श्रीगणेशपुराणे उपासनाखण्डे
त्रिंशतितमोऽध्यायः
अहल्याधर्षणं
॥ नारद उवाच ॥
कदाचिदमरावत्यां शक्रं दृष्टुं गतोऽस्म्यहम् ।
स मां सम्पूज्य विधिवदुवाचावनतो भृशम् ॥ १ ॥
॥ इन्द्र उवाच ॥
किञ्चिदाश्चर्यभूतं मे सन्तोषाय मुने वद ।
भ्रमसे सर्वलोकांस्त्वं विदितं सर्वमस्ति ते ॥ २ ॥
॥ नारद उवाच ॥
मृत्युलोके मया दृष्टो गौतमस्याश्रमो महान् ।
नानावृक्षलताजालैर्नानापक्षिगणैर्युतः ॥ ३ ॥
अहिल्यासहितं तत्र गौतमं दृष्टवानहम् ।
रूपं विलोक्य तस्यास्तु जातोऽहं कामविह्वलः ॥ ४ ॥
यस्या रूपेण सावित्री शचीलक्ष्मीर्गिरीन्द्रजा ।
उर्वशी मेनका रम्भा लोके ख्याता तिलोत्तमा ॥ ५ ॥
केशाबाला ययाऽकारि साऽनसूयाऽप्यरून्धती ।
छाया संज्ञा रवेर्भार्या कश्यपस्य च याऽदितिः ॥ ६ ॥
सदृशी नैव कापि स्यान्नागपत्नीषु वा क्वचित् ।
न च मे रोचते गानं न पूजा न च भोजनम ॥ ७ ॥
ब्रह्मचर्य च मे स्वीयं निद्रां च न लभे क्वचित् ।
त्वरावानह मायातो दृष्टुं साध्वमरावतीम् ॥ ८ ॥
तुच्छां पश्य इमां देवी विना ताममरावतीम् ।
॥ नारद उवाच ॥
इति शक्रं ब्रुवन्नन्तर्हितोऽहं नृपते वर ॥ ९ ॥
अन्तर्हिते मयि तदा मदद्वाक्यं मनसा स्मरन् ।
जम्भभेदी मत्सकेतुविद्धो मूर्च्छामवाप सः ॥ १० ॥
पश्ये कदा मुनेर्भार्यां गौतमस्येत्यचिन्तयत् ।
कदाऽधरामृतं प्राप्य मुच्येयं मदनानलात् ॥ ११ ॥
जीवितुं नैव पश्येऽन्यन्तदाश्लेषं विना शुभम् ।
एवं निश्चित्य सङ्कल्पं गौतमोऽभूत् स जम्भहा ॥ १२ ॥
चिन्तयन्नेव तां मार्गे मुनेराश्रममाययौ ।
ददर्श तामहल्यां तु स्नातुं याते स गौतमे ॥ १३ ॥
अभ्यन्तरगतः प्रोचे प्रिये शय्यां शुभां कुरू ।
सा चोवाच जपं त्यक्त्वा कथमद्यागतो गृहम् ॥ १४ ॥
दिवैव सुरतेच्छां किं कुरूषेऽतिविगर्हिताम् ।
॥ गौतम उवाच ॥
अहं स्नातुं गतो यावत् तावदेव वराप्सराः ॥ १५ ॥
तत्रैव स्नातुमायाता जाता नग्नाऽक्षिगोचरा ।
बिम्बाधरा सुचार्वङ्गी चारुपीनपयोधरा ॥ १६ ॥
न लग्नं मे मनो देवि जपे कामास्त्रपीडितम् ।
ततोऽहमाश्रमं यातो रतिं देहि प्रियेऽधुना ॥ १७ ॥
नोचेत्कामाग्निना दग्धं मृतं मां क्व नु पश्यसि ।
शपे त्वां प्रव्रजिष्ये वा निग्रहीष्ये मनोभृशम् ॥ १८ ॥
॥ अहल्योवाच ॥
स्वाध्यायं देवपूजां च त्यक्त्वा किं प्रार्थ्यत रतिः ।
नोचितं तव ब्रह्मर्षे तथाऽप्याज्ञां करोम्यहम् ॥ १९ ॥
भर्तुः शुश्रुषणादन्यो धर्मो नास्ति स्त्रियाः क्वचित् ।
॥ नारद उवाच ॥
स्वराकृति स्वभावैः सा ज्ञात्वा तं स्वामिनं निजम् ॥ २० ॥
विवेश शयने रन्तुमहल्या सह वज्रिणा ।
निःशङ्कं चुम्बनाश्लेषनीवीविस्त्रंसनादिभिः ॥ २१ ॥
आकृत्या गौतमस्यैवं चिक्रीडे जम्भहा तया ।
दिव्यान्गन्धानुपाघ्राय चकिता शङ्किता भृशम् ॥ २२ ॥
तर्कयामास मनसि किमयं कूटरुपवान् ।
कलङ्कोऽयं मम भृशं चन्द्रस्येव भवेन्नुकिम् ॥ २३ ॥
उभे कुले मे नष्ट किं दुष्टस्यास्य तु सङ्गमात् ।
दर्शयिष्ये कथं लोकेऽयशः श्याम मुखंत्विदम् ॥ २४ ॥
नयिष्यति गति कां मे प्रियो भर्ता तु मां मुनिः ।
पप्रच्छ तं शठं कोपात् कोऽसि त्वं कूटरुपधृक् ॥ २५ ॥
विश्वस्ता स्वामिरूपेण वदनो चेच्छपामि ते ।
इत्युक्तः शापभीतोऽसावाविश्चक्रे निजं वपुः ॥ ५६ ॥
दिव्याभरणसंयुक्तं किरीटकटकान्वितम् ।
कुण्डलाद्भुतदीप्तीभिर्विलसन् मुखपङ्कजम् ॥ २७ ॥
उवाच स ततस्तां तु विद्धि मां त्वं शचीपतिम् ।
लावण्यदर्शनात् तेऽहं विह्वलो मदनाग्निना ॥ २८ ॥
न लेभे कुत्रचिच्छर्म तत इत्थं कृतं मया ।
इतोऽपि मां भजस्व त्वं त्रैलोक्येश्वरमादरात् ॥ २९ ॥
श्रुत्वेत्थं वचनं तस्य मुनिपत्नी रुषान्विता ।
वमन्तीव मुखाज्ज्वालां जगाद त्रिदशाधिपम् ॥ ३२ ॥
अस्य ते वपुषो मूढ मद्भर्तरि समागते ।
अवस्था का भवेन्मन्द न जानेऽहं शतक्रतो ॥ ३१ ॥
पातिव्रत्यं त्वया भग्नं दुष्ट पापीयसा मम ।
कामवस्थां गमिष्यामि शापाद् गौतमवाग्भवात् ॥ ३२ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे अहल्याधर्षणं नाम
त्रिंशतितमोऽध्यायः ॥ ३० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें