श्रीगणेशपुराणे उपासनाखण्डे चतुर्विंशोऽध्यायः
स्वप्नकथनं
॥ भीम उवाच ॥
दक्षेण मुनिशार्दूल राजपुत्रेण धीमता ।
अनुष्ठानं कृतं कुत्र कथं वा कस्य वा मुने ॥ १ ॥
एतद्विस्तार्य ब्रूहि त्वं शृण्वंस्तृप्याम्यहं न च ।
॥ विश्वामित्र उवाच ॥
अविदूरे पुरस्तस्याः कौण्डिन्यस्य महावनम् ॥ २ ॥
रम्य नानावृक्षयुतं नानाश्वापदसङ्कुलम् ।
नानापक्षिगणैर्युक्तं लताजालविराजितम् ॥ ३ ॥
सन्मनोनिर्मलपयः सरोवापीविराजितम् ।
जीर्णप्रासादमध्यस्थ गजानन विराजितम् ॥ ४ ॥
तत्र स्थित्वा तपश्चक्रे गजानन सुतोषकम ।
मुद्गलेनोपदिष्टेन मन्त्रेणकाक्षरेण सः ॥ ५ ॥
तोषयामास तं देवं वर्ष्यैर्द्वादशसम्मितैः ।
स्नानैर्वस्त्रैः सुगन्धैश्च माल्यैर्धूपैश्च दीपकैः ॥ ६ ॥
नैवेद्यं कन्दमूलैश्च भक्षणीयैरकल्पयत् ।
मनसा कल्पयामास दक्षिणां क्षत्रियर्षभः ॥ ७ ॥
एवं तस्यागमन् भूप दिनानि त्वेकविंशतिः ।
ततः प्रभातसमये स्वयमेवं ददर्श सः ॥ ८ ॥
एकं महामतङ्गञ्च सिन्दूराक्तं सुशोभितम् ।
मदस्राविसुगण्डाभ्यां सुन्दरं गिरिसन्निभम् ॥ ९ ॥
चारूप्रसन्नवदनं दन्तशोभिमहत्करम् ।
भ्रमरालिसमाकीर्णं गजाननमिवापरम् ॥ १० ॥
तेन तत्कण्ठदेशे तु रत्नमाला समर्पिता ।
तत उत्थाप्य तं स्कन्धे स्थापयामास दन्तिराट् ॥ ११ ॥
स दन्ती नगरं यातः पताकाध्वजशोभितम् ।
ततः स प्रतिबुद्धः सन् पप्रच्छ जननीं निजाम् ॥ १२ ॥
कमले वद मातस्त्वमस्याभिप्रायमद्य मे ।
आरोहणं गजस्कन्धे शुभं वा यदि वाऽशुभम् ॥ १३ ॥
॥ कमलोवाच ॥
धन्यस्त्वमसि दृष्टोऽयं गजरूपी विनायकः ।
आरोहणफलं राज्यप्राप्तिरेव न संशयः ॥ १४ ॥
॥ दक्ष उवाच ॥
यदि राज्यस्य प्राप्तिः स्यात्तदा तुभ्यं ददाम्यहम् ।
नरयानं तथा ग्रामान् दीपिकां मौक्तिकस्रजम् ॥ १५ ॥
धर्मं च कारयिष्यामि गवाष्टापददानतः ।
व्रतानि नियमांश्चैव दानान्यन्यान्यनेकशः ॥ १६ ॥
॥ मुनिरुवाच ॥
श्रुत्वेत्थं कमला हृष्टा जगाद तनयं प्रति ।
त्वयि राज्य स्थिते पुत्र परमानन्दता मम ॥ १७ ॥
सद्धर्मे रमतां चेतः सतः सराभृतस्तव ।
आयुष्य विपुलं तेऽस्तु द्विजदेवार्चने रतिः ॥ १८ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे स्वप्नकथनं नाम
चतुर्विंशोऽध्यायः ॥ २४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें