एव च ॥ ३१ ॥
युयुधाते बहुविधं शस्त्रैरस्त्रैः शरव्रजैः ।
चक्रतुर्मल्लयुद्धं तौ महासेनेन तत्क्षणात् ॥ ३२ ॥
तयोर्बलं निरीक्ष्यैव कार्तिकेयो महाबलः ।
शिखयोस्तौ दधाराशु षड्बाहुः षट्करैर्बलात् ॥ ३३ ॥
भ्रामयामास बहुधा पोथयामास भूतले ।
शतखण्डानि जातानि तयोस्तु पततोर्भुवि ॥ ३४ ॥
जयं प्राप्ते शिवसुते नेदुर्वाद्यानि सर्वशः ।
जय त्वं हि मयूरेश जगुः सर्वेऽपि सैनिकाः ॥ ३५ ॥
चत्वारस्ते ययुर्देवं मयूरेशं निजं प्रभुम् ।
आलिलिङ्गुर्मुदा ते तु परस्परमथाऽब्रुवन् ॥ ३६ ॥
प्राप्ता इव पुनर्जन्म मुमुदुस्ते परस्परम् ।
शशंसुः सर्व सर्ववृत्तान्तं शिवायै च शिवाय च ।
सेनां च निहतां सिन्धोः पुत्रौ च बलवत्तरौ ॥ ३७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे धर्माधर्मवधो नामैकोनविंशोत्तरशततमोऽध्यायः ॥ ११९ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-119

कोई टिप्पणी नहीं:

123