श्रीगणेशपुराणे उपासनाखण्डे सप्तविंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे सप्तविंशोऽध्यायः
रूक्माङ्गदाभिषेक वर्णनं

॥ व्यास उवाच ॥

क उपायस्तु मुनिना विश्वामित्रेण धीमता ।
कृपावता तु भीमाय कथितस्तं वदस्व मे ॥ १ ॥
मन्मनोमोहपटलं मृत्योरिव विनिःसृतम् ।
तत्कथामृतपानेन पितामह मृता यथा ॥ २ ॥


॥ ब्रह्मोवाच ॥
भीमाय कथितस्तेन य उपायः श‍ृणुष्वतम् ।
एकाक्षर महामन्त्रं भीमाया कथयन्मुनिः ॥ २ ॥
पाराशर्य मुनिश्रेष्ठ कथयामि श‍ृणुष्वतम् ।
उवाच तं प्रसन्नात्मा विश्वामित्रः सुधर्मवित् ॥ ३ ॥
॥ विश्वामित्र उवाच ॥
अनेनाराधय विभुं दैवतं गणनायकम् ।
अनुष्ठानं कुरुष्व त्वं प्रासादे दक्षनिर्मिते ॥ ५ ॥
विनायकः प्रसन्नस्ते सर्वान् कामान् प्रदास्यति ।
धर्ममर्थं तथा कामं मोक्षमन्यदपेक्षितम् ॥ ६ ॥
गच्छ वा स्वपुरं भीम चिन्तां कामपि मा कुरू ।
॥ ब्रह्मोवाच ॥
इत्युक्तः स तदा तेन तं प्रणम्य ययौ नृपः ॥ ७ ॥
सपत्नीको ददर्शाऽथ पत्तनं स्वं जहर्ष च ।
अमात्यौ सेनया सार्द्धं नागरैरीयतुर्नृपम् ॥ ८ ॥
आलिलिङ्गुर्नृपं केचिन्नेमुर्दूरात्तथाऽन्तिके ।
प्रविवेश पुरं राजा सर्वैः साकं ध्वजालिमत् ॥ ९ ॥
सिक्तमार्गं चारुगन्धं नानावादित्रशब्दितम् ।
ऊचुः परस्परं लोकाः पुरीयं शोभतेऽधुना ॥ १० ॥
यथा नारी पतिं प्राप्य यथाऽन्धो वाऽपि सदृशम् ।
इति श‍ृण्वन्नृयानस्थस्तथा सा चारुहासिनी ॥ ११ ॥
वस्त्रालङ्कारशोभाढ्यौ स्तूयमानौ मुदान्वितौ ।
उभौ विविशतू रम्यं पुरं नानर्द्धिसङ्कुलम् ॥ १२ ॥
विसृज्य सर्वलोकं तौ वस्त्रालङ्कारमौक्तिकैः ।
ताम्बूलैस्तेषु यातेषु भवनं स्वमगच्छताम् ॥ १३ ॥
ततः शुभेदिने राजा दक्षप्रासादमागमत् ।
यत्कौण्डिन्यपुरेऽकारि पुरा दक्षेण धीमता ॥ १४ ॥
तत्रार्चयामास विभुं सर्वदा तं विनायकम् ।
उपवासपरो नित्यं तन्मन्त्रमवलोडयन् ॥ १५ ॥
भोजन शयने याने वचने श्वसनेऽपि च ।
तमेव चिन्तयन् नित्यमनन्यमनसा नृपः ॥ १६ ॥
जले स्थले नभोमार्गे स्वर्गे देवे नरे द्रुमे ।
भक्ष्ये पेये नृपोऽपश्यद् विनायकमनुत्तमम् ॥ १७ ॥
यं यं पश्यति तं नौति दृढालिङ्गनतत्परः ।
नगरे तं जनाः सर्वे पिशाच इति मेनिरे ॥ १८ ॥
ततो विनायकोऽभ्येत्य धृत्वा पाणितले नृपम् ।
आह तं नृप मुक्तोऽसि किं वाञ्छसि वदस्व तत् ॥ १९ ॥
तमुवाच नृपो नान्यं जाने त्वच्चरणाम्बुजात् ।
ततो विनायकः प्राह पुत्रस्ते चारुदर्शनः ॥ २० ॥
भविता मत्प्रसादेन गुणी स्वर्णतनुर्नृपः ।
व्रज स्वं भवनं देवद्विजपूजापरो भव ॥ २१ ॥
स गत्वा भवनं राजा तच्चकार तथैव च ।
देवानां ब्राह्मणानां च पूजनं तर्पणं तथा ॥ २२ ॥
अकरोत् सर्वभावेन गणेशः प्रीयतामिति ।
अल्पेनैव तु कालेन पुत्रस्तस्याऽभवच्छुभः ॥ २३ ॥
ददौ दानान्यनेकानि पुत्रजन्मनिमित्ततः ।
रुक्माङ्गदेति नामाऽस्य चक्रे द्विजवरोदितम् ॥ २४ ॥
ववृधे बालको नित्यं शुक्लपक्षे यथा शशी ।
चकार गुरूसात् तं स शिक्षार्थं नृपतिः सुतम् ॥ २५ ॥
स च श्रवणमात्रेण जग्राह गुरूणोदितम् ।
सर्वविद्यानिधानेन दत्तं यत्कपिलेन च ॥ २६ ॥
सोऽपि विद्यानिधिरभूद गजकर्ण इवापरः ।
रूक्माङ्गदोऽति बलवान् सर्वशास्त्रविशारदः ॥ २७ ॥
तस्मै पट्टाभिषेकं स चकार गुणराशये ।
ददौ च द्विजमुख्येभ्यो वासोरत्नधनानि च ॥ २८ ॥
ततोऽधिकां महाभक्तिं सोऽपि चक्रे विनायके ।
जजापैकाक्षरं मन्त्रं पितुः प्राप्तं दिने दिने ॥ २९ ॥
एकस्मिन्दिवसेऽरण्यं युवराजा विवेश ह ।
मृगयां व्यचरद्भूरि जघान गवयान् मृगान् ॥ ३० ॥
अतिश्रान्तो ददर्शाऽथ मुनेः कस्यचिदाश्रमम् ।
नानावृक्षलताजालं त्यक्तवैरमृगान्वितम् ॥ ३१ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे रक्माङ्गदाभिषेकवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-27

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...